अध्यायः 094

भीष्मेण युधिष्ठिरंप्रति वसुमनसे वामदेवोक्तराजधर्मकथनम् ॥ 1 ॥

वामदेव उवाच ।
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः ।
जघन्यमाहुर्विजयं युद्धेन च नराधिप ॥
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति ।
न हि दुर्बलमूलस्य राज्ञो लाभो विवर्धते ॥
यस्य स्फीतो जनपदः संपन्नप्रियराजकः ।
संतुष्टः पुष्टसचिवो दृढमूलः स पार्थिवः ॥
यस्य योधाः सुसंतुष्टाः स्वनुरक्ताः सुपूजिताः ।
अल्पेनापि स दण्डेन महीं जयति पार्थिवः ॥
`दण्डो हि बलवान्यत्र तत्र साम प्रयुज्यते ।
प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते ॥
त्रयाणां विफलं कर्म यदा पश्येत भूमिपः ।
रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन् ॥
अभिभूतो यदा शत्रुः शत्रुभिर्बलवत्तरैः ।
उपेक्षा तत्र कर्तव्या वध्यता बलिनां बलम् ॥
दुर्बलो हि महीपालो यदा भवति भारत । उपेक्षा तत्र कर्तव्या चतुर्णामविरोधीनि ।
उपायः पञ्चमः सोऽपि सर्वेषां बलवत्तरः ॥
भार्गवेण च गीतानां श्लोकानां कोसलाधिप ।
विज्ञाय तत्वं तत्वज्ञ तत्वतस्तत्करिष्यति ॥
यदि रक्षःपिशाचेन हन्यते यत्रकुत्रचित् ।
उपेक्षा तत्र कर्तव्या वाच्यतां बलिनां बलम् ॥
दुर्बलोऽपि महीपाल शत्रूणां शत्रुमुद्धरेत् ।
पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥
शठानां उचिवानां च म्लेच्छानां च महीपते ।
एष उक्त उपायानामुपेक्षा बलवत्तम ॥
अश्मना नाशयेल्लोहं लोहेनाश्मानमेव तु ।
बिल्वानि वा परैर्बिल्वैर्म्लेच्छैर्म्लेच्छान्प्रसादयेत् ॥
दासानां च प्रदृप्तानामेतदेव हि कारयेत् । चण्डालम्लेच्छजातीनां दण्डेनैव निवारणम् ।
शठानां दुर्विनीतैश्च पूर्वमुक्तं समाचरेत् ॥
अन्त्याः शठाश्च सचिवास्तथा कुब्राह्मणादयः ।
उपायैः पञ्चभिः साध्याश्चतुर्वर्गविरोधिनः ॥
पौरजानपदा यस्य स्वनुरक्ता अपीडिताः ।
राष्ट्रकर्मकरा ह्येते राष्ट्रस्य च विरोधिनः ॥
दुर्विनीता विनीताश्च सर्वे साध्याः प्रयत्नतः । चण्डालम्लेच्छजात्याश्च पाषण्डाश्च विकर्मिणः ।
बलिनश्चाश्रमाश्चैव तथा गायकनर्तकाः ॥'
पौरजानपदा यस्य भूतेषु च दयालवः ।
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः ॥
प्रतापकालमधिकं यदा मन्येत चात्मनः ।
तदा लिप्सेत मेधावी परभूमिधनान्युत ॥
भोगेषूदयमानस्य भूतेषु च दयावतः ।
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः ॥
तक्षेदात्मानमेवं स वनं परशुना यथा ।
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते ॥
नैव द्विषन्तो हीयन्ते राज्ञो नित्यमनिघ्नतः ।
क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते ॥
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः ।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥
नैवमन्येऽवजानन्ति नात्मना परितप्यते ।
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति ॥
इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः ।
उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते ॥
भीष्म उवाच ।
इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः ।
तथा कुर्वंस्त्वमप्येतौ लोकौजेता न संशयः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

12-94-2 नातिदृढे अनतिदृढे ॥ 12-94-4 दण्डेन सैन्येन ॥ 12-94-24 कृत्यशेषेण परकृत्यं कार्स्त्न्येन न समापयेत् । समापिते तु परोऽवमृन्यते स्वस्य च तापो भवतीत्यर्थः ॥ 12-94-26 नृपो वसुमनाः ॥