अध्यायः 102
					 भीष्मेण युधिष्ठिरंप्रति सेनाया जयचिह्नानां राजनीतेश्च कथनम् ॥ 1 ॥ 
					
					
						जयिन्याः कानि रूपाणि भवन्ति भरतर्षभ ।
						पृतनायाः प्रशस्तानि तानि चेच्छामि वेदितुम् ॥
						भीष्म उवाच । 
					 
					
						जयिन्या यानि रूपाणि भवन्ति भरतर्षभ ।
						पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ॥
					 
					
						दैवे पूर्वं प्रकुपिते मानुषे कालचोदिते ।
						तद्विद्व अऽनुपस्यन्ति ज्ञानदीर्घेण चक्षुषा ॥
					 
					
						प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः ।
						मङ्गल नि च कुर्वन्ति शमयन्त्यहितानि च ॥
					 
					
						उदीणानसो योधा वाहनानि च भारत ।
						यस्यां भवन्ति सेनायां ध्रुवं तस्या जयो भवेत् ॥
					 
					
						अन्वेव वायवो यान्ति तथैवेन्द्रधनूंषि च ।
						अनुप्लवन्ते मेघाश्च तथाऽऽदित्यस्य रश्मयः ॥
					 
					
						गोमायवश्चातुलोमबला गृध्राश्च सर्वशः ।
						अर्हयेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ॥
					 
					
						प्रसन्नभाः पावकश्चोर्ध्वरश्मिः
							प्रदक्षिणावर्तशिखो विधूमः ।
						
						पुण्या गन्धाश्चाहुतीनां भवन्ति
							जयस्यैतद्भाविनो रूपमाहुः ॥
						
					 
					
						गम्भीरशब्दाश्च महास्वनाश्च
							शङ्ख्याश्च भेर्यश्च नदन्ति यत्र ।
						
						युयुत्सवश्चाप्रतीपा भवन्ति
							जयस्यैतद्भाविनो रूपमाहुः ॥
						
					 
					
						इष्टा मृगाः पृष्ठतो वामतश्च
							संप्रस्थितानां च गमिष्यतां च ।
						
						जिघांसतां दक्षिणाः सिद्धिमाहु
							र्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥
						
					 
					
						माङ्गल्यशब्दाञ्शकुना वदन्ति
							हंसाः क्रौञ्चाः शतपत्राश्च चाषाः ।
						
						हृष्टा योधाः सत्ववन्तो भवन्ति
							जयस्यैतद्भाविनो रूपमाहुः ॥
						
					 
					
						शस्त्रैर्यन्त्रैः कवचैः केतुभिश्च
							सुभानुभिर्मुखवर्णैश्च यूनाम् ।
						
						भ्राजिष्मती दुष्प्रतिवीक्षणीया
							येषां चमूस्तेऽभिभवन्ति शत्रून् ॥
						
					 
					
						शुश्रूषवश्चानभिमानिनश्च
							परस्परं सौहृदमास्थिताश्च ।
						
						येषां योधाः शौर्यमनुष्ठिताश्च
							जयस्यैतद्भाविनो रुपमाहुः ॥
						
					 
					
						शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनः प्रियाः ।
						धैर्यं चाविशते योधान्विजयस्य मुखं च तत् ॥
					 
					
						शब्दो वामः प्रस्थितस्य दक्षिणः प्रविविक्षतः ।
						पश्चात्संसाधयत्यर्थं पुरस्ताच्च निषेधति ॥
					 
					
						संहत्य महतीं सेनां चतुरङ्गां युधिष्ठिर ।
						साम्नैव वर्तयेः पूर्वं प्रसतेथास्ततो युधि ॥
					 
					
						जघन्य एष विजयो यद्युद्धे सामभाषणम् ।
						यादृच्छिको युधि जयो दैवेनेति विचारणम् ॥
					 
					
						आपगेव महावेगा त्रस्ता इव महामृगाः ।
						दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ॥
					 
					
						भग्ना इत्येव भज्यन्ते विद्वांसोऽपि न कारणम् ।
						उदारसारा महती रुरुसंघोपमा चमूः ॥
					 
					
						परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः ।
						अपि पञ्चत्रतै शूरा निघ्नन्ति परवाहिनीम् ॥
					 
					
						अपि वा पञ्चषट््सप्तसंहिताः कृतनिश्चयाः ।
						क्ललीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ॥
					 
					
						सन्निपातो न मन्तव्यः शक्ये सति कथंचन ।
						सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ॥
					 
					
						संसर्पेण हि सेनाया भयं भीरून्प्रबाधते ।
						वज्रादिय प्रज्वलितादियं स्वित्क्षपयिष्यति ॥
					 
					
						अमिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ ।
						तेषां सन्दन्ति गात्राणि योधानां विवयस्य च ॥
					 
					
						विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः ।
						अस्त्रप्रतापतप्तानां मज्जाः सीदन्ति देहिनाम् ॥
					 
					
						तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः ।
						संपीड्यमाना हि परैर्योगमायान्ति सर्वतः ॥
					 
					
						आन्तराणां च भेदार्थं चरानभ्यवचारयेत् ।
						यश्च तस्मात्परो राजा तेन संधिः प्रशस्यते ॥
					 
					
						न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा ।
						यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ॥
					 
					
						क्षमा वै साधुमायाति न ह्यसाधून्क्षमा सदा ।
						क्षमायाश्चाक्षमायाश्च पार्थ विद्धि प्रयोजनम् ॥
					 
					
						विजित्य क्षममाणस्य यशो राज्ञो विवर्धते ।
						महापराधे ह्यप्यस्मिन्विश्वसन्त्यपि शत्रवः ॥
					 
					
						मन्यन्ते कर्षयित्वा तु क्षमा साध्वीति शाम्बराः ।
						असंतप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ॥
					 
					
						नैतत्प्रशंसन्त्याचार्या न चैतत्साधु दर्शनम् ।
						अक्रोधेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ॥
					 
					
						द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर ।
						मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ॥
					 
					
						प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।
						प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥
					 
					
						न मे प्रिया ये स्म हताः संप्रहृष्टाः परेऽपि च ।
						न च कत्थनमेवाग्र्यमुच्यमानं पुनः पुनः ॥
					 
					
						अहो जीवितमाकाङ्क्षेन्नेदृशो वधमर्हति ।
						सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः ॥
					 
					
						कृतं ममाप्रियं तेन येनायं निहतो मृधे ।
						इति वाचा वदन्हन्तृन्पूजयेत रहोगतः ॥
					 
					
						हन्तॄणां च हतानां च पूजां कुर्याद्यथार्थतः ।
						क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम् ॥
					 
					
						एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरेत् ।
						प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ॥
					 
					
						विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत ।
						विश्वस्तः शक्यते भोक्तुं यथाकालं समुत्थितः ॥
					 
					
						तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया ।
						सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥ 
					 12-102-15 शब्दः काकस्येति शेषः ॥ 12-102-22 सन्निपातो
						युद्धम् ॥ 12-102-24 सन्निति युद्धम् । स्यन्दन्ति स्तिद्यन्ति ॥ 12-102-25
						विधयो देशः ॥ 12-102-26 योगं सम्विम् ॥ 12-102-27 आन्तराणां शत्रोः सद्धीनाम् ।
						तस्माच्छत्रोः परः श्रेष्ठस्तेन सन्धिं च कुर्यात् ॥ 12-102-29 क्षमा वै
						साध्वमायानां नहि साधु सदा क्षमा इति ड. थ. पाठः ॥ 12-102-30 अस्मिन्क्षमावति ॥ 12-102-31 असंताप्य ऋजूकृतं वंशादि पुनर्वक्रीभवत्यर्थः शत्रुं संताप्य क्षमां
						कुर्यादिति शम्बरस्य दैत्यस्य मतम् ॥ 12-102-32 स्वमतमाह नैतदिति ॥ 12-102-40
						विस्वस्तो जनः ॥