अध्यायः 067

भीष्मेण युधिष्ठिरंप्रति वसुमनसे बृहस्पत्युक्तराजगुणानुवर्णनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
किमाहुर्दैवतं विप्रा राजानं भरतर्षभ ।
मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतिं वसुमना यथा पप्रच्छ भारत ॥
राजा वसुमना नाम कौसल्यो धीमतां वरः ।
महर्षि किल पप्रच्छ कृतप्रज्ञं बृहस्पतिम् ॥
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतिम् ।
दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ॥
विधिं पप्रच्छ राजस्य सर्वलोकहिते रतः ।
प्रजानां सुखमन्विच्छन्धर्मशीलं बृहस्पतिम् ॥
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन वा ।
कमर्चन्तो महाप्राज्ञ सुखमव्ययमाप्नुयुः ॥
`एतन्मे शंस देवर्षे धर्मकामार्थसंशयम्' ॥
एवं पृष्टो महाप्राज्ञः कौसल्येनामितौजसा । राजसत्कारमव्यग्रो राज्यस्य च विवर्धनम् ।
दण्डनीतिं समाश्रित्य शशंसास्मै बृहस्पतिः ॥
राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते ।
प्रजा राजभयादेव न खादन्ति परस्परम् ॥
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् ।
प्रसादयति धर्मेण प्रसाद्य च विराजते ॥
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः ।
अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥
यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः ।
विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः ॥
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् ।
अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः ।
अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥
हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् ।
हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥
ममेदमिति लोकेऽस्मिन्न भवेत्स्वपरिग्रहः । न दारा न च पुत्रः स्यान्न धनं न परिग्रहः ।
विष्वग्लोपः प्रवर्तेत यदि राजा न पालयेत् ॥
यानं वस्त्रमलङ्कारान्रत्नानि विविधानि च ।
हरेयुः सहसा पापा यदि राजा न पालयेत् ॥
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु ।
अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।
क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ॥
`अन्यांश्च क्रोशतो हिंस्युर्लोकोऽयं दस्युवद्भवेत् ।' वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् ।
ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥
अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत् ।
पतेद्बहुविधं राज्यं यदि राजा न पालयेत् ॥
न योनिदोषो वर्तेत न कृषिर्न वणिक्पथः ।
मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥
न यज्ञाः संप्रवर्तेयुर्विधिवत्स्वाप्तदक्षिणाः ।
न विवाहाः समाजो वा यदि राजा न पालयेत् ॥
न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः ।
घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् ।
क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥
ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः ।
विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत् ॥
न भवेद्धर्मसंसेवी मोहविप्रहतो जनः ।
हर्ता स्वच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ॥
हस्ताद्धस्तं परिमुषेद्भिद्येरन्सर्वसेतवः ।
भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ॥
अनयाः संप्रवपर्तेरन्भवेद्वै वर्णसङ्करः ।
दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ॥
विवृत्य हि यथाकामं गृहद्वाराणि शेरते ।
मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ॥
नाक्रुष्टं सहते कश्चित्कुतो वा हस्तलाघवम् ।
यदि राजा न सम्यग्गां रक्षयत्यपि धार्मिकः ॥
स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः ।
निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः ॥
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् ।
अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ॥
यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्विधैः ।
युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः ॥
वार्तामूलो ह्ययं लोकस्तया वै धार्यते सदा ।
तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ॥
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः ।
महता बलयोगेन तदा लोकः प्रसीदयि ॥
यस्याभावेन भूतानामभावः स्यात्समन्ततः ।
भावे च भावो नित्यं स्यात्कस्तं न प्रतिपूजयेत् ॥
तस्य यो वहते भारं सर्वलोकसुखावहम् ।
तिष्ठन्प्रियहिते राज्ञ उभौ लोकाविमौ जयेत् ॥
यस्तस्य पुरुषः पापं मनसाऽप्यनुचिन्तयेत् ।
असंशयमिह क्लिष्टः प्रेत्यापि नरकं व्रजेत् ॥
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्येषा नररूपेण तिष्ठति ॥
कुरुते पञ्चरूपाणि कालयुक्तानि यः सदा ।
भवत्यग्निस्तथाऽऽदित्यो मृत्युर्वैश्रवणो यमः ॥
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा ।
मिथ्योपचरितो राजा तदा भवति पावकः ॥
यदा पश्यति चारेण सर्वभूतानि भूमिपः ।
क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ॥
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् ।
सपुत्रपौत्रान्सामात्यांस्तदा भवति सोन्तकः ॥
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण़्डैर्नियच्छति ।
धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ॥
यदा तु धनधाराभिस्तर्पयत्युपकारिणः ।
आच्छिनत्ति च रत्नानि विविधान्यपकारिणां ॥
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति ।
तदा वैश्रवणो राजा लोके भवति भूमिपः ॥
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा ।
धर्ममाकाङ्क्षता लोके ईश्वरस्यानसूयता ॥
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् ।
पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ॥
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः ।
न तु राज्ञाऽभिपन्नस्य शेषं क्वचन विद्यते ॥
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् ।
मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ॥
वध्येतभिमृशन्सद्यो मृगः कूटमिव स्पृशन् ।
आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ॥
महान्तं नरकं घोरमप्रतिष्ठमचेतसः ।
पतन्ति चिररात्राय राजवित्तापहारिणः ॥
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः ।
मेधावी धृतिमान्दक्षः संश्रयेत् महीपतिम् ॥
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
धर्मनित्यं स्थितं स्थाने मन्त्रिणं पूजयेन्नृपः ॥
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् ।
शूरमक्षुद्रकर्माणं प्रसिद्धं जनमाश्रयेत् ॥
राजा प्रगल्भं पुरुषं करोति राजा भृशं बृंहयते मनुष्यम् ।
राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति ॥
`राजा प्रजानां प्रथमं शरीरं प्रजाश्च राज्ञोऽप्रतिमं शरीरम् ।
राज्ञा विहीना न भवन्ति देशा देशैर्विहीना न नृपा भवन्ति ॥'
राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च ।
समाश्रिता लोकमिमं परं च जयन्ति सम्यक्पुरुषा नरेन्द्र ॥
नराधिपश्चाप्यनुशिष्य मेदिनीं दमेन सत्येन च सौहृदेन ।
महद्भिरिष्ट्वा क्रतुभिर्महायशा स्त्रिविष्टपे स्थानमुपैति शाश्वतम् ॥
भीष्म उवाच ।
स एवमुक्तोऽङ्गिरसा कौसल्यो राजसत्तमः ।
प्रयत्नात्कृतवान्वीरः प्रजापालनमुत्तमम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥

12-67-4 वैनयिकं अभ्युत्थानाभिवादनादिकम् । दक्षिणा दक्षिणातोऽनन्तरः । समीपे भूत्वाप्रदक्षिणीकृत्येत्यर्थः ॥ 12-67-11 अनुदके अल्पोदके । निराक्रन्दे हिंस्रभयरहिते ॥ 12-67-14 व्यायच्छमानान्स्वंस्वमर्थं अदातॄन् ॥ 12-67-15 विष्वक्सर्वतः लोपः अर्थानां लुम्पनम् ॥ 12-67-18 अन्धाश्च क्रोशत इति द.पाठः ॥ 12-67-21 योनिदोषः व्यभिचारे विगानम् ॥ 12-67-23 न संप्रवर्तेरन् न रेतः सिञ्चेरन् । गर्गराः दधिमन्थनपात्राणि ॥ 12-67-28 हस्ताद्धस्तं हस्तस्थमपि चोरा हरेयुः ॥ 12-67-30 विवृत्य उद्धाट्य ॥ 12-67-31 हस्तलाघवं तत्साध्यं ताडनम् । अक्रुष्टं गालनं वा कुतो न सहते । अपितु अनायकत्वात्सहत एव । गां पृथ्वीम् ॥ 12-67-32 अपुरुषाः अरक्षिता अपि ॥ 12-67-35 त्रय्या वै इति झ. पाठः । तत्र वार्ता जीविका तन्मूलः । त्रय्या च वृष्ट्या दिहेतुतया त्रायते रक्षते सर्वं त्रयी वार्तादिरित्यर्थः ॥ 12-67-42 आसीदतः समीपस्थान् । मिथ्योपचरितो वञ्चितः ॥ 12-67-48 तस्योपदेशे स्थातव्यमिति ट.ड.थ. पाठः ॥ 12-67-50 अभिपन्नस्य तिरस्कृतस्य ॥ 12-67-52 कूटं मारणयन्त्रम् ॥ 12-67-54 भोजः सुखानां भोजयिता ॥ 12-67-55 बुभूषुर्भवितुमिच्छुः ॥ 12-67-58 निषिद्धजनमाश्रयेदिति झ. पाठः । तत्र निषिद्धा जना येन तम् । अहमेकं एवेदं कार्यं करिष्यामि किमेतैरिति वादिनमित्यर्थः ॥ 12-67-60 समाश्रिता राजानमिति शेषः ॥