अध्यायः 074

भीष्मेण युधिष्ठिरंप्रति मुचुकुन्दचरितदृष्टान्तीकरणेन क्षत्रस्य ब्रह्माधीनत्वसमर्थनम् ॥ 1 ॥

`युधिष्ठिर उवाच ।
ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह ।
पुरोहितप्रभावश्च लक्षणं च पुरोधसः ॥
इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम् । ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम् ।
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च ॥'
भीष्म उवाच ।
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते ।
योगक्षेमो हि राज्ञो हि समायत्तः पुरोहिते ॥
यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत ।
दृष्टं च राजा बाहुभ्यां तद्राज्यं सुखमेधते ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ॥
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः ।
जिज्ञासमानः स बलमभ्ययादलकाधिपम् ॥
ततो वैश्रवणो राजा राक्षसानसृजत्तदा ।
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः ॥
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः ।
गर्हयामास विद्वांसं पुरोहितमरिन्दमः ॥
तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः ।
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत ॥
ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत् ।
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥
धनद उवाच ।
बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः ।
न चैवं समवर्तन्त यथा त्वमिव वर्तसे ॥
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः ।
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ॥
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि ।
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् ।
न्यायपूर्वमसंलब्धमसंभ्रान्तमिदं वचः ॥
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा ।
पृथग्बलविधानं च तल्लोकं परिपालयेत् ॥
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् ।
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥
ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम् ।
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप ॥
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् ।
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ॥
नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव । प्रशाधि पृथिवीं कृत्स्नां मद्दत्तामखिलामिमाम् ।
[एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः ॥]
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव ।
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥
भीष्म उवाच ।
ततो वैश्रवणो राजा विस्मयं परमं ययौ ।
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमरिन्दमम् ॥
ततो राजा मुचुकुन्दः सोन्वशासद्वसुंधराम् ।
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते ।
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते ॥
नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः ।
तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम् ॥
यशश्च तेजश्व महीं च कृत्स्नां प्राप्नोति राजन्विपुलां च कीर्तिम् ।
प्रधानधर्मं नृपते नियच्छ तथा च धर्मस्य चतुर्थमंशम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

12-74-7 असृजदतिसृष्टवान् । आज्ञापितवानिति यावत् ॥ 12-74-11 त्वया त्वत्तः ॥ 12-74-25 नियच्छ गृहाणेत्यर्थः ।