अध्यायः 002

ब्रह्मास्त्रलाभाय द्रोणमुपगतेन कर्णेन तेन त्रैवर्णिकान्यत्वकथनेन प्रत्याख्याने परशुराममेत्य स्वस्य ब्राह्मण्यकथनपूर्वकमस्त्रार्थं तदन्तेवासित्वपरिग्रहः ॥ 1 ॥ तत्र प्रमादेन विप्रगोवत्सघातिनः कर्णस्य विप्राच्छापप्राप्तिः ॥ 2 ॥

वैशंपायन उवाच ।
स एवमुक्तस्तु तदा नारदो वदतांवरः ।
कथयामास तत्सर्वं यथा शप्तः स सूतजः ॥
नारद उवाच ।
एवमेतन्महाबाहो यथा वदसि भारत ।
न कर्णार्जुनयोः किंचिदविषह्यं भवेद्रणे ॥
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप ।
तन्निबोध महाबाहो यथावृत्तमिदं पुरा ॥
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो ।
संघर्षजननस्तस्मात्कन्यागर्भो विसर्जितः ॥
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः ।
चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ॥
स बलं भीमसेनस्य फल्गुनस्यास्त्रलाघवम् ।
बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ॥
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः ।
राजानामनुरागं च चिन्तयानो व्यदह्यत ॥
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन च ।
युष्माभिर्नित्यसंघृष्टो दैवाच्चापि स्वभावतः ॥
विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम् ।
द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् ।
अर्जुनेन समो युद्धे भवेयमिति मे मतिः ॥
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् ।
त्वत्प्रसादान्न मा ब्रूयुरकृतास्त्रं विचक्षणाः ॥
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति ।
दौरात्म्यं चैव कर्णस्य विदित्वा तमुवाच ह ॥
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः ।
क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथंचन ॥
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च ।
जगाम सहसा राजन्महेन्द्रं पर्वतं प्रति ॥
स तु राममुपागम्य शिरसाऽभिप्रणम्य च ।
ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यवन्दत ॥
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः ।
उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥
तत्र कर्णस्य वसतो महेन्द्रे स्वर्गसंमिते ।
गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि ।
प्रियश्चाभवदत्यर्थं देवदानवरक्षसाम् ॥
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके ।
एकः खङ्गधनुष्पाणिः परिचक्राम सूतजः ॥
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः ।
जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् ।
कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव ।
मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ॥
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव ।
दुराचार वधार्हस्त्वं फलं प्राप्स्यसि दुर्मते ॥
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् ।
युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेष्टतः ।
पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ॥
यथेयं गौर्हता मूढ प्रमत्तस्य त्वया मम ।
प्रमत्तस्यैव मे वाचा शिरस्ते पातयिष्यति ॥
शप्तः प्रसादयामास कर्णस्तं द्विजसत्तमम् ।
गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥
नेदमव्याहृतं कुर्याद्ब्रह्मलोकेऽपि केवलम् ।
गच्छ वा तिष्ठ वा यद्वा कार्यं यत्तत्समाचर ॥
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः ।
राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

12-2-4 संघर्षजननो वैराग्न्युद्दीपकः । संचिन्त्य जनितस्तस्मादिति ट.ड. पाठः । कन्यागर्भो विनिर्मित इति झ. पाठः । तत्र कन्यागर्भो देवैः क्षत्रस्य स्वर्गमनाय निर्मित इत्यर्थः ॥ 12-2-5 चकाराऽधीतवान् । अङ्गिरसां श्रेष्ठे द्रोणे ॥ 12-2-8 दैवाद्देवानां संकल्पात् ॥ 12-2-10 रहस्यं तत्प्रसादनविधिर्निवर्तनमुपसंहारस्ताभ्यां सहितं सरहस्यनिवर्तनम् ॥ 12-2-15 गुरुरेव पितेत्यभिसंधिः 12-2-19 समुद्रान्ते दक्षिणसमुद्रसमीपे ॥ 12-2-20 होमधेनुं कर्णपर्वोक्तदिशा वत्सवध एवात्र धेनुवधो ज्ञेयः ॥ 12-2-26 प्रमत्तेन त्वया मम । प्रमत्तस्य तथाऽरातिरिति झ. पाठ ॥ 12-2-28 नेदं मद्वचनं कुर्याद्ब्रह्मलोकेऽपि चान्यथा इति ट. पाठः ॥