अध्यायः 099

भीष्मेण युधिष्ठिरंप्रति जनकराजेन स्वयोधानां स्वर्गनरकप्रदर्शनेय युद्धे प्रोत्साहनकथनम् ॥ 1 ॥

भीष्म उवाच ।
अत्राप्युदाहरन्तीम-तिहासं पुरातनम् ।
प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः ॥
यज्ञोपवीती संग्रामे जनको मिथिलाधिपः ।
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर ॥
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् ।
योधानां दर्शयामास स्वर्गं नरकमेव च ॥
अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत ।
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ॥
इमे पलायमानानां नरकाः प्रत्युपस्थिताः ।
अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम् ॥
तान्दृष्ट्वाऽरीन्विजयत भूत्वा संत्यागबुद्धयः ।
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ॥
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् ।
इत्युक्तास्ते नृपतिना योधाः परपुरंजय ॥
अजयन्त रणे शत्रून्हर्षयन्तो नरेश्वरम् ।
तस्मात्त्यक्तात्मना नित्यं स्थातव्यं रणमूर्धनि ॥
गजानां रथिनो मध्ये रथानामनुसादिनः ।
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम् ॥
य एवं व्यूहते राजा स नित्यं जयते रिपून् ।
तस्मदितद्विधातव्यं नित्यमेव युधिष्ठिर ॥
स्वर्गे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः ।
क्षोभयेयुरनीकानि सागरं मकरा यथा ॥
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् ।
तेषां च भूमिं रक्षेयुर्भग्नान्नात्यनुसारयेत् ॥
पुनरावर्तमानानां निराशानां च जीविते ।
वेगः सुदुःसहो राजंस्तस्मान्नात्यनुसारयेत् ॥
न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भयात् ।
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ॥
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि ।
अपाणयः पाणिमतामन्नं शूरस्य कातराः ॥
समानपृष्ठोदरपाणिपादाः पश्चाच्छरं भीरवोऽनुव्रजन्ति ।
अतो भयार्ताः प्रणिपत्य भूयः कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ॥
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सद ।
तस्मात्सर्वेषु लोकेषु शूरः संमानमर्हति ॥
न हि शौर्यात्परं किंचिन्त्रिषु लोकेषु विद्यते ।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

12-99-1 अत्र शूरप्रोत्साहने विषये ॥ 12-99-3 दर्शयामास योगबलेन ॥ 12-99-5 पतितव्यमनन्तरमिति ड. द. पाठः ॥ 12-99-9 गजानां मध्ये रथिनः स्थाप्याः ॥ 12-99-12 नात्यनुसारेयातिद्रावयेत् परावृत्तिभयात् ॥ 12-99-13 तदेवाह पुनरिति ॥