अध्यायः 020

कृष्णंप्रति गान्धार्या रुदन्तीनां स्त्रीणां प्रदर्शनम् ॥ 1 ॥

गान्धार्युवाच ।
अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव ।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् ।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः ।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः ।
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता ॥
तमेषा हि समागम्य भार्या भर्तारमन्तिके ।
विराटदुहिता कृष्ण पाणिना परिमार्जति ॥
तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी ।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥
कामरूपवती चैषा परिष्वजति भामिनी ।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता ॥
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम् ।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते ॥
अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते ।
अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः ॥
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः ॥
अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः ।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥
मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ । काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ ।
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ॥
एवं विलपतीमार्तां किं मां न प्रतिभाषसे ।
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे ॥
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे ।
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे ॥
आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान् ।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥
तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना ।
उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति ॥
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ।
कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः ॥
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ।
द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता ॥
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ।
बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम् ॥
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम् ।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव ।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥
न राज्यलाभो विपुलः शत्रूणां च पराभवः ।
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण ॥
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च ।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥
दुर्मरं पुनरप्राप्ते काले भवति केनचित् ।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा ।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि ।
परमेण च रूपेण गिरा च स्मितपूर्वया ॥
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् ।
सौभद्र विहन्काले स्मरेथाः सुकृतानि मे ॥
एतावानिह संवासो विहितस्ते मया सह ।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम् ।
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ॥
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् ।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् ।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥
वितुद्यमानं विहगैर्विराटमसितेक्षणाः ।
न शक्नुवन्ति विहगान्निवारयितुमातुराः ॥
आसामातपतप्तानामायासेन च योषिताम् ।
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः ॥
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम् । कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम् ।
आयोधनशिरोमध्ये शयानं पश्य माधव ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि

11-20-1 अध्यर्धगुणं सार्धुगुणम् ॥ 1 ॥ 11-20-24 दुष्करं पुनरप्राप्तं काले भवति केनचित् इति क.पाठः । दुष्करं प्रति न प्राप्तमित्यादि छ.ट. पाठः ॥ 11-20-33 वपुः शस्ताकृतिः । वपुः क्लीबं तनौ शस्ताकृतावपीति मेदिनी ॥ 11-20-20 विंशतितमोऽध्यायः ॥

श्रीः