अध्यायः 083

भीष्मेण युधिष्ठिरंप्रति मन्त्र्यादिलक्षणकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
सभासदः सहायाश्च सुहृदश्च विशांपते ।
परिच्छदास्तथाऽमात्याः कीदृशाः स्युः पितामह ॥
भीष्म उवाच ।
ह्रीनिषेवास्तथा दान्ताः सत्यार्जवसमन्विताः ।
शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ॥
अमात्याश्चातिशूराश्च ब्रह्मण्याश्च बहुश्रुताः ।
सुसंतृष्टाश्च कौन्तेय महोत्साहाश्च कर्मसु ॥
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत ॥
कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति । प्रसन्नमप्रसन्नं वा पीडितं हतमेव वा ।
आवर्तयति भूयिष्ठं तदेव ह्यनुपालितम् ॥
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः ।
प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः ।
ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ॥
कुलीनाञ्शीलसंपन्नानिङ्गितज्ञाननिष्ठुरान् । देशकालविधानज्ञान्भर्तृकार्यहितैपिणः ।
नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥
अर्थमानार्घसत्कारैर्भोगैरुच्चावचैः प्रियैः ।
यानर्थभाजो मन्येथास्तेते स्युः सुखभागिनः ॥
अभिन्नवृत्ता विद्वांसः सद्वॄत्ताश्चरितव्रताः ।
नत्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ॥
अनार्या ये न जानन्ति समयं मन्दचेतसः ।
तेभ्यः परिजुगुप्सेथा ये चापि समयच्युताः ॥
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः ।
यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ॥
श्रेयसो लक्षणं चैतद्विक्रमो यस्य दृश्यते ।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ॥
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः ।
न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ॥
अमानी अत्यवाक्शक्तो जितात्मा मानसंयुतः ।
स ते मन्त्रसहायः स्यात्सर्वावस्थापरीक्षितः ॥
कुलीनः कुलसंपन्नस्तितिक्षुर्दश आत्मवान् ।
शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः ।
अमित्राः संप्रसीदन्ति तथा मित्रीभवन्त्यपि ॥
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणम् ।
संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥
संबन्धिपुरुषैराप्तैरभिजातैः स्वदेशजैः ।
अहार्यैरव्यभीचारैः सर्वशः सुपरीक्षितैः ॥
यौनाः श्रौतास्तथा मौलास्तथैवाप्यनहंकृताः ।
कर्तव्या भूतिकामेन पुरुषेण बुभूपता ॥
एषां वैनयिकी बुद्धिः प्रकृतिश्चैव शोभना ।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः ॥
परीक्ष्य च गुणान्नित्यं प्रौढभावान्धुरंधरान् ।
पञ्चोपधाव्यतीतांश्च कुर्याद्राजाऽर्थकारिणः ॥
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् ।
कुलीनान्सत्वसंपन्नानिङ्गितज्ञाननिष्ठुरान् ॥
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः ।
नित्यमर्थेषु सर्वेषु राजन्कुर्वीत मन्त्रिणः ॥
हीनतेजोभिसंसृष्टो नैव जातु व्यवस्यति ।
अवश्यं जनयत्येव सर्वकर्मसु संशयम् ॥
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।
धर्मार्थकामसंयुक्तो नालं मन्त्रं परीक्षितुम् ॥
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः ।
अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ॥
यो वाऽप्यस्थिरसंकल्पो बुद्धिमानागतागमः । 12-83-28bउपायज्ञोऽपि नालं स कर्म प्रापयितुं चिरम् ॥
केवलात्पुनरादानात्कर्मणो नोपपद्यते ।
परामर्शो विशेषणामश्रुतस्येह दुर्मतेः ॥
मन्त्रिण्यननुरक्ते तु विश्वासो नोपपद्यते ।
तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः ।
मारुतोपहितच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ॥
संक्रुद्धश्चैकदा स्वामी स्थानाच्चैवापकर्षति ।
वाचा क्षिपति संरब्धः पुनः पश्चात्प्रसीदति ॥
तानितान्यनुरक्तेन शक्यानि हि तितिक्षितुम् ।
मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ॥
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया ।
समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ॥
अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः ।
राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ॥
योऽमित्रैः सह संबद्धो न परान्बहुमन्यते ।
असुहृत्तादृशो ज्ञेयो न मन्त्रं श्रोतुमर्हति ॥
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः ।
असुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ॥
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः ।
सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ॥
विधर्मतो विप्रकृतः पिता यस्याभवत्पुरा ।
सत्कृतः स्थापितः सोऽपि न मन्त्रं श्रोतुमर्हति ॥
यः स्वल्पेनापि कार्येण सुहृदाक्षारितो भवेत् ।
पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ॥
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः ।
सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ॥
ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः ।
सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ॥
सत्यवाक्शीलसंपन्नो गन्भीरः सत्रपो मृदुः ।
पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ॥
संतुष्टः संमतः सद्भिः शौटीरो द्वेष्यपापकः ।
मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ॥
सर्वलोकमिमं शक्तः सान्त्वेन कुरुते वशम् ।
तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ॥
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः ।
योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ॥
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः ।
मन्त्रिणः प्रकृतिज्ञाः स्युख्यवरा महदीप्सवः ॥
स्वासु प्रकृतिषु च्छिद्रं लक्षयेरन्परस्य च ।
मन्त्रिणां मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ॥
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ।
गूहेत्कूर्म इवाङगानि रक्षेद्विवरमात्मनः ॥
मन्त्रग्राहा हि राजस्य मन्त्रिणो ये मनीषिणः ।
मन्त्रसंहननो राजा मन्त्राङ्गानीतरे जन्गः ॥
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते ।
स्वामिनं त्वनुवर्न्तते वृत्त्यर्थमिह मन्त्रिणः ॥
संविनीयमदक्रोधौ मानमीर्ष्यां च निर्वृताः ।
नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ॥
तेषां त्रयाणां त्रिविधं विमर्शं विबुध्य चित्तं विनिवेश्य तत्र ।
स्वनिश्चयं तं परनिश्चयं च निदर्शयेदुत्तरमन्त्रकाले ॥
धर्मार्थकामज्ञमुपेत्य पृच्छे द्युक्तो गुरुं ब्राह्मणमुत्तरार्थम् ।
निष्ठा कृता तेन यदा सहः स्या त्तं मन्त्रमार्गं प्रणयेदसक्तः ॥
एवं सदा मन्त्रयितत्र्यमाहु र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः ।
तस्मात्तमेवं प्रणयेत्सदैव मन्त्रं प्रजासंग्रहणे समर्थम् ॥
न वामनाः कुब्जकृशा न खञ्जा नान्धा जडाः स्त्री च नपुंसकाश्च ।
न चात्र तिर्यक्च पुरो न पश्चा न्नोर्ध्वं न चाधः प्रपरेत्कथंचित् ॥
आरुह्य वा वेश्म तथैव शून्यं स्थलं प्रकाशं कुशकाशहीनम् ।
वागङ्गदोषान्परिहृत्य सर्वा न्संमन्त्रयेत्कार्यमहीनकालम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

12-83-1 सभासदः व्यवहारनिर्णायका । सहायाः युद्धादावुपयोगिनः । सुहृदो हितकर्तारः । परिच्छदाः सेनान्यादयः ॥ 12-83-2 क्रमेणैषां लक्षणान्याह हीति । कथयितुं न्यायान्यायौ वक्तुम् हीनिषेधास्तथा दान्ताः सत्यलज्जासमन्विताः इति थ. पाठः ॥ 12-83-5 सुल्दमाह सार्धेन कुलीन इति ॥ 12-83-7 यावदार्द्रकपाणयः । शुष्कहस्तास्तु सद्यो विक्रियन्ते इत्यर्थः । ते त्वां जातु न सेवेयुर्यावते स्वङ्गपाणयः । इति ड. थ.पाठः ॥ 12-83-9 अर्थो धनम् । मानः सन्मानः । अर्धो वस्रादिदानम् । सत्कार आदरः । यान्प्रियान्मन्येथात्तेऽर्थभाजः सुखभागिनश्च स्युः ॥ 12-83-11 समयं धर्माधर्ममयदाम् । जुगुप्सेथाः रक्षस्व ॥ 12-83-12 अन्यतरग्रहः गणैकयोरेक्तरस्य ग्राणप्रसङ्ग । एकश्चेद्गुणी तदा गणं त्यक्त्वा स एव ग्राह ॥ 12-83-13 श्रेयसः साधोः ॥ 12-83-14 सत्यः सत्यवान् ॥ 12-83-18 भूमिपः परीक्षेतेति योजना ॥ 12-83-19 अभिजातैः कुलीनैः । अहार्यैः धनादिना वशीकर्तुमशक्यैः । संबन्धिपुरुषैर्येषां संबन्धोऽस्ति तादृशैः ॥ 12-83-20 यौना उत्तमयोनयः । मौलाः परंपरागताः कर्तव्याः । मन्त्रिण इति शेषः ॥ 12-83-21 प्रकृतिः पूर्वकर्मजः संस्कारः । तेजः पराभिभवसामर्थ्यम् । स्थितिरव्यभिचारिता । धृतिर्धारणसमार्थ्यम् ॥ 12-83-22 पञ्च मन्त्रिण इति तृतीयेनान्वयः । उपधा च्छलं तद्व्यतीतान् ॥ 12-83-23 पर्याप्तं कृत्स्नस्य विवित्सितस्यार्थस्य निर्वाहकं वचनं येषां तान् ॥ 12-83-25 हीनतेजसा मित्रेणाभिसंसृष्टः संबद्धः । न व्यवस्यति न कर्तव्याकर्तव्ये निश्चिनोति ॥ 12-83-28 प्रापयितुं समापयितुम् ॥ 12-83-29 आरम्भशूरोऽपि मूर्खः कर्मणः फलविशेषान् ज्ञातुं न शक्नोतीत्यर्थः ॥ 12-83-32 अनुरक्तलक्षणमाह शिभिः संक्रुद्ध इत्यादिभिः ॥ 12-83-38 आगन्तुर्नूतनः । सोऽप्य विश्वास्य इत्यर्थः ॥ 12-83-39 विधर्मतोऽन्यायेन ॥ 12-83-40 आक्षारितो धनग्रहणेन रिक्तः कृतः ॥ 12-83-41 जानपदः स्वदेशजः ॥ 12-83-42 परस्य शत्रोः आत्मनश्च प्रकृतीः स्वाम्यमात्यादिका जानातीति प्रकृतिज्ञः ॥ 12-83-43 गम्भीरो मन्त्रगोपनसमर्थः ॥ 12-83-44 शौटीरः प्रगल्भः । द्वेष्यवद्धेयं पापं यस्य स द्वेष्यपापकः ॥ 12-83-45 आधित्सता आधातुच्छिता ॥ 12-83-47 पञ्चानामभावे त्रयो वा कार्या इत्यर्थः ॥ 12-83-49 विवरं छिद्रम् ॥ 12-83-50 मन्त्रसंहननो मन्त्रकवचः ॥ 12-83-52 उपवाश्छलानि । तानि पञ्च ॥ 12-83-56 अत्र मन्त्रस्थाने ॥