अध्यायः 052

प्ररेद्युः प्रभाते कृष्णयुधिष्ठिरादिभिर्धर्मश्रवणाय भीष्मसमीपगमनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः प्रविश्य भवनं प्रविश्ये मधुसूदनः ।
याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥
स ध्यानपथमाविश्य सर्वज्ञानानि माधवः ।
अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥
सूताः स्तुतिपुराणज्ञा रक्तकण्ठाः सुशिक्षिताः ।
अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः ।
शङ्खानथ मृदङ्गांश्च प्रवाद्यन्ति सहस्रशः ॥
वीणापणववेणूनां स्वनश्चातिमनोरमः ।
सहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनि ॥
ततो युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः ।
उच्चेरुर्मधुरा वाचो गीतवादित्रबृंहिताः ॥
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः ।
जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा ।
गवां सहस्रेणैकैकं वाचयामास माधवः ॥
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च ।
आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम् ।
अपि सञ्जो महातेजा भीष्मं द्रष्टुं युधिष्ठिरः ॥
ततः कृष्णस्य वचनात्सात्यंकिस्त्वरितो ययौ ।
उपगम्य च राजानं युधिष्ठिरमभाषत ॥
युक्तो रथवरो राजन्वासुदेवस्य धीमतः ।
समीपमापगेयस्य प्रयास्यति जनार्दनः ॥
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते ।
यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥
एवमुक्तः प्रत्युवाच धर्मपुत्रो युधिष्ठिरः ।
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते ॥
न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ।
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः ॥
अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय । अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति ।
अतो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥
वैशंपायन उवाच ।
स तद्वाक्यमथाज्ञाय कुन्तीपुत्रो धनञ्जयः ।
युक्तं रथवरं तस्मा आचचक्षे नरर्षभः ॥
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि ।
भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु ।
शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम् ।
मेघघोषै रथवरैः प्रययुस्ते नरर्षभाः ॥
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेवच ।
दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ॥
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः ।
क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः ।
आस्ते महर्षिभिः सार्ध्रं ब्रह्मा देवगणैर्यथा ॥
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः । भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ।
ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।
अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥
शरतल्पे शयानं तमादित्यं पतितं यथा ।
स ददर्श महाबाहुं भयाच्चागतसाध्वसः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥

12-52-9 मङ्गलानां गवादीनामालम्भनं स्पर्शम् ॥ 12-52-27 आगतसाध्वसः भयजन्यकम्पादिमान् ॥