अध्यायः 064

भीष्मेण युधिष्ठिरंप्रति इन्द्ररूपिहरिणा मांधातारं प्रत्युक्तराजधर्मादिकथनम् ॥ 1 ॥

इन्द्र उवाच ।
एवंवीर्यः सर्वधर्मोपपन्नः क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः ।
पाल्यो युष्माभिर्लोकपालैरुदारै र्विपर्यये स्यादभवः प्रजानाम् ।
भूसस्कारं धर्मसंस्कारयोग्यं दीक्षाचर्यां पालनं च प्रजानाम् ।
विद्याद्राज्ञः सर्वभूतानुकम्पा देहत्यागं चाहवे धर्ममग्र्यम् ॥
त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वश्रेष्ठं यच्छरीरं त्यजन्ति ।
नित्यं व्यक्तं राजधर्मेषु सर्वे प्रत्यक्षं ते भूमिपाला यथैते ॥
बहुश्रुत्या गुरुशुश्रूषया वा परस्पराः संहननाद्वदन्ति ।
नित्यं धर्मं क्षत्रियो ब्रह्मचारी । चरेदेको ह्याश्रमं धर्मकामः ॥
सामान्यार्थे व्यवहारे प्रवृत्ते प्रियाप्रिये वर्जयन्नैव यत्नात् ।
चातुर्वर्ण्यं स्थापनात्पालनाच्च तैस्तैर्योगैर्नियमैरौषधैश्च ॥
सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं श्रेष्ठं सर्वधर्मोपपन्नम् ।
वंस्वं धर्मं येन चरन्ति वर्णा स्तांस्तान्धर्मानन्यथार्थान्वदन्ति ॥
नेर्मर्यादान्नित्यमर्थे निविष्टा नाहुस्तान्वै पशुभूतान्मनुष्यान् ।
यथा नीतिं गमयत्यर्थयोगा च्छ्रेयस्तस्मादाश्रमात्क्षत्रधर्मः ॥
त्रैविद्यानां या गतिर्ब्राह्मणानां ये चैवोक्ताः स्वाश्रमा ब्राह्मणानाम् ।
एतत्कर्म क्षत्रियस्याहुरग्र्य मन्यत्कुर्वञ्छूद्रवच्छस्त्रवध्यः ॥
चातुराश्रम्यधर्माश्च वेदवादाश्च पार्थिव ।
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कदाचन ॥
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते ।
कर्मणा वर्धते धर्मो यथा धर्मस्तथैव सः ॥
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति ।
कर्म स्वमप्रयुञ्जानमविश्वास्यं हि तं विदुः ॥
एते वर्णाः सर्वधर्मैश्च हीना उत्क्रष्टव्याः क्षत्रियैरेव धर्माः ।
तस्माच्छ्रेष्ठा राजधर्मा न चान्ये वीर्यश्रेष्ठा राजधर्मा मता मे ॥
मान्धातोवाच ।
यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः ।
शकास्तुषाराः कङ्काश्च पल्लवाश्चान्ध्रमद्रकाः ॥
उष्ट्राः पुलिन्दा आरट्टाः काचा म्लेच्छाश्च सर्वशः ।
ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥
कथं धर्मांश्चरिष्यन्ति सर्वे विषयवासिनः ।
मद्विधैश्च कथं स्थाप्याः सर्वे वै दस्युजीविनः ॥
एतदिच्छाम्यहं श्रोतुं मघवंस्तद्ब्रवीहि मे ।
त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ॥
इन्द्र उवाच ।
मातापित्रोर्हि शुश्रूषा कर्तव्या सर्वदस्युभिः ।
आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥
भूमिपानां च शुश्रूषा कर्तव्या सर्वदस्युभिः ।
देशधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च ।
दानानि च यथाकालं दातव्यानि द्विजातिषु ॥
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् ।
भरणं पुत्रदाराणां शौचमद्रोह एव च ॥
दक्षिणा सर्वयज्ञानां दातव्या धर्ममिच्छता ।
पाकयज्ञा महार्थाश्च दातव्याः सर्वदस्युभिः ॥
एतान्येवंप्रकाराणि विहितानि पुराऽनघ ।
सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ॥
मान्धातोवाच ।
दृश्यन्ते मानुषे लोके सर्ववर्णेषु दस्यवः ।
लिङ्गान्तरे वर्तमाना आश्रमेषु तथैव च ॥
इन्द्र उवाच ।
विनष्टायां दण्डनीत्यां राजधर्मे विनाकृते ।
संप्रमुह्यन्ति भूतानि राजदौरात्म्यतोऽनघ ॥
असङ्ख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा ।
आश्रमाणां विकल्पाश्च वृत्तेऽस्मिन्वैकृते युगे ॥
अशृण्वानाः पुराणानां धर्माणां शतशो नराः ।
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः ।
तदा धर्मो न चलते संभूतः शाश्वतः पुरा ॥
सर्वलोकगुरुं चैव राजानं योऽवमन्यते ।
न तस्य दत्तं न कृतं न श्रुतं फलति क्वचित् ॥
मानुषाणामधिपतिं देवभूतं महाद्युतिम् ।
देवाश्च बहुमन्यन्ते धर्मकामं नरेश्वरम् ॥
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् ।
स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ॥
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् ।
स मे मान्यश्च पूज्यश्च स च क्षत्रे प्रतिष्ठितः ॥
भीष्म उवाच ।
एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः ।
जगाम भवनं विष्णुरक्षरं शाश्वतं परम् ॥
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ ।
कः क्षत्रमतिवर्तेत चेतनावान्बहुश्रुतः ॥
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च ।
अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ॥
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे ।
वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

12-64-2 भूसंस्कारं भुवः संपन्नसस्यत्वम् । राजसंस्कारयोगमिति झ. पाठः । तत्र राजसंस्कारो तजसूयादिरर्थः ॥ 12-64-5 नियमैरौरसैश्चेति झ.पाठः । तत्र औरसैः पौरुषैः इत्यर्थः ॥ 12-64-6 येन क्षात्रधर्मेण । अन्यथार्थान्निष्प्रयोजनान् वदन्ति ॥ 12-64-7 निर्मर्यादे नित्यमर्थे विनष्टे न र्मचिन्ता पशुभूते मनुष्ये । इति ट. ड. थ. पाठः ॥ 12-64-8 या गतिर्यज्ञादिः आश्रमधर्मश्च एतद्द्वयम् ॥ 12-64-10 कर्मणा त्यज्यते धर्मो यथैव स्यात्तथैव सः इति ट. ड. थ. पाठः ॥ 12-64-12 उत्क्रष्टव्या उत्कर्षं प्रापणीया ॥ 12-64-15 दस्युजीविनो दस्युवृत्तिजीविनः ॥ 12-64-26 परमा गतीः इति झ. पाठः ॥ 12-64-31 गतिं फलम् ॥ 12-64-35 आदिपरायणे पूर्वेषां शरणभूते वर्तस्व । ते त्वाम् ॥