अध्यायः 069

भीष्मेण युधिष्ठिरंप्रति कृतादियुगचतुष्टयगुणनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
दण़्डनीतिश्च राजा च समस्तौ तावुभावपि ।
तत्र किं कुर्वतः सिद्धिस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
माहात्म्यं दण्डनीत्यास्तु साध्यं शब्दैः सहेतुकैः ।
शृणु मे शंसतो राजन्यथावदिह भारत ॥
दण्डनीतिः स्वधर्मेषु चातुर्वर्ण्यं नियच्छति ।
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति ॥
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे ।
दण़्डनीतिकृते क्षेमे प्रजानामकुतोभये ॥
सोमे प्रयत्नं कुर्वन्ति वयो वर्णा यथाविधि ।
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम् ॥
कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो माभूद्राजा कालस्य कारणम् ॥
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते ।
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् ।
सर्वेषामेव वर्णानां नाधर्मे रमते मनः ॥
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः ।
वैदिकानि च कर्माणि भवन्त्यपि गुणान्युत ॥
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः ।
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ॥
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः ।
विधवा न भवन्त्यत्र नृशंसो नात्र जायते ॥
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा ।
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ॥
नाधर्मो विद्यते तत्र धर्म एव तु केवलम् ।
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ॥
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते ।
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ॥
अधर्मस्य चतुर्थांशस्त्रीनंशाननुवर्तते ।
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ॥
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते ।
ततस्तु द्वापरं नाम स कालः संप्रवर्तते ॥
अशुभस्य यदा त्वर्धं द्वावंशावनुवर्तते ।
कुष्टपच्यैव पृथिवी भवत्यर्धफला तथा ॥
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः ।
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः ॥
कलावधर्मो भूयिष्ठो धर्मो भवति न क्वचित् ।
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ॥
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया ।
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः ॥
वैदिकानि च कर्माणि भवन्ति विगुणान्युत ।
ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा ॥
ह्रसन्त च मनुष्याणां स्वरवर्णमनांस्युत ।
व्याधयश्च भवन्त्यत्र म्रियन्ते चाशतायुषः ॥
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा ।
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ॥
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः ।
प्रजाः संरक्षितुं सम्यग्दण़्डनीतिसमाहितः ॥
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च ।
युगस्य च चतुर्थस्य राजा भवति कारणम् ॥
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते ।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।
प्रजानां कल्मषे मग्नोऽकीर्ति पापं च विन्दति ॥
दण्डनीतिं पुरस्कृत्य क्षत्रियेण विजानता । लिप्सितव्यमलभ्यं च लब्धं रक्ष्यं च भारत ।
`योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः ॥'
लोकस्य सीमन्तकरी मर्यादा लोकपावनी ।
सम्यङ्गीता दण्डनीतिर्यथा माता यथा पिता ॥
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ ।
एष एव परो धर्मो यद्राजा दण्डनीतिमान् ॥
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् ।
एवं वृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

12-69-3 अधर्मेभ्य इति प़ञ्चमी ॥ 3 ॥ 12-69-11 कपणो न त्विति झ. पाठः ॥ 12-69-18 अयोगेन अनुप्रायेन ॥ 12-69-20 योगक्षेमस्य नाशाच्चेति ट. ड. थ. पाठः ॥ 12-69-30 सीमन्तकरी त्र्यवस्यापिका ॥