अध्यायः 089

युधिष्ठिरंप्रति राजनीतिकथनम् ॥ 1 ॥

भीष्म उवाच ।
वनस्पतीभक्ष्यफलान्न च्छिन्द्युर्विषये तव ।
ब्राह्मणानां मूलफलं धर्ममाहुर्मनीषिणः ॥
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः ।
न ब्राह्मणोपरोधेन हरेदन्यः कथंचन ॥
विप्रश्चेत्त्यागमातिष्ठेदाख्याया वृत्तिकर्शितः ।
परिकल्यास्य वृत्तिः स्यात्सदारस्य नराधिप ॥
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि ।
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ॥
असंशयं निवर्तेत न चेत्त्यक्ष्यत्यतः परम् ।
पूर्वं परोक्षं वक्तव्यमेतत्कौन्तेय शाश्वतम् ॥
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् ।
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या च तदा चरेत् ॥
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् ।
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ॥
तस्यां प्रपतमानायां ये स्युस्तत्परिपन्थिनः ।
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ॥
शत्रूञ्जय प्रजा रक्ष यजस्व क्रतुभिर्नृप ।
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन ॥
संरक्ष्यान्रक्षते राजा स राजा राजसत्तमः ।
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ॥
सदैव राज्ञा योद्धव्यं सर्वलोकाद्युधिष्ठिर ।
तस्याद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ॥
आन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरान्तरान् ।
परान्परेभ्यः स्वान्खेभ्यः सर्वान्पालय नित्यदा ॥
आत्मानं सर्वतो रक्षन्राजन्रक्षस्व मेदिनीम् ।
आत्ममूलमिदं सर्वमाहुर्वै विदुषो जनाः ॥
किं छिद्रं कोनु सङ्गो मे किंवाऽस्त्यविनिपातितम् ।
कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत् ॥
अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः ।
गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत् ॥
जानीत यदि मे वृत्तं प्रशंसन्ति न वा पुनः ।
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे वशः ॥
धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम् ।
राष्ट्रे तु येऽनुजीवन्ति ये तु राज्ञोऽनुजीविनः ॥
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः ।
ये च त्वाऽभिप्रशंसेयुर्निन्देयुरथवा पुनः ॥
सर्वान्सुपरिणीतांस्तान्कारयेथा युधिष्ठिर । एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम् ।
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥
युधिष्ठिर उवाच ।
तुल्यबाहुबलानां च तुल्यानां च गुणैरपि ।
कथं स्यादधिकः कश्चित्स च भुञ्जीत मानवान् ॥
भीष्म उवाच ।
यच्चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा ।
आशीविषा इव क्रुद्धा भुजङ्गान्भुजगा इव ॥
एतेभ्यश्चाप्रमत्तः स्यात्सदा शत्रोर्युधिष्ठिर ।
भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः ॥
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः ।
क्रीणन्तो बहुनाऽल्पेन कान्तारकृतविश्रमाः ॥
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः ।
ये बहन्ति धुरं राज्ञां ते भरन्तीतरानपि ॥
`आलस्येन हृतः पादः पादः पाषण़्डमाश्रितः ।
राजानं सेवते पादः पादः कृषिमुपाश्रितः ॥
एकपादं त्रयः पादा भक्षयन्ति दिनेदिने । तस्मात्सर्वप्रयत्नेन पादं रक्ष युधिष्ठिर ॥ '
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा ।
मानुषोरगरक्षांसि वयांसि पशवस्तथा ॥
एषा ते राष्ट्रवृत्तिश्च राज्ञां गुप्तिश्च भारत ।
प्रोक्तोद्दिश्यैतमेवार्थं भूयो वक्ष्यामि पा--व ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

12-89-1 मूलफलं ब्राह्मणानां स्वमिति धर्ममाहुरतो न च्छिन्द्युः ॥ 12-89-3 त्यागं राष्ट्रस्य ॥ 12-89-6 भोगार्थी चेद्राष्ट्रं त्यजति तदा भोगैरपि निमन्त्र्यः । अवृत्त्या चेतदावृत्त्यापि निमन्त्र्य इत्याह आहुरिति ॥ 12-89-7 ऊर्ध्वं स्वर्गम् ॥ 12-89-11 लोकात् लोकहितार्थं योद्धव्यम् । भयुध्यांखारानिति चार्थः ॥ 12-89-13 विदुषो विद्वांसः ॥ 12-89-14 राज्ञो व्यसगीत्येति शेषः ॥ 12-89-19 सुपरिणीतान् सत्कृतान् 12-89-21 अलवानेप दुर्बलं भुज्जीत तुल्यात्तु आत्मानं रक्षेच्छलेन च तं भुज्जीतेत्युत्तरमाह यदि आदिना ॥ 12-89-22 भारुण्डः गृध्रः ॥