अध्यायः 095

भीष्मेण युधिष्ठिरंप्रति युद्धधर्मकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि ।
कस्तस्य विजये धर्मो ह्येतं पृष्टो ब्रवीहि मे ॥
भीष्म उवाच ।
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः ।
ब्रूयादहं यो राजेति रक्षिष्यामि च वः सदा ॥
मम धर्मबलिं दत्त किंवा मां प्रतिपत्स्यथ ।
ते चोक्तमागतं तत्र घृणीयुः कुशलं भवेत् ॥
ते चेदक्षत्रियाः सन्तो विरुध्येरन्कथंचन ।
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ॥
अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः ।
त्राणायाप्यसमर्थं तं मन्यमानमतीव च ॥
युधिष्ठिर उवाच ।
अथः यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् ।
कथं संप्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
नासन्नह्यो नाकवचो योद्धव्यः क्षत्रियो रणे ।
एक एकेन भाव्यश्च विसृजेति क्षिपामि च ॥
स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं ततो भवेत् ।
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ॥
स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत् ।
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ॥
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी ।
व्यसने न प्रहर्तव्यं न भीताय जिताय च ॥
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् ।
यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः ॥
`नास्त्येकस्य गजो युद्धे गजश्चेकस्य विद्यते ।
न पदातिर्गजं युध्येन्न गतेन पदातिनम् ॥
हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः । दिव्यास्त्रबलसंपन्नः कामं युध्येत सर्वदा ।
नागे भूमौ समे चैव रथेनाश्वेन वा पुनः ॥
रामरावणयोर्युद्धे हरयो वै पदातयः ।
लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः ॥
रावणस्यान्तकाले च रथेनैन्द्रेण राधवः ।
निजघान दुराचारं रावणं पापकारिणम् ॥
दिव्यास्त्रबलसंपन्ने सर्वमेतद्विधीयते । देवासुरेषु सर्वेषु दृष्टमेतत्पुरातनैः ॥'
[साधूनां तु यदा भेदात्साधुश्चेद्व्यसनी भवेत् ।] निष्प्राणो नाभिहन्तव्यो नानपत्यः कथंचन ।
भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः ।
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहे भवेत् ।
निर्व्रणश्च स भोक्तव्य एष धर्मः सनातनः ॥
तस्माद्धर्मेण योद्धव्यमिति स्वायंभुवोऽब्रवात् ।
सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत् ॥
यो वै जयत्यधर्मेण क्षत्रियो धर्मसंगरः ।
आत्मानमात्मना हन्ति पापो निकृतिजीवनः ॥
कर्म चैतदसाधूनां साधून्योऽसाधुना जयेत् ।
धर्मेण निधनं श्रेयो न जयः पापकर्मणा ॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
मूलानि च प्रशाखाश्च दहन्समधिगच्छते ॥
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति ।
स वर्धमानस्तेनैव पापः पापे प्रसज्जति ॥
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव । अश्रद्दधानश्च भवेद्विनाशमुपगच्छति
स बद्धो वारुणैः पाशैरमर्त्यैरवमन्यते ।
महादृतिरिवाध्मातः स्वकृतेनैव वर्धते ।
ततः समूलो ह्रियते नदीकूलादिव द्रुमा ॥
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्यानि ।
तस्माद्धर्मेण विजयं कोशं लिप्सेत भूमिपः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥

12-95-2 राष्ट्रं परकीयम् ॥ 12-95-5 त्राणायाप्यसमर्थं परं चातीव मन्यमानं क्षत्रियमशस्त्रं ज्ञात्वाऽपरो हीनोऽपि शस्त्रं गृह्णाति ॥ 12-95-11 लिप्तो विवदिग्धः । कर्णी ऋजुः प्रतीपकण्टकः ॥ 12-95-25 महादृतिर्महांश्चर्मकोशः । आध्मातो वायुना पूरितः ॥