अध्यायः 092

भीष्मेण युधिष्ठिरंप्रति वामदेवसुमनस्संवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत भारत ।
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः ।
महर्षि परिपप्रच्छ वामदेवं तपस्विनम् ॥
धर्मार्थसहितैर्वाक्यैर्भगवन्ननुशाधि माम् ।
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥
तमब्रवीद्धामदेवस्तेजस्वी तपतां वरः ।
हेमवर्णं सुखासीनं ययातिमिव नाहुषम् ॥
वामदेव उवाच ।
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् ।
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिनाम् ॥
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः ।
वृद्ध्यां च कुरुते बृद्धिं स धर्मेण विराजते ॥
अधर्मदर्शी यो राजा बलादेव प्रवर्तते ।
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा ।
सहैव परिवारेण क्षिप्रमेवावसीदति ॥
अर्थानामननुष्ठाता कामचारी विकत्थनः ।
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः ।
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः ।
बुद्धितो मन्त्रतश्चापि सततं वसुधाधिप ॥
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता ।
एतानि शृण्वँल्लभते यशः कीर्ति श्रियं प्रजाः ॥
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः ।
अर्थान्परीक्ष्यारभते स ध्रुवं महदश्नुते ॥
अदाता ह्यनभिस्नेहो दण़्डेनावर्तयन्प्रजाः ।
साहसप्रकृती राजा क्षिप्रमेव विनश्यति ॥
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् ।
अकीर्त्याऽभिसमायुक्तो भूयो नरकमश्नुते ॥
ततो न याचितुर्दातुः शुक्लस्य रसवेदिनः ।
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥
यस्य नास्ति गुरुर्धर्मे न चान्यानपि पृच्छति ।
सुखतन्त्रोऽर्थलाभेषु न चिरं सुखमश्नुते ॥
गुरुप्रधानो धर्मेषु स्वयमर्थानवेक्षिता ।
धर्मप्रधानो लाभेषु स चिरं सुखमश्नुते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वमि राजधर्मपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

12-92-8 उभौ धर्मार्थौ ॥ 12-92-9 असन्तो दुष्टाः ॥ 12-92-13 एतेषु धर्मादिषु ॥