अध्यायः 068

युधिष्ठिरंप्रति भीष्मेण राजनीतिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
पार्थिवेन विशेषेण किं कार्यमवशिष्यते ।
कथं रक्ष्यो जनपदः कथं वध्याश्च शत्रवः ॥
कथं चारान्प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् ।
कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥
भीष्म उवाच ।
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् ।
यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥
एतावानात्मविजयः पञ्चवर्गविनिग्रहः ।
जितेन्द्रियो नरपतिर्बाधितुं शक्नुयाद्रिपुन् ॥
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन ।
नगरोपवने चैव पुरोद्याने तथैव च ॥
संस्थानेषु च सर्वेषु पुटेषु नगरस्य च ।
मध्ये च नरशार्दूल तथा राजनिवेशने ॥
प्रणिर्धीश्च ततः कुर्याज्जडान्धबधिराकृतीन् ।
पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासाश्रमक्षमान् ॥
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च ।
पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥
पुरे जनपदे चैव तथा सामन्तराजसु ।
यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ ।
आपणेषु विहारेषु समवायेषु वीथिषु ॥
आरामेषु तथोद्याने पण्डितानां समागमे ।
वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥
एवं विहन्याच्चारेण परचारं विचक्षणः ।
चारे च विहते सर्वं हतं भवति भारत ॥
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना ।
अमात्यैः सह संमन्त्र्य कुर्यात्सन्धिं बलीयसा ॥
`विद्वांसः क्षत्रिया वैश्या ब्राह्मणाश्च बहुश्रुताः ।
दण्डनीतौ तु निष्पन्ना मन्त्रिणः पृथिवीपते ॥
प्रष्टव्यो ब्राह्मणः पूर्वं नीतिशास्त्रस्य तत्ववित् । पश्चात्पृच्छेत भूपालः क्षत्रियं नीतिकोविदम् ।
वैश्यशूद्रौ तथा भूयः शास्त्रज्ञौ हितकारिणौ ॥ '
अज्ञायमाने हीनत्वे सन्धिं कुर्यात्परेण वै ।
लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः ॥
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये ।
सन्दधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः ।
पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः ।
न शक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् ।
व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥
यात्रामाज्ञापयेद्वीरः कल्यः पुष्टबलः सुखी ।
पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥
न च पश्यो भवेदस्य नृपो यश्चातिवीर्यवान् ।
हीनश्च बलवीर्याभ्यां कर्षयंस्तत्परो वसेत् ॥
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्च्छनैः ।
अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ॥
वर्जनीयं सदा युद्धं राज्यकामेन धीमता ।
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः ॥
सान्त्वेन तु प्रदानेन भेदेन च नराधिप ।
यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येत पण्डितः ॥
आददीत बलिं चापि प्रजाभ्यः कुरुनन्दन ।
षङ्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥
दशाधर्मगतेभ्यो यद्वसु बह्वल्पमेव वा ।
तन्नाददीत सहसा पौराणां रक्षणाय वै ॥
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः ।
भक्तिश्चैषु न कर्तव्या व्यवहारप्रदर्शने ॥
श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः ।
व्यवहारेषु सततं तत्र राज्यं प्रतिष्ठितम् ॥
आकरे लवणे शुल्के तरे नागबले तथा ।
न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् ।
नृपस्य सततं दण्डः सम्यग्धर्मः प्रशस्यते ॥
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् ।
दानशीलश्च सततं यज्ञशीलश्च भारत ॥
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः ।
व्यवहारस्य लोपेन कुतः स्वर्गः कुतो यशः ॥
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।
[तदाभिसंश्रयेद्दुर्गं बुद्धिमान्पृथिवीपतिः ॥
विधावाक्रम्य मित्राणि विधानमुपकल्पयेत् । सामभेदान्विरोधार्थं विधानमुपकल्पयेत् ॥]
`त्रिधा तु कृत्वा मित्राणि विधानमुपकल्पयेत् ।' घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि ।
प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् ।
धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥
सस्याभिहारं कुर्वीत स्वयमेव नराधिपः ।
असंभवे प्रवेशस्य दाहयेदग्निना भृशम् ॥
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् ।
विनाशयेद्वा तत्सर्वं बलेनाथ स्वकेन वै ॥
नदीमार्गेषु च तथा संक्रमानवसादयेत् ।
जलं विस्रावयेत्सर्वमविस्राव्यं च दूषयेत् ॥
तदात्वेनायतीभिश्च निवसेद्भूम्यनन्तरम् ।
प्रतिघातं परस्याजौ युद्धकालेऽप्युपस्थिते ॥
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् ।
सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥
प्रवृद्धानां च वृक्षाणां शाखां प्रच्छेदयेत्तथा ।
चैत्यानां सर्वथा त्याज्यमपि पत्रस्य पातनम् ॥
`देवानामाश्रयाश्चैत्या यक्षराक्षसभोगिनाम् । पिशाचपन्नगानां च गन्धर्वाप्सरसामपि ।
रौद्राणां चैव भूतानां तस्मात्तान्परिवर्जयेत् ॥
श्रूयते हि निकुम्भेन सौदासस्य बलं हतम् । महेश्वरगणेशेन वाराणस्यां नराधिप ॥ '
प्रगण्डीः कारयेत्सम्यगाकाशजननीस्तदा ।
आपूरयेच्च परिखां स्थाणुनक्रझषाकुलाम् ॥
सङ्कटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च ।
तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा ।
आरापयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् ।
संशोधयेत्तथा कूपान्कृतान्पूर्वपयोर्थिभिः ॥
तृणच्छन्नानि वेश्मानि पङ्केनाथ प्रलेपयेत् ।
निर्हरेच्च तृणं मासि चैत्रे वह्निभयात्पुरा ॥
नक्तमेव च भक्तानि पाचयेत नराधिपः ।
न दिवा ज्वालयेदग्निं वर्जयित्वाऽऽग्निहोत्रिकम् ॥
`यथासंभवशैलानि चैष्टकानि च कारयेत् । मृण्मयानि च कुर्वीत ज्ञात्वा देशं बलाबलम् ॥ '
कर्मारारिष्टशालासु ज्वलेदग्निः सुरक्षितः ।
गृहाणि च प्रवेश्यान्तर्विधेयः स्याद्धुताशनः ॥
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् ।
प्रघोषयेदथैवं च रक्षणार्थं पुरस्य च ॥
भिक्षुकांश्चाक्रिकांश्चैव क्लीबोन्मत्तान्कुशीलवान् ।
बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि ते शठाः ॥
चत्वरेष्वथ तीर्थेषु सभास्वावसथेषु च ।
यथार्थवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥
विशालान्राजमार्गांश्च कारयेत नराधिपः ।
प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः ।
अश्वागारान्गजागारान्बलाधिकरणानि च ॥
परिखाश्चैव कौरव्य प्रतोलीसङ्कटानि च ।
न जातु कश्चित्पश्येत गुह्यमेतद्युधिष्ठिर ॥
अर्थसंनिचयं कुर्याद्राजा परबलार्दितः ।
तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥
अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम् ।
यवसेन्धनदिग्धानां कारयेत च संचयान् ॥
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासचर्मणाम् ।
संचयानेवमादीनां कारयेत नराधिपः ॥
औषधानि च सर्वाणि मूलानि च फलानि च ।
चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषठः ॥
नटांश्च नर्तकांश्चैव मल्लान्मायाविनस्तथा ।
शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥
यतः शङ्का भवेच्चापि भृत्यतोऽथापि मन्त्रितः ।
पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥
कृते कर्माणि राजा तान्पूजयेद्धनसंचयैः ।
माननेन यथार्हेण सान्त्वेन विविधेन च ॥
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन ।
गतानृण्यो भवेद्राजा यथा शास्त्रे निदर्शितम् ॥
राज्ञा सप्तैव रक्ष्याणि तानि चैव निबोध मे ।
आत्माऽमात्याश्च कोशाश्च दण्डो मित्राणि चैव हि ॥
तथा जनपदाश्चैव पुरं च कुरुनन्दन ।
एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥
षाङ्गुण्यं च त्रिवर्गं च त्रिवर्गपरमं तथा ।
यो वेत्ति पुरुषव्याघ्र स भुङ्क्ते पृथिवीमिमाम् ॥
षाङ्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर ।
सन्धायासनमित्येव यात्रासन्धानमेव च ॥
विगृह्यासनमित्येव यात्रां संपरिगृह्य च ।
द्वैधीभावस्तथाऽन्येषां संश्रयोऽथ परस्य च ॥
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु ।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गः परमस्तथा ॥
`धर्मश्चार्थश्च कामश्च त्रिवर्गो वै सनातनः । मन्त्रश्चैव प्रभावश्च उत्साहश्चैव तान्त्रिकः ।
शक्तित्रयं समाख्यातं त्रिवर्गस्य च तत्परम् ॥
कार्यं च कारणं चैव कर्ता च परिकीर्तितः । एतत्परतरं विद्यान्त्रिवर्गादपि भारत ।
सर्वेपां च क्षये राजन्यस्त्रिवर्गः सनातनः ॥
सत्वं रजस्तमश्चैव त्रिवर्गकरणं स्मृतम् ।
तेनात्यन्तविमुक्तश्च मुक्तः पुरुष उच्यते ॥
कार्यस्य सर्वथा नाशो मोक्ष इत्यभिधीयते । तेन मोक्षपरश्चैव देवदेवः पितामहः ।
तुष्ट्यर्थस्य त्रिवर्गस्य रक्षामाह पितामहः ॥
जगतो लौकिकी यात्रा यत्र नित्यं प्रतिष्ठिता ।' धर्मोऽर्थश्चैव कामश्च सेवितव्याः स्वकालतः ॥
`सेवा धर्मस्य कर्तव्या सततं भूरिवत्सरैः । पुरुषैर्नरशार्दूल तन्मूलाः सर्वथा क्रियाः ॥'
धर्मेण च महीपालश्चिरं रक्षति मेदिनीम् । `यः कश्चिद्धार्मिको राजा स विपन्नोऽपि भूपतिः ।
अर्थकामविहीनोऽपि चिरं पालयते महीम् ॥'
अस्मिन्नर्थे हि द्वौ श्लोकौ गीतावङ्गिरसा स्वयम् ।
यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥
कृत्वा कार्याणि धर्मेण सम्यक्संपाल्य मेदिनीम् ।
पालयित्वा तथा पौरान्परत्र सुखमेधते ॥
किं तस्य तपसा राज्ञः किंच तस्याध्वरैः कृतैः ।
सुपालिताः प्रजा यस्य सर्वधर्मकृदेव सः ॥
श्लोकाश्चोशनसा गीतास्तान्निबोध युधिष्ठिर ।
दण्डनीतेश्च यन्मूलं त्रिवर्गस्य च भूपते ॥
भार्गवाङ्गिरसं कर्म षोडशाङ्गं च यद्बलम् ।
विषं माया च दैवं च पौरुषं चात्मसिद्धये ॥
प्रागुदक्प्रवणं दुर्गं समासाद्य महीपतिः ।
त्रिवर्गत्रयसंपूर्णमुपादाय तमुद्वहेत् ॥
षट््पञ्च च विनिर्जित्य दश चाष्टौ च भूपतिः ।
त्रिवर्गैर्दशभिर्युक्तः सुरैरपि न जीर्यते ॥
न बुद्धिं परिगृह्णीत स्त्रीणां मूर्खजनस्य च । दैवोपहतबुद्धीनां ये च वेदैर्विवर्जिताः ।
न तेषां शृणुयाद्राजा बुद्धिस्तेषां पराङ्भुखी ॥
स्त्रीप्रधानानि राज्यानि विद्वद्भिर्वर्जितानि च ।
मूर्खामात्याग्नितप्तानि शुष्यन्ते जलबिन्दुवत् ॥
विद्वांसः प्रथिता ये च ये चाप्ताः सर्वकर्मसु ।
बुद्धेषु दृष्टकर्माणि तेषां च शृणुयान्नृपः ॥
दैवं पुरुषकारं च त्रिवर्गं च समाश्रितः । दैवतानि च विप्रांश्च प्रणम्य विजयी भवेत् ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टषष्टिमोऽध्यायः ॥ 68 ॥

12-68-3 पार्थिवेन पृथुवंश्येन राज्ञा । पार्थिवप्रकृतेन वा विजातीयेनापि तत्कार्यकारिणा ॥ 12-68-4 आत्मा चित्तम् ॥ 12-68-5 पञ्चवर्गः श्रोत्रादिः ॥ 12-68-6 गुल्मान् रक्षिणः पत्तीन् । संधौ सीमान्ते ॥ 12-68-7 संस्थानेषु कोष्ठपालाद्युपवेशनस्थानेषु । मध्येऽन्तः पुरे ॥ 12-68-8 प्रणिधीन् चारान् ॥ 12-68-11 विहारेषु यूनां मल्लक्रीडास्थानेषु ॥ 12-68-12 सभासु राजसंसत्सु । आवसथेषु तत्र तत्र महतां गृहेषु ॥ 12-68-13 एवं विचिनुयाद्राजा परचारं विचक्षणः । चारे हि विदिते पूर्वं हितं भवति पाण्डव । इति झ. पाठः । तत्र विचिनुयात् अन्विष्यात् इत्यर्थः ॥ 12-68-18 तैर्द्वारभूतैः तान्द्वारीकृत्यबलवद्भिर्नृपैः सह संधिं कुर्यात् ॥ 12-68-19 पूर्वापकारिणः पूर्वं दुष्टा इति अपकृताः पश्चाद्दययानुगृहीताः ॥ 12-68-21 अविज्ञातं क्रियाविशेषणमिदम् । अनाकन्दं मित्रहीनम् । अनन्तरं बन्धुजनहीनम् । व्यासक्तं अन्येन युद्धं कुर्वाणम् । प्रमत्तं अनवहितम् । यात्रायां यदि विज्ञातमिति झ. पाठः । तत्र यात्रायां यदि इच्छास्यात्तर्हि दुर्बलत्वादिना विज्ञातं शत्रुं प्रति यात्रामाज्ञापयेदित्युत्तरेण संबन्धः ॥ 12-68-22 विधानं रक्षणादिसामग्रीसंपादनम् ॥ 12-68-23 कर्षयन् वीर्यवन्तं । तत्परः कर्षणपरः ॥ 12-68-28 दशधर्मगतेभ्य इति । तदाददीत सहसेति च झ. पाठः । तत्र दशधर्मगताः मत्तोन्मत्तादय इत्यर्थः ॥ 12-68-29 भक्तिः स्वीयत्वेन स्नेहः ॥ 12-68-30 सूतं च विन्यसेद्राजा प्राज्ञं सर्वार्थदर्शिनम् । इति ट.ड.थ.द. पाठः ॥ 12-68-31 आकरे स्वर्णाद्युत्पत्तिस्थाने । लवणे तदुत्पत्तिस्थाने । शुल्के धान्यादिविक्रयस्थाने । तरे नदीसंतरणे । नागबले हस्तियूथे ॥ 12-68-37 घोषान् वनस्थान्मार्गेषु राजपथेषु न्यसेत् ॥ 12-68-40 उपजपेत् भेदयित्वा तद्द्वारा दाहयेत् ॥ 12-68-41 संक्रमान् अवतरणार्थान्सेतन् । जलं तटाकादिस्थं विस्रावयेत् । तदयोग्यं वापीकूपादिस्थं दूषयेत् विषादिना नाशयेत् ॥ 12-68-42 तदात्वेन वर्तमानकाले आयतीभिः उत्तरकालेषु च । अपवर्गे तृतीया । सर्वदा आजौ परस्य शत्रोः प्रतिघातं हन्तारं भूम्यनन्तरं निकटदेशवासिनं तच्छत्रुमाश्रित्यनिवसेत् ॥ 12-68-47 प्रगण्डीर्दुर्गप्राकारभित्तौ शूराणामुपवेशनस्थानानि । आकाशजननीस्तत्रैवैकपक्षायां भित्तौ तत्रत्यानां रक्षणभूतायां बाह्यार्थदर्शनार्थानि क्षुद्रच्छिद्राणि यद्द्वारा आग्नेयास्त्रगुलिकाः प्रक्षिप्यन्ते । स्थाणवः सशूलाः । प्रकुण्ठीः कारयेत् इति ड.थ. पाठः ॥ 12-68-48 संकटद्वारकाणि सूक्ष्मद्वाराणि । तेषां च द्वारवत् गुप्तिः कार्या । कुलिकद्वारकाणि स्युः इति ट. ड. थ. पाठः ॥ 12-68-54 कर्मारो लोहकारादिः । अन्तर्विधेयः आच्छादितः कर्तव्यः ॥ 12-68-55 महादण्डो वधः ॥ 12-68-56 चाक्रिकान् शाकटिकान् । कुशीलवान् फाललेखान् ॥ 12-68-62 वर्णिनां लेखकानाम् । यवसं धासः । दिग्धानां विषाक्तवाणानाम् ॥ 12-68-64 चतुर्विधान् विषशल्यरोगकृत्याहरान् ॥ 12-68-72 सन्धायासनं सन्धिं कृत्वाऽवस्थितिः । यात्रासन्धानं यानम् ॥ 12-68-73 यात्रां संपरिगृह्याऽऽसनं शत्रोर्भयप्रदर्शनार्थं यानं प्रदर्श्य स्वस्थानेऽवस्थानम् । द्वैधीभाव उभयत्र संधिकरणम् ॥