अध्यायः 096

भीष्मेण युधिष्ठिरंप्रति राजधर्मकथनम् ॥ 1 ॥

भीष्म उवाच ।
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः ।
अधर्मविजयं लब्ध्वा को नु मन्येत भूमिपः ॥
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च ।
पातयत्येव राजानं महीं च भरतर्षभ ॥
विशीर्णकवचं चैव तवास्मीति च वादिनम् ।
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥
बलेन विजितो यश्च न तं युध्येत भूमिपः ।
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥
नार्वाक्संवत्सरात्कन्या प्रष्टव्या विक्रमाहृता ।
एवमेव धनं सर्वं यच्चान्यत्सहसा हृतम् ॥
न तु वध्ये धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः ।
युञ्जीरन्नप्यनडुहः क्षन्तव्यं वा पुनर्भवेत् ॥
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते ।
नान्यो राजानमभ्यस्येदराजन्यः कथंचन ॥
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा ।
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ॥
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् । अथ चेल्लङ्घयेदेव मर्यादां क्षत्रियब्रुवः ।
असङ्ख्येपतदूर्ध्वं स्यादनादेयश्च संसदि ॥
यस्तु धर्मविलोपेन मर्यादाभेदनेन च ।
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ॥
धर्मलब्धाद्धि विजयाल्लाभः कोऽभ्यधिको भवेत् ॥
सहसा न्याय्यभूतानि क्षिप्रमेव प्रसादयेत् ।
सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥
भुज्यमाना ह्यभोगेन स्वराष्ट्रादभितापिताः ।
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि ।
संतुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन ।
जीवितं ह्यप्यतिच्छिन्नः संत्यजेदेकदा नरः ॥
अल्पेनापि च संयुक्तस्तुष्यते नापराधितः ।
शुद्धं जीवितमेवापि तादृशो बहुमन्यते ॥
यस्य स्फीतो जनपदः संपन्नः प्रियराजकः ।
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसत्तमाः ।
पूजार्हाः पूजिता यस्य स वै लोकविदुच्यते ॥
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः ।
अन्येऽपि चैव विजयं विजिगीषन्ति पार्थिवाः ॥
भूमिवर्जं धनं राजा जित्वा राजन्महाहवे ।
अपि चान्नोषधीः शश्वदाजहार प्रतर्दनः ॥
अग्रिहोत्राग्निशेषं च हविर्भोजनमेव च ।
आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ ।
अन्यत्र श्रोत्रियस्वाच्च तापसार्थाच्च भारत ॥
उच्चावचानि वित्तानि धर्मज्ञानां युधिष्ठिर ।
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ॥
सर्वविद्यातिरेकेण जयमिच्छेन्महीपतिः ।
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥

12-96-4 --णयेद्दासोऽस्मीति वदेति तं शिक्षयेत् । ततः संवत्सरादूध्वरा एवाऽब्रुवन्नपि ततो जातो जेतुः पुत्रएव भवेत् । ततश्च मोक्तव्य इत्यर्थः ॥ 12-96-5 नश्व संवत्सरं कन्याः स्प्रष्टव्याः सहसाहृताः इति ड. पाठः ॥ 12-96-7 अभ्यस्येदभिमुखं शस्त्रं क्षिपेत् ॥ 12-96-9 क्षत्रियब्रुवः क्षत्रियाधमः ॥ 12-96-10 असंख्येयः क्षत्रियेषु न गणनीयः ॥ 12-96-14 अमित्रोपग्रहं तद्वैरिणामानुकूल्यम् । ते बलाद्भुज्यमानाः ॥ 12-96-15 विनिकर्तव्यो निकृत्य वञ्चयितव्यः ॥ 12-96-21 अग्निशेषं यज्ञाङ्गभूतं हविः । भोजनं सिद्धान्नम् । एतन्न हर्तव्यमित्यर्थः । विप्रकृतो वञ्चितः ॥ 12-96-23 राज्ञा सर्वं हर्तव्यमित्यर्थः ॥