अध्यायः 060

भीष्मेण युधिष्ठिरंप्रति आश्रमचतुष्टयधर्मकथनम् ॥ 1 ॥

भीष्म उवाच ।
आश्रमाणां महाबाहो शृणु सत्यपराक्रम ।
चतुर्णामपि नामानि कर्माणि च युधिष्ठिर ॥
वानप्रस्थं भैक्षचर्यं गार्हस्थ्यं च महाश्रमम् ।
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्रह्मणेरितम् ॥
चूडाकरणसंस्कारं द्विजातित्वमवाप्य च ।
आधानादीनि कर्माणि प्राप्य वेदानधीत्य च ॥
सदारो वाऽप्यदारो वा विनीतः संयतेन्द्रियः ।
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ॥
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् ।
ऊर्ध्वरेताः प्रजा हित्वा गच्छत्यक्षरसात्मताम् ॥
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् ।
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ॥
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशांपते ।
भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे ॥
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥
निराशीर्निर्नमस्कारो निर्भोगो निर्विकारवान् ।
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ॥
अधीत्य वेदान्कृतसर्वकृत्यः संतानमुत्पाद्य सुखानि भुक्त्वा ।
समाहितः प्रचरेद्दुश्चरं तं गार्हस्थ्यधर्मं मुनिधर्मजुष्टम् ॥
स्वदारतुष्टस्त्वृतुकालगामी नियोगसेवी न शठो न जिह्नः ।
मिताशनो देवरतः कृतज्ञः सत्यो मृदुश्चानृशंसः क्षमावान् ॥
दान्तो विधेयो हव्यकव्याप्रमत्तो ह्यन्नस्य दाता सततं द्विजेभ्यः ।
अमत्सरी सर्वलिङ्गप्रदाता वैताननित्यश्च गृहाश्रमी स्यात् ॥
अथात्र नारायणगीतमाहु र्महर्षयस्तात महानुभावाः ।
महार्थमत्यन्ततपः प्रयुक्तं तदुच्यमानं हि मया निबोध ॥
सत्यार्जवं चातिथिपूजनं च धर्मस्तथार्थश्च रतिः स्वदारैः ।
निषेवितव्यानि सुखानि लोके ह्यस्मिन्परे चैव मतं ममैतत् ॥
भरणं पुत्रदाराणां वेदानां चानुपालनम् ।
सेवतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः ॥
एवं हि यो ब्राह्मणो यज्ञशीलो गार्हस्थ्यमध्यावसते यथावत् ।
गृहस्थवृत्तिं प्रतिगाह्य सम्य क्स्वर्गे विशुद्धं फलमश्नुते सः ॥
तस्य देहं परित्यज्य इष्टकामाक्षया मताः ।
आनन्त्यायोपकल्पन्ते सर्वतोक्षिशिरोमुखाः ॥
वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर ।
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान् ॥
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी । `गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः ।'
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा ॥
शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च ।
षट््कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः ॥
नाचरत्यधिकारेण सेवेत द्विषतो न च ।
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

12-60-2 क्रमो न विवक्षितः । चतुर्थं ब्राह्मणैर्वृतमिति झ. पाठः ॥ 12-60-5 अक्षरसाम्यतमिति ट. द. पाठः ॥ 12-60-6 एतानि द्विजत्वावाप्त्यादीनि ॥ 12-60-7 मध्यममाश्रमद्वयमनित्यमित्याह चरितेति ॥ 12-60-11 शठो धूर्तः । जिह्नः कुटिलः ॥ 12-60-12 विधेयः गुरुशास्त्राज्ञापालकः । अप्रमत्तः अवहितः । सर्वेभ्यो लिङ्गयुक्तेभ्य आश्रमेभ्यः प्रदाताऽन्नादेः । लिङ्गप्रदातेति मध्यमपदलोपी समासः । वैतानं श्रौतकर्म तत्र नित्यः ॥ 12-60-17 कामाः अक्षया इति च्छेदः । संधिरार्षः । सर्वतोक्षिशिरोमुखा इत्यनेन यत्रय देशे काले वा योग्यं संकल्पयति तत्सर्वं सद्य उपतिष्ठतीत्यर्थः ॥