अध्यायः 078

भीष्मेण युधिष्ठिरंप्रति ब्राह्मणादीनामापद्धर्मकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत ।
कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा ॥
भीष्म उवाच ।
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् ।
कृषिं गोरक्ष्यमास्थाय व्यसने वृत्तिसंक्षये ॥
युधिष्ठिर उवाच ।
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते ।
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ ॥
भीष्म उवाच ।
सुरालवणमित्येतत्तिलान्केसरिणः पशून् ।
वृषभान्मधु मांसं च कृतान्नं च युधिष्ठिर ॥
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् ।
एतेषां विक्रयात्तात ब्राह्मणो नरके पतेत् ॥
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् ।
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन ॥
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः ।
निमयेत्पक्वमामेन भोजनार्थाय भारत ॥
वयं सिद्धमशिष्यामो भवान्साधयतामिदम् ।
एवं संवीक्ष्य समयं नाधर्मोऽस्ति कथंचन ॥
अत्र ते वर्तयिष्यामि यथा कर्मः सनातनः ।
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर ॥
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु ।
उचितो वर्तते धर्मो न बलात्संप्रवर्तते ॥
इत्येवं संप्रवर्तन्ते व्यवहाराः पुरातनः ।
ऋषीणामितरेषां च साधु चैतदसंशयम् ॥
युधिष्ठिर उवाच ।
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः ।
व्युत्क्रमन्ते स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ॥
तदा त्राता तु को नु स्यात्को धर्मः किं परायणम् ।
एतं मे संशयं ब्रूहि विस्तरेण पितामह ॥
भीष्म उवाच ।
दानेन तपसा यज्ञैदद्रोहेण दमेन च ।
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः ॥
तेषां ये वेदबलिनस्त उत्थाय समन्ततः ।
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः ॥
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम् ।
तस्माद्ब्राह्मबलेनैव समुत्थेयं विजानता ॥
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसन्दधेत् ।
तदा वर्णा यथाधर्मं निविशेयुः स्वकर्मसु ॥
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते ।
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर ॥
युधिष्ठिर उवाच ।
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणं प्रति ।
कस्तत्र ब्राह्मणांस्त्राता को धर्मः किं परायणम् ॥
भीष्म उवाच ।
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च ।
अमायया मायया च नियन्तव्यं तदा भवेत् ॥
क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः ।
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ॥
अभ्द्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वस्वयोनिषु शाम्यति ॥
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिहन्ति च ।
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः ॥
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर ।
समुदीर्णान्यजेयानि तेजांसि च बलानि च ॥
युधिष्ठिर उवाच ।
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले ।
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति भारत ॥
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः ।
`ब्राह्मणान्परिरक्षन्ति तेषां लोका भवन्ति के ॥
भीष्म उवाच ।
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च । मनस्विनो मन्युमन्तः पुण्याँल्लोकान्व्रजन्त्यमी ।
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणभिष्यते ॥
अतिस्विष्टमधीतानां लोकानतितपस्विनाम् ।
अनाशकाग्न्याहितानां शूरा यान्ति परां गतिम् ॥
ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन्न दुष्यति ।
एष एवात्मनस्त्यागो नान्यं धर्मं विदुर्जना ॥
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति ।
ब्रह्मद्विपो जिघांसन्तस्तेषां नोऽस्तु सलोकता ॥
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरव्रवीत् । यथाऽश्वमेधावभृथे स्नाताः पूता भवन्त्युत ।
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ॥
भवत्यधर्मो धर्मो हि धर्मोऽधर्मो भवत्युत ।
कारणाद्देशकालस्य देशः कालः स तादृशः ॥
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् ।
धर्म्याः पापानि कुर्वाणा गच्छन्ति परमां गतिम् ॥
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति ।
आत्मत्राणे दस्युदोषे सर्वस्वहरणे तथा ॥
युधिष्ठिर उवाच ।
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे ।
संप्रमूढेषु वर्णेषु यदन्योऽभिभवेद्वली ॥
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम ।
दस्युभ्यो यः प्रजा रक्षेद्दण्डं धर्मेण धारयेत् ॥
भीष्म उवाच ।
कार्यं कुर्यान्न वा कुर्यात्स वार्यो वा भवेन्न वा ।
न स्म शस्त्रं गृहीतव्यमन्यत्र क्षत्रबन्धुतः ॥
अपारे यो भवेत्पारमप्लवेः यः प्लवो भवेत् ।
शूद्रो वा यदि वाऽप्यन्यः सर्वथा मानमर्हति ॥
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम् ।
अनाथास्तप्यमानाश्च दस्युभिः परिपीडिताः ॥
तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम् ।
यहद्ध्यभीष्टं कौरव्य कर्ता सन्मानमर्हति ॥
किमनडुहा यो न वहेत्किं धेन्वा वाऽप्यदुग्धया ।
बन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाऽप्यरक्षता ॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
यथा ह्यदक्षः पुरुषः पथि क्षेत्रं यथोपरम् ॥
यथा विप्रोऽनधीयानो राजा यश्च न रक्षिता ।
मेघो न वर्षते यश्च सर्व एव निरर्थकाः ॥
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत् ।
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

12-78-4 केसरिणः अश्वान् । पशून्गोजाविमहिषादीन् । कृतान्नं पक्वमन्नम् ॥ 12-78-6 विराट् अन्नम् ॥ 12-78-7 पक्वेनामस्य विनिमये पक्वदो दुष्यति नत्वामद इत्यर्थः ॥ 12-78-8 इदमप्यपवदति वयमिति । निमयम् इति झ. पाठः ॥ 12-78-19 कस्तस्य ब्राह्मणस्त्रातेति झ. पाठः ॥ 12-78-29 एवमेवात्मनस्त्यागान्नान्यं इति झ. पाठः ॥ 12-78-30 नोऽस्माकम् ॥ 12-78-33 मैत्रा उत्तङ्कपराशरादयः । क्रूराणि सर्पराक्षससत्रादीनि । धर्म्या धर्मादनपेताः क्षत्रियाः । पापानि परराष्ट्रावमर्दादीनि । अधर्मस्य धर्मत्वेन उदाहरणद्वयमुक्तम् । इदमेवाऽर्हिसाख्यधर्माश्रयेऽधर्मरूपमपि भवतीति ज्ञेयम् ॥ 12-78-41 किं तैर्येऽनडुहो नोह्याः इति झ. पाठः ॥ 12-78-42 यदाह्यनर्थः षण्ढो वा पार्थ क्षेत्रं इति झ. पाठः ॥