अध्यायः 058

भीष्मेण युधिष्ठिरंप्रति राजोत्पत्तेर्ब्रह्मकृतदण्डनीतिग्रन्थप्रतिपाद्यार्थानां पृथुराजचरितादीनां च कथनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः कल्यं समुत्थाय कृतपूर्वाह्णिकक्रियाः ।
ययुस्ते नगराकारैः रथैः पाण्डवयादवाः ॥
प्रतिपद्य कुरुक्षेत्रं भीष्ममासाद्य चानघम् ।
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम् ॥
व्यासादीनभिवाद्यर्षीन्सर्वैस्तैश्चाभिनन्दिताः ।
निषेदुरभितो भीष्मं परिवार्य समन्ततः ॥
ततो राजा महातेजा धर्मपुत्रो युधिष्ठिरः ।
अब्रवीत्प्राञ्जलिर्भीष्मं प्रतिपूज्य यथाविधि ॥
युधिष्ठिर उवाच ।
य एष राजन्राजेति शब्दश्चरति भारत ।
कथमेष समुत्पन्नस्तन्मे ब्रूहि पितामह ॥
तुल्यपाणिभुजग्रीवस्तुल्यबुद्धीन्द्रियात्मकः ।
तुल्यदुःखसुखात्मा च तुल्यपृष्ठमुखोदरः ॥
तुल्यशुक्रास्थिमज्जा च तुल्यमांसासृगेव च ।
नेःश्वासोच्छ्वासतुल्यश्च तुल्यप्राणशरीरवान् ॥
समानजन्ममरणः समः सर्वैर्गुणैर्नृणाम् ।
विशिष्टबुद्धीञ्शूरांश्च कथमेकोऽधितिष्ठति ॥
कथमेको महीं कृत्स्नां शूरवीरार्यसंकुलम् ।
रक्षत्यपि च लोकस्य प्रसादमभिवाञ्छति ॥
एकस्य तु प्रसादेन कृत्स्नो लोकः प्रसीदति ।
व्याकुले चाकुलः सर्वो भवतीति विनिश्चयः ॥
एतदिच्छाम्यहं श्रोतुं त्वत्तो हि भरतर्षभ ।
कृत्स्नं तन्मे यथातत्त्वं प्रब्रूहि वदतां वर ॥
नैतत्कारणमत्यल्पं भविष्यति विशांपते ।
यदेकस्मिञ्जगत्सर्वं देववद्याति सन्नतिम् ॥
भीष्म उवाच ।
नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः ।
यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥
नैव राज्यं न राजाऽऽसीन्न च दण्डो न दाण्डिकः ।
धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम् ॥
पाल्यमानास्तथाऽन्योन्यं नरा धर्मेण भारत ।
दैन्यं परमुपाजग्मुस्ततस्तान्मोह आविशत् ॥
ते मोहवशमापन्ना मनुजा मनुजर्षभ ।
प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ॥
नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा ।
लोभस्य वशमापन्नाः सर्वे भरतसत्तम ॥
अप्राप्तस्याभिमर्शं तु कुर्वन्तो मनुजास्ततः ।
कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो ॥
तांस्तु कामवशं प्राप्तान्रागो नामाभिसंस्पृशत् ।
रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर ॥
अगम्यागमनं चैव वाच्यावाच्यं तथैव च ।
भक्ष्याभक्ष्यं चराजेन्द्र दोषादोषं च नात्यजन् ॥
विप्लुते नरलोकेऽस्मिंस्ततो ब्रह्म ननाश ह ।
नाशाच्च ब्रह्मणो राजन्धर्मो नाशमथागमत् ॥
नष्टे ब्रह्मणि धर्मे च देवास्त्रासमथागमन् ।
ते त्रस्ता नरशार्दूल ब्रह्माणं शरणं ययुः ॥
प्रपद्य भगवन्तं ते देवं लोकपितामहम् ।
ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः ॥
भगवन्नरलोकस्थं ग्रस्तं ब्रह्म सनातनम् ।
लोभमोहादिभिर्भावैस्ततो नो भयमाविशत् ॥
ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्चर ।
ततस्तु समतां याता मर्त्यैस्त्रिभुवनेश्वराः ॥
अधोर्भिवर्षास्तु वयं भौमास्तूर्ध्वप्रवर्षिणः ।
क्रियाव्युपरमात्तेषां ततोऽगच्छाम संशयम् ॥
अत्र निःश्रेयसं यन्नस्तद्ध्यायस्व पितामह ।
त्वत्प्रसादात्समुत्थोसौ प्रभावो नो भवत्वयम् ॥
तानुवाच सुरान्सर्वान्स्वयंभूर्भगवांस्ततः ।
श्रेयोऽहं चिन्तयिष्यामिव्येतु वो भीः सुरोत्तमाः ॥
ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् ।
यत्र धर्मस्तथैवार्थः कामश्चैवानुवर्णितः ॥
त्रिवर्ग इति विख्यातो गण एव स्वयंभुवा ।
चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥
मोक्षस्यास्ति त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः ।
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥
आत्मादेशश्च कालश्चाप्युपायाः कृत्यमेव च ।
सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ॥
त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ ।
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥
अमात्यलिप्सा प्रणिधी राजपुत्रस्य लक्षणम् ।
चारश्च विविधोपायः प्रणिधिश्च पृथग्विधः ॥
सामभेदः प्रदानं च ततो दण्डश्च पार्थिव ।
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥
मन्त्रश्च वर्णितः कृत्स्नो मन्त्रभेदार्थ एव च ।
विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत्फलम् ॥
संधिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः ।
भयसत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम् ॥
यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः ।
विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥
आसुरश्चैव विजयः कार्त्स्न्येन परिवर्णितः ।
लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥
प्रकाशश्चाप्रकाशश्च दण़्डोऽथ परिशब्दितः ।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥
रथा नागा हयाश्चैव पादाताश्चैव पाण्डव । विष्टिर्नावश्चराश्चैव देशिका इति चाष्टमः ।
अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु ॥
जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ।
स्पर्शे चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः ॥
`क्रीडापूर्वे रणे द्यूते विस्रम्भणसमन्वितम् ।
उक्तं कैतव्यमित्येतदुपायो नवमो बुधैः ॥
उपेक्षा सर्वकार्येषु कर्मणां करणेषु च ।
अनिष्टानां समुत्थाने त्रिवर्गो नश्यते यया ॥
इन्द्रजालादिका माया वाजीवनकुशीलवैः ।
सुनिमित्तैदुर्निमित्तैरुत्पातैश्च समन्वितम् ॥
डम्भो लिङ्गं समाश्रित्य शत्रुवर्गे प्रयुज्यते । शाठ्यं निश्चेष्टता प्रोक्ता चित्तदोषप्रदूषिका ॥'
अरिर्मित्र उदासीन इत्येतेऽप्यनुवर्णिताः । कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह ।
आत्मरक्षणमाश्वासः स्पर्शानां चान्ववेक्षणम् ॥
कल्पना विविधाश्चापि नृनागरथवाजिनाम् ।
व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम् ॥
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम् ।
शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ ॥
बलव्यसनयुक्तं च तथैव बलहर्षणम् ।
पीडा चापदकालश्च भयकालश्च पाण्डव ॥
तथाख्यातविधानं च योगः संचार एव च ।
चोरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥
अग्निदैर्गरदैश्चेव प्रतिरूपककारकैः ।
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥
दूषणेन च नागानामातङ्कजननेन च ।
आराधनेन भक्तस्य पत्युश्चोपग्रहेण च ॥
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमीक्षणम् ।
दूतसामर्थ्ययोगश्च राष्ट्रस्य च विवर्धनम् ॥
अरिमध्यस्थमित्राणां सम्यक्चोक्तं प्रपञ्चनम् ।
अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ॥
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ।
श्रमो व्यायामयोगश्च योगद्रव्यस्य सञ्चयः ॥
अभृतानां च भरणं भृतानां चान्ववेक्षणम् ।
अन्तकाले प्रदानं च व्यसने चाप्रसङ्गिता ॥
तथा राजगुणाश्चैव सेनापतिगुणाश्च ह ।
करणस्य च कर्तुश्च गुणदोषास्तथैव च ॥
दुष्टेङ्गितं च विविधं वृत्तिश्चैवानुवर्तिनाम् ।
शङ्कितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥
अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम् ।
प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्तथा ॥
विसर्गोऽर्थस्य धर्मार्थमर्थार्थं कामहेतुकम् ।
चतुर्थं व्यसनाघाते तथैवात्रानुवर्णितम् ॥
क्रोधजानि ततोग्राणि कामजानि तथैव च ।
दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥
मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ।
कामजान्याहुराचार्याः प्रोक्तानीह स्वयंभुवा ॥
वाक्पारुष्यं तथोग्रत्व दण्डपारुष्यमेव च ।
आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च ॥
यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः ।
अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ॥
चैत्यद्रुमावमर्दश्च रोधः कर्मान्तनाशनम् ।
अपस्करोऽथ वमनं तथोपास्या च वर्णिता ॥
पणवानकशङ्खानां भेरीणां च युधिष्ठिर ।
उपार्जनं च द्रव्याणां परमर्म च तानि षट् ॥
लब्धस्य च प्रशमनं सतां चैवाभिपूजनम् ।
विद्वद्भिरेकीभावश्च जपहोमविधिज्ञता ॥
मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया ।
आहारयोजनं चैव नित्यमास्तिक्यमेव च ॥
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः ।
उत्तमानां समाजानां क्रियाः केतनजास्तथा ॥
प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ ।
वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥
अदण्ड्यत्वं च विप्राणां युक्त्या दण़्डनिपातनम् ।
अनुजीवि स्वजातिभ्यो गुणेभ्यश्च समुद्भवः ॥
रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम् ।
मण्डलस्था च या चिन्ता राजन्द्वादशराजिका ॥
द्विसप्ततिमतिश्चैव प्रोक्ता या च स्वयंभुवा ।
देशजातिकुलानां च धर्माः समनुवर्णिताः ॥
धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः ।
उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिणः ॥
मूलकर्मक्रिया चात्र मायायोगश्च वर्णितः ।
दूषणं स्रोतसां चैव वर्णितं च स्थिराम्भसाम् ॥
यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः ।
तत्सर्वं राजशार्दूल नीतिशास्त्रेऽभिवर्णितम् ॥
एतत्कृत्वा सुभं शास्त्रं ततः स भगवान्प्रभुः ।
देवानुवाच संहृष्टः सर्वाञ्छक्रपुरोगमान् ॥
उपकाराय लोकस्य त्रिवर्गस्थापनाय च ।
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाषिता ॥
दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।
निग्रहानुग्रहरता लोकाननुचरिष्यति ॥
दण्डेन नीयते चेदं दण्डं नयति वा पुनः ।
दण्डनीतिरितिख्याता त्रीँल्लोकानवपत्स्यते ॥
पाङ्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु ।
धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ॥
भीष्म उवाच ।
ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः ।
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥
अनादिनिधनो देवश्चैतन्यादिसमन्वितः ।
ज्ञानानि च वशे यस्य तारकादीन्यशेषतः ॥
अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम् ।
तुष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः ॥
अरुदत्सस्वनं घोरं जगतः प्रभुरव्ययः ।
जायमानः पिता पुत्रे पुत्रः पितरि चैव हि ॥
बुद्धिं विश्वसृजे दत्त्वा ब्रह्माण्डं येन निर्मितम् ।
यस्मिन्हिरण्मयो हंसः शकुनिः समपद्यत ॥
कर्ता सर्वस्य लोकस्य ब्रह्मा लोकपितामहः । स देवः सर्वभूतानां महादेवः सनातनः ।
असंख्यातसहस्राणां रुद्राणां स्थानमव्ययम् ॥
युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः ।
संचिक्षेप ततः शास्त्रं महास्त्रं ब्रह्मणा कृतम् ॥
वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत ।
दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ॥
मघवानपि तच्छास्त्रं देवात्प्राप्य महेश्वरात् ।
प्रजानां हितमन्विच्छन्संचिक्षेप पुरंदरः ॥
सहस्त्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् । अध्यायानां सहस्त्रैस्तु त्रिभिरेव बृहस्पतिः ।
संचिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं यदुच्यते ॥
अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् ।
तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः ॥
एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः ।
संक्षिप्तमायुर्विज्ञाय लोकानां ह्रासि पाण्डव ॥
अथ देवाः समागम्य विष्णुमूचुः प्रजापतिम् ।
एको योऽर्हति मर्त्येभ्यः श्रैष्ठ्य वै तं समादिश ॥
ततः संचिन्त्य भगवान्देवो नारायणः प्रभुः ।
तैजसं वै विरजसं सोऽसृजन्मानसं सुतम् ॥
विरजास्तु महाभागः प्रभुत्वं भुवि नैच्छत ।
न्यासायैवाभवद्वुद्धिः प्रणीता तस्य पाण्डव ॥
कीर्तिमांस्तस्य पुत्रोऽभूत्सोऽपि मर्त्याधिकोऽभवत् ।
कर्दमस्तस्य तु सुतः सोऽप्यतप्यन्महत्तपः ॥
प्रजापतेः कर्दमस्य त्वनङ्गो नाम वीर्यवान् ।
प्रजा रक्षयिता साधुर्दण्डनीतिविशारदः ॥
अनङ्गपुत्रोऽतिबलो नीतिमानभिगम्य वै ।
प्रतिपेदे महाराज्यमथेन्द्रियवशोऽभवत् ॥
`प्राप्य नारीं महाभागां रूपिणीं काममोहितः ।
सौभाग्येन च संपन्नां गुणैश्चानुत्तमां सतीम्' ॥
मृत्योस्तु दुहिता राजन्सुनीथा नाम नामतः ।
प्रख्याता त्रिषु लोकेषु या सा वेनमजीजनत् ॥
तं प्रजासु विधर्माणं रागद्वेषवशानुगम् ।
मन्त्रपूतैः कुशैर्जघ्नुर्ऋषयो ब्रह्मवादिनः ॥
ममन्थुर्दक्षिणं चोरुमृषयस्तस्य भारत ।
ततोऽस्य विकृतो जज्ञे ह्रस्वकः पुरुषोऽशुचिः ॥
दग्धस्थूणाप्रतीकाशो रक्ताक्षः कृष्णमूर्धजः ।
निषीदेत्येवमूचुस्तमृषयो ब्रह्मवादिनः ॥
तस्मान्निषादाः संभूताः क्रूराः शैलवनाश्रयाः ।
ये चान्ये विन्ध्यनिलया म्लेच्छाः शतसहस्रशः ॥
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ।
ततः पुरुष उत्पन्नो रुपेणेन्द्र इवापरः ॥
कवची बद्धनिस्त्रिंशः सशरः सशरासनः ।
वेदवेदाङ्गविच्चैव धनुर्वेदे च पारगः ॥
तं दण्डनीतिः सकला श्रिता राजन्नरोत्तमम् ।
ततस्तु प्राञ्जलिर्वैन्यो महर्षीस्तानुवाच ह ॥
सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धरर्मार्थदर्शिनी ।
अनया किं मया कार्यं तन्मे तत्त्वेन शंसत ॥
यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् ।
तदहं वः करिष्यामि नात्र कार्या विचारणा ॥
तमूचुस्तत्र देवास्ते ते चैव परमर्षयः ।
नियतो यत्र धर्मो वै तमशङ्कः समाचर ॥
प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु ।
कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः ॥
यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः ।
निग्राह्यस्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता ॥
प्रतिज्ञां चाधिरोहस्व मनसा कर्मणा गिरा ।
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥
यश्चात्र धर्म इत्युक्तो दण्डनीतिव्यपाश्रयः ।
तमशङ्कः करिष्यामि स्ववशो न कदाचन ॥
अदण्ड्या मे द्विजाश्चेति प्रतिजानीष्व चाभिभो ।
लोकं च संकरात्कृत्स्नं त्राताऽस्मीति परंतप ॥
वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् ।
ब्राह्मणा मे सहायाश्चेदेवमस्तु सुरर्षभाः ॥
एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः ।
पुरोधाश्चाभवत्तस्य शुक्रो ब्रह्ममयो निधिः ॥
मन्त्रिणो वालखिल्याश्च सारस्वत्यो गणस्तथा ।
महर्षिर्भगवान्गर्गस्तस्य सांवत्सरोऽभवत् ॥
आत्मनाऽष्टम इत्येव श्रुतिरेषां परा नृषु ।
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ ॥
तयो प्रीतो ददौ राजा पृथुर्वैन्यः प्रतापवान् ।
अनूपदेशं सूताय मगधं मागधाय च ॥
समतां वसुधायाश्च स सम्यगुदपादयत् ।
वैषम्यं हि परं भूमेरिति नः परमा श्रुतिः ॥
मन्वन्तरेषु सर्वेषु विषमा जायते मही ।
उज्जहार ततो वैन्यः शिलाजालान्समन्ततः ॥
धनुष्कोट्या महाराज तेन शैला विमर्दिताः । स विष्णुना च देवेन शक्रेण विबुधैः सह ।
ऋषिभिश्च प्रजापाल्ये ब्रह्मणा चाभिषेचितः ॥
तं साक्षात्पृथिवी भेजे रत्नान्यादाय पाण़्डव ।
सागरः सरितां भर्ता हिमवांश्चाचलोत्तमः ॥
शक्रश्च धनमक्षय्यं प्रादात्तस्मै युधिष्ठिर ।
रुक्मं चापि महामेरुः स्वयं कनकपर्वतः ॥
यक्षराक्षसभर्ता च भगवान्नरवाहनः ।
धर्मे चार्थे च कामे च समर्थं प्रददौ धनम् ॥
हया रथाश्च नागाश्च कोटिशः पुरुषास्तथा ।
प्रादुर्बभूवुर्वैन्यस्य चिन्तयानस्य पाण्डव ॥
न जरा न च दुर्भिक्षं नाधयो व्याधयः कुतः । सरीसृपेभ्यः स्तेनेभ्यो न चान्येभ्यः कदाचन ।
भयमासीत्ततस्तस्य पृथिवी सस्यमालिनी ॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥
तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च ।
यक्षराक्षसनागानामीप्सितं यस्य यस्य यत् ॥
तेन धर्मोत्तरश्चायं कृतो लोको महात्मना ।
रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते ॥
ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते ।
प्रथिता धर्मतश्चेयं पृथिवी साधुभिः स्मृता ॥
स्थापनं चाकरोद्विष्णुः स्वयमेव सनातनः ।
नातिवर्तिष्यते कश्चिद्राजंस्त्वामिति भारत ॥
ततः स भगवान्विष्णुराविवेश च पार्थिवम् ।
देववन्नरदेवानां नमतीदं जगत्ततः ॥
दण्डनीत्या च सततं रक्षितारं नरेश्वरम् ।
नाधर्षयेत्तथा कश्चिच्चारनिष्पन्ददर्शनात् ॥
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।
आत्मना करणैश्चैव समस्येह महीक्षितः ॥
को हेतुर्यद्वशे तिष्ठेल्लोको दैवादृते गुणात् ॥
विष्णोर्ललाटात्कमलं सौवर्णमभवत्तदा ।
श्रीः संभूता ततस्तस्मिन्देवी धर्मस्य पाण्डव ॥
श्रियः सकाशादर्थश्च जातो धर्मस्य पाण्डव ।
अथ धर्मस्तथैवार्थः श्रीश्च राज्ये प्रतिष्ठिता ॥
सुकृतस्य क्षयाच्चैव स्वर्लोकादेत्य मेदिनीम् ।
पार्थिवो जायते तात दण्डनीतिविशारदः ॥
माहात्म्येन च संयुक्तो वैष्णवेन नरो भुवि ।
बुद्ध्या भवति संयुक्तो माहात्म्यं चाधिगच्छति ॥
स्थापितं च ततो देवैर्न कश्चिदतिवर्तते ।
तिष्ठत्येकस्य च वशे तं चैवानुविधीयते ॥
शुभं हि कर्म राजेन्द्र शुभत्वायोपकल्पते ।
तुल्यस्यैकस्य येनायं लोको वचसि तिष्ठति ॥
योऽस्य वै मुखमद्राक्षीत्सोऽस्य सर्वो वशानुगः ।
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति ॥
महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा ।
नयश्चारश्च विपुलो येन सर्वमिदं ततम् ॥
आगमश्च पुराणानां महर्षीणां च संभवः ।
तीर्थवंशश्च वंशश्च क्षत्रियाणां युधिष्ठिर ॥
सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च ।
चातुर्वर्ण्यं तथैवात्र चातुर्विद्यं च कीर्तिम् ॥
इतिहासोपवेदाश्च न्यायः कृत्स्नश्च वर्णितः ।
तपो ज्ञानमर्हिसा च सत्यं दानममत्सरः ॥
वृद्धोपसेवा दानं च शौचमुत्थानमेव च ।
सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् ॥
भुवि वाचोगतं यच्च तच्च सर्वं समर्पितम् ।
तस्मिन्पैतामहे शास्त्रे पाण्डवेय न संशयः ॥
ततो जगति राजेन्द्र सततं शब्दितं बुधैः ।
देवाश्च नरदेवाश्च तुल्या इति विशांपते ॥
एतत्ते सर्वमाख्यातं महत्त्वं प्रति राजसु ।
कार्त्स्न्येन भरतश्रेष्ठ किमन्यदिह वर्तते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥

12-58-1 कल्यं प्रातः ॥ 12-58-5 आनुषत्वे समानेऽपि किंनिमित्तेयं एकस्मिन्निग्राहनुग्रहशक्तिरिति पृच्छति य इत्यादिना ॥ 12-58-14 दण्डः दमनम् । दाण्डिको दण्डप्रणेता ॥ 12-58-15 मोहो वैचित्यम् ॥ 12-58-16 प्रतिपत्तिविमोहात् ज्ञानलोपात् ॥ 12-58-20 नात्यजन्दुष्टमदुष्टं च सर्वं स्वीचक्रुरित्यर्थः ॥ 12-58-21 ब्रह्म वेदः । धर्मो यज्ञः ॥ 12-58-25 मर्त्यैः समतां याताः स्म । स्वाहाद्यभावेन क्षीणाः स्म इत्यर्थः ॥ 12-58-26 हविर्धाराभिरूर्ध्वप्रवर्षिणः । ततश्चान्नाभावान्नश्याम इत्यर्थः ॥ 12-58-30 पृथगर्थः त्रिवर्गफलापेक्षया विपरीतफलः । पृथग्गुणः त्रिवर्गसाधनापेक्षया विपरीतसाधनः ॥ 12-58-31 मोक्षस्य त्रिवर्गो धर्मादिरन्यो निष्कामः । धर्मादेर्भेदश्च सत्वादिगुणप्राधान्यनिमित्त इत्यर्थः । दण्डात्स्थानं साम्यं वणिजां वृद्धिस्तपस्विनां क्षयश्चोराणां च भवतीत्याहार्धेन स्थानमिति ॥ 12-58-32 नीतिजान्षङ्गुणानाह आत्मेति । आत्माचित्तम् । नीतिबलात्प्रजानां चित्तं दुःस्थितमपि सुस्थितं भवति । कुदेशोऽपि सुदेशो भवति । कलिरपि कृतं भवति । उपायाः साधनानि । कृत्यं कृतिनिर्वर्त्यं प्रयोजनम् । सहायाः सुहृदादयः ॥ 12-58-33 त्रयी कर्मकाण्डः । आन्वीक्षिकी ज्ञानकाण्डः । वार्ता कृषिवाणिज्यादिजीविकाकाण्डः । दण्डनीतिः पालनविद्या । एते धर्मादयस्तत्र ब्रह्मकृतशतसहस्राध्याये दर्शिताः ॥ 12-58-34 प्रणिधिर्गुप्तश्चारः । सच चारो विविधोपायः । ब्रह्मचार्यादिवेषधारी । एकैकस्मिन्स्थाने पृथक्पृथग्वेषः ॥ 12-58-35 सामादिचतुष्टयमुपेक्षा च पञ्चमीत्युपायाः ॥ 12-58-36 विभ्रमो भेदार्थे ॥ 12-58-37 भयेन संधिर्हीनः । सत्कारेण मध्यमः । वित्तग्रहणेनोत्तमः । तन्त्रयं संधिकारणं वर्णितम् ॥ 12-58-38 चत्वारो मित्रवृद्धिः कोशसंचयश्च स्वस्य मित्रनाशः कोशहानिश्च परस्येति ॥ 12-58-39 आसुरो विजयः सौप्तिके गतः । पञ्चवर्गोऽमात्यराष्ट्रदुर्गाणि बलं कोशश्च पञ्चमः । त्रिविधमुत्तममध्यमाधमभेदेन ॥ 12-58-40 दण्डः सेना ॥ 12-58-41 विष्टिर्विष्टिगृहीता भारवाहाः । चराश्चाराः । देशिका उपदेष्टारो गुरवः ॥ 12-58-42 जंगमा महावृश्चिकादिजाः । अजंगमाः रक्तशृङ्गिकादयः । स्पर्शे वस्रादौ । अभ्यवहार्येऽन्नादौ । उपांशरभिचारादिरिति विविधो विषयोगरूपो दण्डः ॥ 12-58-47 मार्गेगुणाः ग्रहनक्षत्रादिमार्गगुणाः । भूमिगुणाश्चतुरशीतिभूवलानि यामलोक्तानि । आत्मरक्षणं मन्त्रयन्त्रादिना । सर्गाणां चान्ववेक्षणम् इति झ. पाठः ॥ 12-58-48 कल्पनाः बलपुष्टिकरा योगाः । विविधाभिख्याश्चक्रव्यूहक्रौञ्चव्यूहादिनानानामानः ॥ 12-58-49 उत्पाता- ग्रहयुद्धादयो धूमकेत्वादयश्च । निपाताः उल्कापातभूमिकम्पादयः । शास्त्राणां पालनं तीक्ष्णीकरणम् । शास्त्राणां पालनं इति ट. ड. पाठः ॥ 12-58-50 आपदां समूह आपदं तस्य काल आपदकालः ॥ 12-58-51 आख्यातमभिमन्त्रितदुन्दुभिष्वनिना प्रयाणादिकथनम् । योगः पताकादिमन्त्रणादि । तयोः संचारः श्रवणदर्शनाभ्यां परमोहनम् । एतत्सर्वं तत्र उक्तमिति सर्वत्र योज्यम् ॥ 12-58-52 गरदैः विषदैः प्रतिरूपकं प्रतिमा तत्कारकैस्तद्द्वारा कार्मणकारिभिः कौलिकैः । श्रेणिमुख्याः बलाध्यक्षादयस्तेषामुपजापो भेदनं तेन । वीरुधश्छेदनेन धान्याद्युच्छेदेन ॥ 12-58-53 नागानां दूषणं मन्त्रतन्त्रौषधादिना तेन परराष्ट्रस्य पीडनमुक्तमिति प्रपूर्वेण संबन्धः ॥ 12-58-56 कण्टकशोधनं खलानामुन्मूलनम् । श्रमो मल्लक्रीडा । व्यायामयोगः आयुधप्रयोगाभ्यासः ॥ 12-58-57 अर्थस्य काले दाने च इति झ. पाठः । अप्रसङ्गिता असंबन्धः ॥ 12-58-58 राजगुणाः उत्थानादयः ॥ 12-58-60 पात्रेभ्यः प्रदानं प्रथमम् ॥ 12-58-61 विसर्गो दानं धर्मार्थं यज्ञार्थं द्वितीयम् । काम्यं तृतीयम् । व्यसनाधाते चतुर्थम् ॥ 12-58-65 अवमर्दः परचक्रेण देशादेः पीडनम् ॥ 12-58-67 तानि द्रव्याणि षट् मणयः पशवः पृथ्वी वासो दास्यादि काञ्चनमिति ॥ 12-58-69 मङ्गलं स्वर्णादिकं तस्यालम्भनं स्पर्शः । प्रतिक्रिया अलंकरणम् ॥ 12-58-70 एकस्याप्युत्थानप्रकारः । केतनजाः गृहजाः । क्रियाः ध्वजारोहणाद्याः ॥ 12-58-71 अधिकरणेषु जनोपवेशनस्थानेषु चत्वरादिषु ॥ 12-58-72 जातितो गुणतश्च समुद्भवो मान्यत्वम् ॥ 12-58-73 द्वादशानां राज्ञां समूहो द्वादशराजिका । मध्यस्थस्य विजिगीषोश्रतुर्दिक्षु चत्वारोऽरयस्तेभ्योऽपरे चत्वारो मित्राणि तेभ्यः परे चत्वार उदासीना इति ॥ 12-58-75 हे भूरिदक्षिण ॥ 12-58-76 मूलकर्माणि कोशवृद्धिकराणि कृष्यादीनि तेषां क्रिया करणप्रकारः ॥ 12-58-81 नीयते पुरुषार्थफलाय इदं जगत् दण्डं नयति प्रणयति अनया या चेति वा ॥ 12-58-89 प्रजानामायुषः इति झ. पाठः । संचिक्षेप संक्षिप्तं कृतवान् ॥ 12-58-90 वैशालाक्षं बाहुदन्तकं बार्हस्पत्यमित्युत्तरोत्तरसंक्षिप्तदण्डनीतिग्रन्थनामानि ॥ 12-58-98 पञ्चादिगोऽभवदिति झ. पाठः । तत्र पञ्चातिगः विषयातिगः मुक्त इत्यर्थः ॥ 12-58-99 अनङ्गइत्यङ्गस्यैव नामान्तरम् ॥ 12-58-120 सांवत्सरो ज्यौतिषिकः ॥ 12-58-121 आत्मना स्वशरीरेण सहाष्टमः पृथुर्विष्णोः सकाशादित्यर्थः । तथाहि- विष्णुः प्रथमः । विरजा द्वितीयः । कीर्तिमांस्तृतीयः । कदमश्चतुर्थः । अनङ्गः पञ्चमः । अतिबलः षष्ठः । वेनः सप्तमः । पृथुरष्टम इति ॥ 12-58-134 प्रथितावनता चेति विग्रहे वर्णलोपविकाराभ्यां पृथिवी ॥ 12-58-135 स्थापनं मर्यादाम् ॥ 12-58-136 तपसा भगवान्विष्णुराविवेश च भूमिपम् । इति झ. पाठः ॥ 12-58-138 चाराणां निष्पन्दः संचारस्तद्द्वारा यद्दर्शनं लोकवृत्तान्तस्य महीक्षितः कर्मेति संबन्धः ॥ 12-58-139 विष्णुर्भूमिपमाविवेशेत्युक्तं तत्रोपपत्तिः क इत्यर्धेन ॥ 12-58-144 स्थापनामथ चेद्देवीं न कश्चिदतिवर्तत इति ट. ड. थ. पाठः ॥ 12-58-145 तुल्यस्य स्ताद्यवयवैः समस्य ॥ 12-58-147 दण्डसामर्थ्यादेव लोके नीत्यादिकं दृश्यत इत्यर्थः ॥ 12-58-148 आगमादिकं चात्र ग्रन्थे कीर्तितम् ॥