अध्यायः 098

भीष्मेण युधिष्ठिरंप्रति सुदेवस्य युद्धेन देवलोकप्राप्तिप्रतिपादकेन्द्राम्बरीषसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
के लोका युध्यमानानां शूराणामनिवर्तिनाम् ।
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अम्बरीपस्य संवादमिन्द्रस्य च युधिष्ठिर ॥
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् ।
ददर्श सुर--कस्थं शक्रेण सचिवैः सह ॥
सर्वतेजोमयं दिव्यं विमानवरमास्थितम् ।
उ---गच्छन्तं स्थानं सेनापतिं शुभम् ॥
स दष्ट्वापरि गच्छन्तं सेनापतिमुदारधीः । `शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः ।'
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥
अम्बरीप उवाच ।
सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि ।
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥
ब्रह्मचर्येण घोरेण गुर्वाचारेण सेवया ।
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा ।
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥
क्षत्रध--स्थितो भूत्वा यथाशास्त्रं यथाविधि ।
उदीक्षमाणः पृतनां जयामि युधि वासव ॥
दे--ज सुदेवोऽयं मम सेनापतिः पुरा । आसाद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ।
विमानं सूर्यसङ्काशमास्थितो मोदते दिवि ॥
अनेन ऋतुभिर्मुख्यैर्नेष्टं नापि द्विजातयः ।
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीत्य माम् ॥
ऐश्वर्यमीदृशं प्राप्तः सर्वदेवैः सुदुर्लभम् ।
इन्द्र उवाच ।
`यदनेन कृतं कर्म प्रत्यक्षं ते महीपते ।
पुरा पालयतः सम्यक्पृथिवीं धर्मतो नृप ॥
शत्रवो निर्जिताः सर्वे ये तवाहितकारिणः ।
संयमो वियमश्चैव सुयमश्च नहाबलः ॥
राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः ।
पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः ॥
तथा तस्मिञ्शुभे काले तव यज्ञं वितन्वतः ।
अश्वमेधं महायागं देवानां हितकाम्यया ॥
तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः । कोटीशतपरीवारां राक्षसानां महाचमूम् ।
परिगृह्य ततः सर्वाः प्रजा वन्दीकृतास्तव ॥
विह्वलाश्च प्रजाः सर्वाः सर्वे च तव सैनिकाः ।
निराकृतस्तु यच्चासीत्सुदेवः सैन्यनायकः ॥
तत्रामात्यवचः श्रुत्वा निरस्तः सर्वकर्मसु ।
श्रुत्वा तेषां वचो भूयः सोपधं वसुधाधिपः ॥
सर्वसैन्यसमायुक्तः सुदेवः प्रेरितस्त्वया ।
साक्षसानां वधार्थाय दुर्जयानां नराधिप ॥
नाजित्वा राक्षसीं सेनां पुनरागमनं तव ।
बन्दीमोक्षमकृत्वा च न चागमनमिष्यते ॥
सुदेवस्तद्वचः श्रुत्वा प्रस्थानमकरोन्नृप ।
संप्राप्तश्च स तं देशं यत्र बन्दीकृताः प्रजाः ॥
पश्यति स्म महाघोरां राक्षसानां महाचमूम् ।
दृष्ट्वा सुचिन्तयामास सुदेवो वाहिनीपतिः ॥
नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः । नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः ।
दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः ॥
ततः सेनां पुनः सर्वां प्रेषयामास पार्थिव ।
यत्र त्वं सचिवैः सर्वैर्मन्त्रिभिः सोपधैर्नृप ॥
ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम् ।
श्मशाननिलयं देवं तुष्टाव वृषभध्वजम् ॥
स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः ॥
कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः ।
स पाणिः सह शस्त्रेण दृष्ट्वा चेदमुवाच ह ॥
किमिदं साहसं पुत्र कुर्तकामो वदस्व मे ।
स उवाच महादेवं शिरसा त्ववनीं गतः ॥
भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर । अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम् ।
गतिर्भव महादेव ममार्तस्य जगत्पते ॥
नागन्तव्यमजित्वा च मामाह जगतीपतिः ।
अम्बरीषो महादेव क्षारितः सचिवैः सह ॥
तमुवाच महादेवः सुदेवं पतितं क्षितौ ।
अधोमुखं महात्मानं सत्वानां हितकाम्यया ॥
धनुर्वेदं समाहूय सगणं सहविग्रहम् ।
रथनागाश्वकलिलं दिव्यास्त्रसमलंकृतम् ॥
रथं च सुमहाभागं येन तन्त्रिपुरं हतम् । धनुः पिनाकं खङ्गं च रौद्रमस्त्रं च शंकरः ।
निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः ॥
उवाच च महादेवः सुदेवं वाहिनीपतिम् ।
रथादस्मात्सुदेव त्वं दुर्जयः स सुरासुरैः ॥
मायया मोहितो भूमौ न पदं कर्तुमर्हसि ।
रथस्थस्त्रिदशान्सर्वाञ्जेष्यसि त्वं सदानवान् ॥
राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम् ।
रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह ॥
स जित्वा राक्षसान्सर्वान्कृत्वा बन्दीविमोक्षणम् । घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः ।
वियमं प्राप्य भूपाल वियमश्च निपातितः ॥'
तस्य विक्रमतस्तात सुदेवस्य बभूव ह ।
संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥
सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् ।
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥
अम्बरीष उवाच ।
कानि यज्ञे हवींष्यस्मिन्किमाज्यं का च दक्षिणा ।
ऋत्विजश्चात्र क्रे प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥
इन्द्र उवाच ।
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा ।
हवींषि परमांसानि रुधिरं त्वाज्यमुच्यते ॥
शृगालगृध्रकाकोलाः सदस्यास्तत्र पन्त्रिणः ।
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥
प्रासतोमरसंघाताः खङ्गशक्तिपरश्वथाः ।
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥
चापवेगायतस्तीक्ष्णः परकायावभेदनः ।
ऋजुः सुनिशितः पीतः सायकश्च स्रुवो म-- ॥
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः ।
हस्तिहस्तहरः खङ्गः स्फयो भवेत्तस्य संयुगे ॥
ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वथैः ।
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥
[सङ्ख्यासमयविस्तीर्णमभिजातोद्भवं बहु ।] आवेधाद्यच्च रुधिरं संग्रामे स्रवते भुवि ।
साऽस्य पूर्णाहुतिर्होत्रैः समृद्धा सर्वकामधुक् ॥
छिन्धि भिन्धीति यः शब्दः श्रूयते वाहिनीमुखे ।
सामानि सामगास्तस्य गायन्ति यमसादने ॥
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् ॥
कुञ्जराणां हयानां च वर्मिणां च समुच्चय ।
अग्निः श्येनचितो नाम यज्ञे तस्य विधीयते ॥
उत्तिष्ठते कबन्धोऽत्र सहस्रे पतिते तु यः ।
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥
इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः ।
ज्याघुष्टतलतालेन वषट््कारेण पार्थिव ॥
उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिर्नृप । ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धे प्रियां तनुम् ।
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥
भर्तुरर्थे च यः शूरो निष्क्रामेद्वाहिनीमुखात् ।
न भयाद्विनिवर्तेत तस्य लोका यथा मम ॥
द्वीपिचर्मावृतैः खङ्गैर्बाहुभिः परिघोपमैः ।
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥
यस्तु नापेक्षते कंचित्सहायं विषमे स्थितः ।
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥
यस्य शोणितसंघट्टा भेरीमण्डूककच्छपा ।
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥
असिचर्मप्लवा घोरा केशशैवलशाद्वला ।
अश्वनागरथैश्चैव संछिन्नैः कृतसंक्रमा ॥
पताकाध्वजवानीरा हतवाहनवारणा ।
शोणितोदकसंपूर्णा दुस्तरा पारगैर्नरैः ॥
रहतनागमहानक्रा परलोकवहाऽशिवा ।
ऋष्टिखङ्गमहामीना गृध्रकङ्कबलप्लवा ॥
पुरुषादानुचरिता भीरूणां कश्मलावहा ।
नदी योधस्य संग्रामे तदस्यावभृथं नृप ॥
वेदिर्यस्य त्वमित्राणां शिरोभिर्व्यवकीर्यते ।
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥
पत्नी शालाकृता यस्य परेषां वाहिनीमुखम् ।
हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः ॥
सदस्या दक्षिणा योधा आग्नीध्रश्चोत्तरां दिशम् ।
शत्रुसेना अलत्रस्य सर्वलोकानदूरतः ॥
यस्य भयतो व्यूहे भवत्याकाशमग्रतः ।
सास्य वेदिस्तदा यज्ञैर्नित्यं व्यूहास्त्रयोऽग्नयः ॥
यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः ।
अप्रतिष्ठः स नरकं याति नास्त्यत्र संशयः ॥
यस्य शोणितवेगेण वेदिः स्यात्संपरिप्लुता ।
केशमांसास्थिसंपूर्णा स गच्छेत्परमां गतिम् ॥
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ।
स विष्णुविक्रमक्रामी बृहस्पतिसमः प्रभुः ॥
नायकं तत्कुमारं वा यो वा स्यात्तत्र पूजितः ।
जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम ॥
आहवे तु हतं शूरं न शोचेत कथंचन ।
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् ।
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥
वराप्सरः सहस्राणि शूरमत्योधने हतम् ।
त्वरमाणानि धावन्ति मम भर्ता भवेदिति ॥
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ।
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥
वृद्धबालौ न हन्तव्यौ न च स्त्री नैव पृष्ठतः ।
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥
अहं वृत्रं बलं पाकं महाकायं विरोचनम् ।
दुरावारं च नमुचिं शतमायं च शम्बरम् ॥
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः ।
प्रह्वादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥
इत्येतच्छक्रवचनं निशम्य प्रतिपूज्य च ।
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥

12-98-3 नाभागिः नाभागपुत्रः ॥ 12-98-38 यश्चान्योऽक्षत्रियोऽपि युध्यते नरस्तस्याप्ययं च यज्ञोऽस्ति ॥ 12-98-43 पीताः क्षारपानीयेन संभाविताः ॥ 12-98-45 स्फ्यः यागीयोपकरणविशेषः ॥ 12-98-46 शैक्यायसमयैः सर्वलोहमयैः । वसु यत्किंचिद्यज्ञियं द्रव्यम् ॥ 12-98-49 हविधानं हविषः स्थाप नस्थलम् ॥ 12-98-64 सदस्योत्तरयोधाग्निराग्नीध्रस्योत्तराथ दिक् । इति द. पाठः ॥ 12-98-68 बृहस्पतिसवः क्रतुः इति ड.द. पाठः ॥ 12-98-69 नायकं वा प्रमाणं वेति ड.द.पाठः ॥