अध्यायः 059

भीष्मेण युधिष्ठिरंप्रति चातुर्वर्ण्यधर्मकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः पुनः स गाङ्गेयमभिवाद्य पितामहम् ।
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः ॥
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् ।
चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के मताः ॥
केन वै वर्धते राष्ट्रं राजा केन विवर्धते ।
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ॥
कोशं दण्डं च दुर्गं च सहायान्मन्त्रिणस्तथा ।
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः ॥
केषु विश्वसितव्यं स्याद्राज्ञा कस्यांचिदापदि ।
कुतो वाऽऽत्मा दृढं रक्ष्यस्तन्मे ब्रूहि पितामह ॥
`द्वैधीभावे च भृत्यानां शपथः कीदृशो भवेत् ।
अधर्मस्य फलं यच्च शपथस्य विलङ्घने ॥
सर्वमेतद्यथातत्वं व्यवहारं च तादृशम् । समासव्यासयोगेन कथयस्व पितामह ॥'
भीष्म उवाच ।
नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥
अक्रोधः सत्यवचनं संविभागश्च सर्वशः ।
प्रजनं स्वेषु दारेषु शौचमद्रोह एव च ॥
आर्जवं भृत्यभरणं त एते सार्ववर्णिकाः ।
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ॥
दममेव महाराज धर्ममाहुः पुरातनम् ।
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते ॥
तं चेद्द्विजमुपागच्छेद्वर्तमानं स्वकर्मणि ।
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ॥
कुर्वीतापत्यसंतानमथो दद्याद्यजेत च ।
संविभज्य च भोक्तव्यं धनं सद्भिरीतीष्यते ॥
परिनिष्ठितकार्यस्तु स्वाध्यायेनैव वै द्विजः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत ।
दद्याद्राजा न याचेत यजेत न च याजयेत् ॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।
नित्योद्युक्तो दस्युवदे रणे कुर्यात्पराक्रमम् ॥
ये तु क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः ।
य एवाहवजेतारस्त एषां लोकजित्तमाः ॥
अविक्षतेन देहेन समराद्यो निवर्तते ।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥
एवं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः ।
नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात् ॥
दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते ।
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ॥
स्वेषु धर्मेष्ववस्थाप्यः प्रजाः सर्वा महीपतिः ।
धर्मेण सर्वकृत्यानि शमनिष्ठानि कारयेत् ॥
परिनिष्ठितकार्यस्तु नृपतिः परिपालनात् ।
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ॥
वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम् ।
दानमध्ययनं यज्ञः शौचेन धनसंचयः ॥
पितृवत्पालयेद्वैश्यो युक्तः सर्वान्पशूनिह ।
विकर्म तद्भवेदन्यत्कर्म यत्स समाचरेत् ॥
रक्षया स हि तेषां वै महत्सुखमवाप्नुयात् ।
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् ॥
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ।
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ॥
पण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत् ।
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे ॥
सस्यानां सर्वबीजानामेषा सांवत्सरी भृतिः ॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत ।
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीयते ।
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात् ॥
शूद्र एतान्परिचरेत्रीन्वर्णाननसूयकः ।
संचयांश्च न कुर्वीत जातु शूद्रः कथंचन ॥
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः ।
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ॥
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते ॥
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च ।
यातयामानि देयानि शूद्राय परिचारिणे ॥
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः ।
शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत् ॥
यंच कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् ।
कल्प्यां तेन तु तस्याहुर्वृत्तिं धर्मविदो जनाः ॥
देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ ।
शूद्रेण तु न हातव्यो भर्ता कस्यांचिदापदि ॥
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये ।
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो हि सः ॥
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्येव भारत ।
स्वाहाकारवषट््कारौ मन्त्रः शूद्रे न विद्यते ॥
तस्माच्छूद्रः पाकयज्ञैयजेताव्रतवान्स्वयम् ।
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ ।
ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ॥
यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत ॥
अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते । दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ।
दैवतं हि परं विप्राः स्वेनस्वेन परस्परम् ॥
अयजन्निह सत्रैस्ते तैस्तैः कामैः समाहिताः ।
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः ॥
देवानामपि ये देवा यद्ब्रूयुस्ते परं हितम् ।
तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया ॥
ऋग्यजुः सामवित्पूज्यो नित्यं स्याद्देववद्द्विजः । अनृग्यजुरसामा च प्राजापत्य उपद्रवः ।
यज्ञो मनीषया तात सर्ववर्णेषु भारत ॥
नास्य यज्ञकृतो देवा ईहन्ते नेतरे जनाः ।
ततः सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते ॥
स्वं दैवतं ब्राह्मणः स्वेन नित्यं परान्वर्णानयजन्नैवमासीत् ।
अधरो वितानस्त्वथ तत्र सृष्टो न ब्राह्मणस्त्रिषु वर्णेषु राजन् ॥
तस्माद्वर्णा ऋजवो ज्ञातिवर्णाः संसृज्यन्ते तस्य विकार एव ।
एकं साम यजुरेकमृगेका विप्रश्वैको निश्चये तेषु सृष्टः ॥
अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः ।
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ॥
उदितेऽनुदिते वाऽपि श्रद्दधानो जितेन्द्रियः ।
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ॥
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् ।
बहूनि यज्ञरूपाणि नानाकर्मफलानि च ॥
तानि यः संप्रजानाति ज्ञाननिश्चयनिश्चितः ।
द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति ॥
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः ।
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ॥
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् ।
सर्वथा सर्वदा वर्णैर्यष्टव्यमिति निर्णयः ॥
न हि यज्ञसमं किंचित्रिषु लोकेषु विद्यते । तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता ।
श्रद्धापवित्रमाश्रित्य यथाशक्ति यथेच्छया ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥

12-59-2 सर्ववर्णानां अनुलोमविलोमजादीनाम् । चातुर्वर्ण्यस्य ये आश्रमाः ब्राह्मणस्य चत्वार आश्रमाः क्षत्रियस्य त्रयो वैश्यस्य द्वौ शूद्रस्यैक इति तेषाम् ॥ 12-59-11 तत्राध्ययने । तावतैव नैष्ठिकः कृतार्थो भवतीत्यर्थः ॥ 12-59-12 स्वयमुपागते वित्ते दारक्रियापूर्वकं अपत्यसंतानमिच्छेत्स इत्याह द्वाभ्यां तं चेदिति ॥ 12-59-27 षण्णां धेनूनां रक्षको वैश्य एकस्याः क्षीरं स्ववेतनं हरेत् । शतस्य रक्षको वर्षे एकं गोवृषभमिथुनं वेतनं हरेत् । लब्धाच्च सप्तमं भागमिति झ. पाठः । तत्र वाणिज्ये तु लब्धात्सप्तमं भागं धनिकाद्धरेत् । गवयादिशृङ्गवाणिज्ये लाभात्सप्तममेव । खुरे पशुविशेषखुरे महामूल्ये कला षोडशो भाग इत्यर्थः ॥ 12-59-28 एवं सस्यानामपि सप्तममेवांशं हरेत् ॥ 12-59-33 कुर्वीत संचयानित्यपकृष्यते ॥ 12-59-35 यातयामानि भुक्तभोगानि जीर्णानीतियावत् ॥ 12-59-37 द्विजातीनां मध्ये यं कंचित्प्रति । तेन द्विजातिना ॥ 12-59-39 अतिरेकेण स्वकुटुम्बपोषणादाधिक्येन । भर्ता पोष्टा ॥ 12-59-41 पाकयज्ञैः क्षुद्रयज्ञैः । अव्रतवान् श्रौतव्रतोपायहीनः ॥ 12-59-42 सहस्राणां शतं लक्षं पूर्णपात्राणि । शूद्रः पैलवनो नामेति ड. द. पाठः ॥ 12-59-43 सर्ववर्णानां त्रैवर्णिकानां यो यज्ञः स तस्यैव शूद्रस्यैव भवति तस्य तत्सेवकत्वात् ॥ 12-59-45 सृष्टयः संतानानि तेन सर्वेषां वर्णानां ब्राह्मणजत्वादस्त्येव शूद्रस्यापि यज्ञेऽधिकार इत्यर्थः ॥ 12-59-46 यद्ब्रूयुस्ते तत्ते तव परं हितम् । वर्णैः सशूद्रैः । सर्वयज्ञाः श्रौताः स्मार्ताश्च न काम्यया स्वभावात्संसृज्यन्त इति पूर्वस्योपसंहारः ॥ 12-59-47 द्विजस्त्रैवर्णिकः पूज्यः । शूद्रेण उपद्रवतीति तत्समीपगामित्वादुपद्रवो दासः शूद्रः स वेदहीनोऽपि प्राजापत्यः प्रजापतिदेवताकः । यथाग्नेयो ब्राह्मण ऐन्द्रः क्षत्रियस्तद्वत् । तथाच मानसे देवतोद्देशेन द्रव्यत्यागात्मके यज्ञे सर्वे वर्णा अधिक्रियन्त इत्यर्थः ॥ 12-59-48 अस्य मानसयज्ञकर्तुर्देवा इतरे जनाश्च न ईहन्ते इति न अपितु श्रद्धापूतत्वात्सर्वेप्यस्य यज्ञे भागं कामयन्त इत्यर्थः ॥ 12-59-49 ब्राह्मणस्त्रयाणामपि वर्णानां स्वमसाधारणं दैवतमतः कारणात्ते यागं कृतवन्तएव ॥ 12-59-50 सर्वेऽपि वर्णा ऋजवः साधवएव यज्ञसंयोगात् । एवं धर्मसाम्येऽपि ज्ञातिसाम्यं नास्तीत्याशंक्याह । ज्ञातिवर्मा अपि क्षत्रियवैश्यशूद्रास्तस्य ब्राह्मणस्यैव विकारे क्षत्रियादिकन्यासूत्पन्ने मूर्धाभिषिक्तादौ संसृज्यन्तएव । तेन धर्मतो जन्मतश्च सर्वे वर्णा ब्राह्मणसंसृष्टा इति स्थितम् । तत्र हेतुमाह एक इति । तेषु तत्त्वनिश्चये क्रियमाणे एको विप्रो ब्रह्मैव प्रथमो ब्राह्मणः सृष्टो जातः । ब्राह्मणसंततित्वात्सर्वेऽप्येते ब्राह्मणा एवेत्यर्थः । तत्र दृष्टान्तः । एकं सामेति । अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्नी नानारूपा भवतीति श्रुतेरेकमकाररूपमेवाक्षरं यथा सामादिरूपं तथा ब्रह्मैव ब्राह्मणादिरूपमित्यर्थः । तस्माद्वर्णाद्वहवो राजधर्माः संसृज्यन्ते तस्य विपाक एषः । एकं साम यजुरेकमृगेका विप्रश्चैको निश्चयस्तेषु दृष्टः इति थ. पाठः ॥ 12-59-51 यज्ञगीता विष्णुगीताः ॥ 12-59-53 बह्वृचब्राह्मणे षोडशकमग्निहोत्रमुक्तम् । तत्र मारुतं विष्यन्दमानमिति स्कन्नमपि मरुद्दैवत्यं भवतीति तत्पूर्वमाद्यमग्निहोत्रं यदस्कन्नं यथाविधिहुतमुत्तर सर्वोत्कृष्टम् ॥ बहूनीति रौद्रादीनि ॥ 12-59-54 तानि षोडशाऽग्निहोत्ररूपाणि ॥ 12-59-55 यज्ञं विष्णुम् । यष्टुं यज्ञदानादिना आराधितुम् ॥ 12-59-57 श्रद्धापवित्रं यथा स्यात्तथा यष्टव्यमिति संबन्धः । आश्रित्य शास्त्रमिति शेषः ॥