अध्यायः 104

भीष्मेण युधिष्ठिरंप्रति कौसल्यकालकवृक्षीयसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः ।
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् ॥
भीष्म उवाच ।
अत्रायं क्षेमदर्शीय इतिहासोऽनुगीयते ।
तत्तेऽह संप्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥
क्षेमदर्शी नृपसुतो यत्र क्षीणबलः पुरा । मुनिं कालकवृक्षीयमाजमामेति नः श्रुतम् ।
तं पप्रच्छानुसंगृह्य कृच्छ्रामापदमास्थितः ॥
अर्थेषु मागी पुरुष ईहमानः पुनः पुनः ।
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति ॥
अन्यत्र मरणाद्दैन्यादन्यत्र परसंश्रयात् ।
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम ॥
व्याधिनां चाभिपन्नस्य मानसेनेतरेण वा ।
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् ॥
निर्विद्य हि नरः कामान्नियम्य सुखमेधते ।
त्वक्त्वा प्रीतिं च शोकं च लब्ध्वा बुद्धिमयं वसु ॥
सुखमर्थाश्रयं येषामनुशोचामि तानहम् ।
मम ह्यर्थाः सुबहवो नष्टाः स्वप्नगता इव ॥
दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये ।
वयं त्वेतान्परित्यक्तुमसतोऽपि न शक्नुमः ॥
इमामवस्थां संप्राप्तं दीनमार्तं श्रिया च्युतम् ।
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् ॥
कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता ।
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः ॥
पुरस्तादेव ते बुद्धिरियं कार्या विजानतः ।
अनित्यं सर्वमेवैतदहं च मम चास्ति यत् ॥
यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् ।
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः ॥
यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति ।
एवं विदितवेद्यस्त्वमनर्थेभ्यः प्रमोक्ष्यसे ॥
ये च पूर्वसमारम्भा ये च पूर्वतरे परे ।
सर्वं नास्तीति ते चैव तज्ज्ञात्वा को नु संज्वरेत् ॥
भूत्वा च न भवत्येतदभूत्वा च भविष्यति ।
शोके न ह्यस्ति सामर्थ्यं शोचेत स कथं नरः ॥
क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहः ।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि वा ॥
आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि ।
बुद्ध्या चैवानुबुद्ध्यस्व ध्रुवं हि न च विद्यते ॥
अहं च त्वं च नृपते सुहृदः शत्रवश्च ते ।
अवश्यं न भविष्यामः सर्वं च न भविष्यति ॥
ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः ।
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् ॥
अपि चेन्महतो वित्तान्न प्रमुच्यते पूरुषः ।
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः ॥
अनागतं यन्न ममेति विद्या दतिक्रान्तं यन्न ममेति विद्यात् ।
दिष्टं बलीय इति मन्यमाना स्ते पण्डितास्तत्सतां वृत्तिमाहुः ॥
अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते ।
बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः ॥
न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः ।
किं न त्वं तैर्नरैः श्रेयांस्तुल्यो वा बुद्धिपौरुषैः ॥
राजोवाच ।
यादृच्छिकं सर्वमासीत्तद्राज्यमिति चिन्तये ।
ह्रियते सर्वमेवेदं कालेन महता द्विज ॥
तस्यैव ह्रियमाणस्य स्रोतसेव तपोधन ।
फलमेतत्प्रपश्यामि यथालब्धेन वर्तयन् ॥
मुनिरुवाच ।
अनागतमतीतं च याथातथ्यविनिश्चयात् ।
नानुशोचेत कौसल्य सर्वार्थेषु तथा भव ॥
अवाप्यान्कामयन्नर्थान्नानवाप्यान्कदाचन ।
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् ॥
यथालब्धोपपन्नार्थैस्तथा कौसल्य रंस्यसे ।
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि ॥
पुरस्ताद्भूतपूर्वत्वाद्धीनभोग्यो हि दुर्मतिः ।
धातारं गर्हते नित्यं लब्धार्थश्च न मृष्यते ॥
अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् ।
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते ॥
ईर्ष्याभिमानसंपन्ना राजन्पुरुषमानिनः ।
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप ॥
सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा । अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते नराः ।
अभिनिष्यन्दते देही श्रीभूतश्च द्विषज्जनात् ॥
श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः ।
त्यागधर्मविदो धीराः स्वयमेव त्यजन्त्युत ॥
`त्यक्तं स्वायंभुवे वंशे शुभेन भरतेन च ।
नानारत्नसमाकीर्णं राज्यं स्फीतमिति श्रुतम् ॥
तथाऽन्यैर्भूमिपालैश्च त्यक्तं राज्यं महोदयम् । त्यक्त्वा राज्यानि ते सर्वे वने वन्यफलाशिनः ।
गताश्च तपसः पारं दुःखस्यान्तं च भूमिपा ॥
बहुसंकुसुकं दृष्ट्वा विधित्सासाधनेन च ।
तथान्ये संत्यजन्त्येव मत्वा परमदुर्लभम् ॥
त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे ।
अकाम्यान्कामयानोऽर्थान्पराधीनानुपद्रवान् ॥
तां बुद्धिमनुविज्ञाय त्वमेवैनान्परित्यज ।
अनर्थाश्चार्थरूपेण ह्यर्थाश्चानर्थरूपिणः ॥
अर्थायैव हि केषांचिद्धननाशा भवन्त्युत ।
अनित्यं तत्सुखं मत्वा श्रियमन्ये न लिप्सते ॥
रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते ।
तथा तस्येहमानस्य संरम्भोऽपि विनश्यति ॥
कृच्छ्राल्लब्धमभिप्रेतं यथा कौसल्य नश्यति ।
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः ॥
`अनित्यां तां श्रियं मत्वा श्रियं वा कः परीप्सति ॥'
धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः ।
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् ॥
जीवितं संत्यजन्त्येके धनलोभपरा नराः ।
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते ॥
पश्य चैषां कृपणतां पश्य चैषामबुद्धिताम् ।
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः ॥
संचये च विनाशान्ते मरणान्ते च जीविते ।
संयोगे च वियोगान्ते कोनु विप्रणयेन्मनः ॥
धनं वा पुरुषो राजन्पुरुषं वा पुनर्धनम् ।
अवश्यं प्रजहात्येव तद्विद्वान्कोनु संज्वरेत् ॥
अन्यत्रोपनता ह्यापत्पुरुषं तोषयत्युत । तेन शान्तिं न लभते नाहमेवेति कारणात् ॥'
अन्येषामपि नश्यन्ति सुहृदश्च धनानि च । पश्य बुद्ध्या मनुष्याणां तुल्यामापदमात्मनः ।
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनस्तथा ॥
प्रतिषेद्धा न चाप्येषु दुर्बलेष्वहितेषु च ॥
प्राप्तिसृष्टेषु भावेषु व्यपकृष्टेष्वसंभवे ।
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति ॥
अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंस्थितः ।
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति ॥
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् ॥
अपि मूलफलाहारो रमस्वैको महावने ।
वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः ॥
सदृशं पण्डितस्यैतदीषादन्तेन हस्तिना ।
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति ॥
महाह्रदः संक्षुभित आत्मनैव प्रसीदति । `एवं नरः स्वत्मानैव कृतप्रज्ञः प्रसीदति ॥'
एतदेवं गतस्याहं सुखं पश्यामि केवलम् । असंभवे श्रियो राजन्हीनस्य सचिवादिभिः ।
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥

12-104-4 भागी भागार्हः । ईहमानो यतमानः ॥ 12-104-6 इतरेण शारीरेण ॥ 12-104-7 निर्विद्य विरज्य । कामाद्विषयभोगात् । बुद्धिमयं वसु ज्ञानरूपं धनम् ॥ 12-104-12 इयं निर्विद्यतीति श्लोकेन त्वया प्रोक्ता । अहं च यच्च ममाऽस्त्येतत्सर्वमनित्यमिति जानतस्ते त्वया ॥ 12-104-13 नास्ति तुच्छत्वात् ॥ 12-104-22 तन्निर्ममत्वम् ॥ 12-104-25 यादृच्छिकमयत्नादागतम् ॥ 12-104-26 एतच्छोकाख्यं फलं यथालब्धेन वर्तयन् जीवन्नपि पश्यामि । यादृच्छिकस्य नाशेन जीवनालोपेऽपि शोको न नश्यतीत्यर्थः ॥ 12-104-30 न मृष्यते तैर्न संतुष्यति ॥ 12-104-33 अन्यत्र शत्रौ । कुशला निर्मत्सराः । अभिनिष्यदन्ते प्रस्रवति ॥ 12-104-37 विधित्सा क्रियाणामनुपरमस्तेन साधनेन च संकुसुकमस्थिरम् ॥ 12-104-38 उपद्रवानस्थिरान् ॥ 12-104-39 अर्थरूपेण भासमानाः ॥ 12-104-40 आद्यस्योदाहरणं अर्थायेति ॥ 12-104-41 द्वितीयस्योदाहरण रममाण इति ॥ 12-104-42 परिभग्नकमो नष्टारम्भः ॥ 12-104-47 विप्रणयेद्दद्यात् ॥ 12-104-50 नियम्य सर्वं सङ्गं च इति ट. ड. पाठः ॥ 12-104-52 प्रतिकृष्टेषु भाग्येषु व्यपकृष्टेषु संभवे इति ट.थ. पाठः ॥