अध्यायः 047

कृष्णंयुधिष्ठिरादीनां कुरुक्षेत्रंप्रति गमनम् ॥ 1 ॥ युधिष्ठिरेण कृष्णंप्रति परशुरामचरित्रकथनप्रार्थना ॥ 2 ॥

वैशंपायन उवाच ।
ततः स च हृषीकेशः स च राजा युधिष्ठिरः ।
कृपादयश्च ते सर्वे चत्वारः पाण्डवाश्च ते ॥
रथैस्तैर्नगरप्रख्यैः पताकाध्वजशोभितैः ।
ययुराशु कुरुक्षेत्रं वाजिभिः शीघ्रगामिभिः ॥
तेऽवतीर्य कुरुक्षेत्रे केशमढज्जास्थिसंकुले ।
देहन्यासः कृंतो यत्र क्षत्रियैस्तैर्महारथैः ॥
गजाश्वदेहास्थिचयैः पर्वतैरिव संचितम् ।
नरशीर्षकपालैश्च हंसैरिव च सर्वशः ॥
चितासहस्रैर्निचितं वर्मशस्त्रसमाकुलम् ।
आपानभूमिं कालस्य तदा भुक्तोज्झितामिव ॥
भूतसङ्घानुचरितं रक्षोगणनिषेवितम् ।
पश्यन्तस्ते कुरुक्षेत्रं ययुराशु महारथाः ॥
गच्छन्नेव महाबाहुः सर्वं यादवनन्दनः ।
युधिष्ठिराय प्रोवाच जामदग्न्यस्य विक्रमम् ॥
अमी रामह्रदाः पञ्च दृश्यन्ते पार्थ दूरतः ।
येषु संतर्पयामास पितॄन्क्षत्रियशोणितैः ॥
त्रिःसप्तकृत्वो वसुधां कृत्वा निःक्षत्रियां प्रभुः ।
इहेदानीं ततो रामः कर्मणो विरराम ह ॥
युधिष्ठिर उवाच ।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ।
रामेणेति यदात्थ त्वमत्र मे संशयो महान् ॥
क्षत्रबीजं यथा दग्धं रामेण यदुपुङ्गव ।
कथं भूयः समुत्यत्तिः क्षत्रस्यामितविक्रम ॥
महात्मना भगवता रामेण यदुपुङ्गव ।
कथमुत्सादित्तं क्षत्रं कथमृद्धिगतं पुनः ॥
महता रथयुद्धेन कोटिशः क्षत्रिया हताः ।
तथाऽभूच्च मही कीर्णा क्षत्रियैर्वदतां वर ॥
किमर्थं भार्गवेणेदं क्षत्रमुत्सादितं पुरा ।
रामेण यदुशार्दूल कुरुक्षेत्रे महात्मना ॥
एतन्मे छिन्धि वार्ष्णेय संशयं तार्क्ष्यकेतन ।
आगमो हि परः कृष्ण त्वत्तो नो वासवानुज ॥
वैशंपायन उवाच ।
ततो व्रजन्नेव गदाग्रजः प्रभुः शशंस तस्मै निखिलेन तत्त्वतः ।
युधिष्ठिरायाप्रतिमौजसे तदा यथाऽभवत्क्षत्रियसंकुला मही ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

12-47-15 आगमो वेदः । त्वत्तः त्वद्वचनात्रो परः नाधिकः ॥