अध्यायः 011

युधिष्ठिरेण कृष्णादिभिः सह धृतराष्ट्रसमीपमेत्याभिवादनम् ॥ 1 ॥ धृतराष्ट्रेण युधिष्ठिरं मृदुलमालिङ्घ्य पश्चाद्भावज्ञेन कृष्णेन पुरतः स्थापितलोहभीमस्य दृढालिङ्गनेन भञ्जनम् ॥ 2 ॥

वैशम्पायन उवाच ।
हतेषु सर्वेसैन्येषु धर्मराजो युधिष्ठिरः ।
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात् ॥
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः ।
शोचमानो महाराज भ्रातृभिः सहितस्तदा ॥
अन्वीयमानो वीरेण दाशार्हेण महात्मना ।
युयुधानेन च तथा तथैव च युयुत्सुना ॥
तमन्वगात्सुदुःखार्ता द्रौपदीशोककर्शिता ।
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ॥
सङ्ग्राममनु बृन्दानि स्त्रीणां भरतसत्तम् ।
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह ॥
ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः ।
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः ॥
क नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता ।
यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि ॥
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् ।
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् ॥
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः ।
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत ॥
वैशम्पायन उवाच ।
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव ।
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः ॥
ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः ।
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ॥
तमात्मजान्तकरणं पिता पुत्रवधार्दितः ।
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ॥
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत ।
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः ॥
स कोपपावकस्तस्य शोकवायुसमीरितः ।
भीमसेनमयं दावं दिधक्षुरिव दृश्यते ॥
तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः ।
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् ॥
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः ।
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः ॥
उपगुह्यैव पाणिभ्यां भीमसेनमयस्मयम् ।
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् ॥
नागायुतसमप्राणः स राजा भीममायसम् ।
भङ्क्तत्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् ॥
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः ।
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः ॥
प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा ।
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव ॥
हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः ।
हाहाभीमेति चुक्रोश नृपः शोकसमन्वितः ॥
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् ।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥
मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः ।
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो ॥
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ ।
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः ॥
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन ।
कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः ॥
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते ।
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन ॥
तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी ।
भीमस्य सेयं कौरव्य तवैवोपहृता मया ॥
पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः ।
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि ॥
न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् ।
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन ॥
तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति ।
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि एकादशोऽध्यायः ॥ 11 ॥

11-11-5 स गङ्गामन्विति झ.पाठः ॥ 11-11-6 प्रियाप्रियैः पाण्डवानां प्रियाः अभिमन्युप्रभृतयः अप्रियाः दुर्योधनादयः तैर्हेतुभिः क्रोशन्तीभिरिति सम्बन्धः ॥ 11-11-15 आक्षिप्य निवार्य । आयसं लोहमयम् ॥ 11-11-21 स तु कोपं समुत्सृज्येति झ.पाठः ॥ 11-11-28 पुत्रेति धर्मादपकृतमालिङ्गनच्छलेन भीमवधः कर्तव्य इत्याशया ॥ 11-11-11 एकादशोऽध्यायः ॥

श्रीः