अध्यायः 085

भीष्मेण युधिष्ठिरंप्रति अमात्यलक्षणादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
कथंस्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः ।
प्रैति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥
भीष्म उवाच ।
व्यवहारेण शुद्धेन प्रजापालनतत्परः ।
प्राप्य धर्मं च कीर्ति च लोकानाप्नोत्यसौ शुचिः ॥
युधिष्ठिर उवाच ।
कीदृशव्यवहारं तु कैश्च व्यवहरेन्नृपः ।
एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ॥
ये चैव पूर्वकथिता गुणास्ते पुरुषं प्रति ।
नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ॥
भीष्म उवाच ।
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमन् ।
दुर्लभः पुरुषः कश्चिदेभिर्युक्तो गुणैः शुभैः ॥
किंतु संक्षेपतः शीलं प्रयत्नेनेह दुर्लभम् ।
वक्ष्यामि तु यथाऽमात्यान्यादृशांश्च करिष्यसि ॥
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्स्नातकाञ्शुचीन् ।
क्षत्रियान्दश चाष्टौ च बलिनः शस्त्रपाणिनः ॥
वैश्यान्वित्तेन संपन्नानेकविंशतिसङ्ख्यया ।
त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ॥
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं तथा ।
पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ॥
श्रुतिस्मृतिसमायुक्तं विनीतं समदर्शिनम् ।
कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ॥
वर्जितं चैव व्यसनैः सुघोरैः सप्तभिर्भृशम् ।
अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥
ततः संप्रेषयेद्राष्ट्रे राष्ट्रीयाय च दर्शयेत् ।
अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥
न चापि गूढं द्रव्यं ते ग्राह्यं कार्योपघातकम् ।
कार्ये खलु विपन्ने त्वां यो धर्मस्तं च पीडयेत् ॥
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव ।
परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ॥
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः ।
हार्दं भयं संभवति स्वर्गश्चस्य विरुध्यते ॥
अथ यो धर्मतः पाति राजाऽमात्योऽथवाऽऽत्मजः ।
धर्मासने सन्नियुक्तो धर्ममूले नरर्षभ ॥
`स्वर्गं याति महीपालो नियुक्तैः सचिवैः सह ।' कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः ।
आत्मानं पुरतः कृत्वा यान्त्यधः सह पार्थिवाः ॥
बलात्कृतानां वलिभिः कृपणं बहुजल्पताम् ।
नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ॥
ततः साक्षिबलं साधु द्वैधवादकृतं भवेत् ।
असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ॥
अपराधानुरूपं च दण्डं पापेषु धारयेत् ।
वियोजयेद्धनैर्ऋद्धानधनानथ बन्धनैः ॥
विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः ।
सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ॥
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत् ।
आदीपकस्य स्तेनस्य वर्णसंकरिकस्य च ॥
सम्यक्प्रणयतो दण्डं भूमिपस्य विशांपते ।
युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः ॥
कामकारेण दण्डं तु यः कुर्यादविचक्षणः ।
स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति ॥
न परस्य प्रवादेन परेषां दण्डमर्पयेत् ।
आगमानुगमं कृत्वा बध्नीयान्मोक्षयीत वा ॥
न तु हन्यान्नृपो जातु दूतं कस्यांचिदापदि ।
दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ॥
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः ।
यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥
कुलीनः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः ।
यथोक्तवादीस्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ॥
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता ।
शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ॥
धर्मशास्त्रार्थतत्त्वज्ञः सांधिविग्रहिको भवेत् ।
मतिमान्धृतिमान्ह्रीमान्रहस्यविनिगूहिता ॥
कुलीनः सत्वसंपन्नः शुक्लोऽमात्यः प्रशस्यते ।
एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ॥
व्यूहयन्त्रायुधानां च तत्त्वज्ञो विक्रमान्वितः ।
वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ॥
विश्वासयेत्परांश्चैव विश्वसेच्च न कस्यचित् ।
पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ॥
एतच्छास्त्रार्थतत्त्वं तु मयाऽऽख्यातं तवानघ ।
अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

12-85-2 शुद्धेन पक्षपातहीनेन ॥ 12-85-3 व्यवहरेत् निर्णयं कुर्यात् ॥ 12-85-8 पूर्वके नित्ये ॥ 12-85-9 अष्टाभिर्गुणैः शुश्रूषा श्रवणं ग्रहणं धारणमूहनमपोहनं विज्ञानं तत्त्वज्ञानं चेति तैः ॥ 12-85-11 मृगयाक्षाः स्त्रियः पानमिति चतुर्भिः कासजैः । दण्डपातनं वाक्यारुष्यं अर्थदूषणमिति त्रिभिः क्रोधजैरिति सप्तभिः । अष्टानां ब्राह्मणचतुष्टयं शूद्रत्रयं सूतश्चेति तेषाम् ॥ 12-85-12 ते त्वया द्रष्टव्याः ॥ 12-85-13 गूढं न्यासापहारादिकं ते त्वया न ग्राह्यम् ॥ 12-85-14 परिस्रवेत् मन्दं मन्दमन्यत्र गच्छेत् ॥ 12-85-16 धर्ममूले राज्ये ॥ 12-85-10 विशेषतस्तप्तपरशुग्रहणादिनां तत्परीक्ष्यमिति ॥ 12-85-20 वियोजद्धवैर्लुब्धान्दरिद्रान्वधबन्धनैरिति ड. थ. पाठः ॥ 12-85-22 चित्रोऽनेकधा । आदीपकस्य गृहादिदाहकत्य ॥ 12-85-23 युक्तस्य यथाशास्त्रमवहितस्य ॥ 12-85-29 प्रतील्पि द्वारपालः । शिरोरक्षः शिरांसीव शिरांसि दुर्गनगरादीनि प्रधानस्थानानि तद्रक्षणकर्ता ॥ 12-85-31 एतैर्धर्मेत्यादिभिरमात्यगुणैः ॥ 12-85-32 व्यूहः सेनाया निवेशनप्रकारविशेषः । यन्त्राणि धनुरादीनि ॥