अध्यायः 072

युधिष्ठिरंप्रति भीष्मेण ब्राह्मणस्य श्रैष्ठयोपपादनपूर्वकं चातुर्वर्ण्यधर्मकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
`कीदृशो ब्राह्मणो राजा कार्याकार्यविचारणे । क्षमः कर्तुं समर्थो वा तन्मे ब्रूहि पितामह ॥'
भीष्म उवाच ।
य एव तु सतो रक्षेदसतश्च निवर्तयेत् ।
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पुरूरवस ऐलस्य संवादं मातरिश्वना ॥
पुरूरवा उवाच ।
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः ।
कस्माच्च भवति श्रेयांस्तन्मे व्याख्यातुमर्हसि ॥
मातरिश्वोवाच ।
ब्राह्मणो मुखतः सृष्टो ब्रह्मणो राजसत्तम ।
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य एव च ॥
वर्णानां परिचर्यार्यं त्रयाणां भरतर्षभ ।
वर्णश्चतुर्थः पश्चात्तु पभ्द्यां शूद्रो विनिर्मितः ॥
ब्राह्मणो जायमानो हि पृथिव्यामनुजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥
`सर्वस्वं ब्राह्मणस्येदं यत्किंचिदिह दृश्यते । धर्मयुक्तं प्रशस्तं च जगत्यस्मिन्नृपात्मज ॥'
ततः पृथिव्या यन्तारं क्षत्रियं दण्डधारणे ।
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ॥
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् ।
शूद्रो ह्येतान्परिचरेदिति ब्रह्मानुशासनम् ॥
ऐल उवाच ।
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् ।
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ॥
वायुरुवाच ।
विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम् ।
`धनं धान्यं हिरण्यं च स्त्रियो रत्नानि वाहनम् ॥
मङ्गलं च प्रशस्तं च यच्चान्यदपि विद्यते । ' ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ॥
पत्यभावे यथैव स्त्री देवरं कुरुते पतिम् । `आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ।'
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः ॥
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ।
यत्किंचिज्जयसे भूमिं ब्राह्मणाय निवेदय ॥
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ।
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् ॥
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ।
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवान् ॥
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ।
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् ॥
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ।
तावता सत्कृतः प्राज्ञश्चिरं यशसि तिष्ठति ॥
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ।
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः ॥
`ब्राह्मणं च सविद्वांसं राजशास्त्रविपश्चितम् ।' सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ॥
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः ।
चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति ॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।
यज्ञमेवोपजीवन्ति नास्ति यष्टा ह्यराजके ॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ॥
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति । अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ।
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः ॥
तेषु भोगेषु सर्वेषु न भीतो लभते सुखम् ।
अभयस्य हि यो दाता तस्यैव सुमहत्फलम् ॥
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते । इन्द्रो राजा यमो राजा धर्मो राजा तथैव च ।
राजा बिभर्ति भूतानि राज्ञा सर्वमिदं धृतम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

12-72-2 निवर्तयेद्राज्याद्दूरीकारयेत् ॥