अध्यायः 111

भीष्मेण युधिष्ठिरंप्रति परीक्षायाः सौम्यासौम्यत्वनिर्धारणसाधनताप्रतिपादकव्याघ्रगोमायुचरितकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
असौम्याः सौम्यरूपेण सौम्याश्चासौम्यरूपिणः ।
तादृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ॥
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः ।
पररिंसापरः क्रूरो बभूव पुरुषाधमः ॥
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् ।
गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा ॥
संस्मृत्य पूर्वजातिं स्वां निर्वेदं परमं गतः ।
न भक्षयन्ति मांसानि परैरुपहृतान्यपि ॥
अहिंसा सर्वभूतेषु सत्यवाक् सुदृढव्रतः ।
चकार च यथाकालमाहारं पतितैः फलैः ॥
`पर्णहारः कदाचिच्च नियमव्रतवानपि । कदा चदुदकेनापि वर्तयन्न तु यन्त्रितः ॥'
श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् ।
जन्मभूम्यनुरोधाच्च नान्यं वा समरोचयत् ॥
तस्य शौचममृष्यन्तस्ते सर्वे सहजातयः ।
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥
वसन्पितृवने रौद्रे शौचं लम्भितुमिच्छसि ।
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥
तत्समानो भवात्समाभिर्भक्ष्यं दास्यामहे वयम् ।
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥
इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः ।
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥
अप्रमाणा प्रसूतिर्मे शीलतः क्रियते कुलम् ।
प्रार्थयामि च तत्कर्म येन विस्तीर्यते यशः ॥
श्मशाने यदि मे वासः समाधिर्मे निशाम्यताम् ।
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥
आश्रमे यो द्विजं हन्याद्दानं दद्यादनाश्रमे ।
किंतु तत्पातकं न स्यात्तद्वा दानं वृथा भवेत् ॥
भवन्तः स्वार्थलोभेन केवलं भक्षणे रताः ।
अनुबन्धेषु ये दोषास्तान्न पश्यन्ति मोहिताः ॥
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् ।
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः ।
कृत्वाऽऽत्मसदृशीं पूजां साचिव्येऽवरयत्स्वयम् ॥
शार्दूल उवाच ।
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह ।
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥
तीक्ष्णा इति वयं ख्याता भवन्तं ज्ञापयामहे ।
मृदुपूर्वं प्रशाधि त्वं श्रेयश्चाधिगमिष्यसि ॥
भीष्म उवाच ।
अथं संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः ।
गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः ॥
सदृशं मृगराजैतत्तव वाक्यं मदन्तरे ।
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥
न शक्यं ह्यनमात्येन महत्त्वमनुशासितुम् ।
दुष्टामात्येन वा वीर शरीरपरिपन्थिना ॥
सहायाननुरक्तांश्च नयज्ञानुपसंहितान् ।
परस्परमसंतुष्टान्विजिगीषूनलोलुपात् ॥
अनतीतोपदान्प्राज्ञान्हिते युक्तान्मनस्विनः ।
पूजयेथा महाभाग यथा भ्रातृन्यथा पितॄन् ॥
न त्वेव मम संतोषाद्रोचतेऽन्यन्मृगाधिप ।
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥
न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः ।
ते त्यां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥
संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् ।
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ॥
दीर्घदर्शी महोत्साहः स्थूललक्षो महाबलः ।
कृते चामोघकर्ताऽसि भाग्यैश्च समलंकृतः ॥
किंतु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता ।
सेवायां चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥
प्राज्ञोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् ।
वनचर्या तु निःसङ्गा निर्भया विरवग्रहा ॥
नृपेण हियमाणस्य यत्तिष्ठति भयं हृदि ।
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥
पानीयं वा निरायासं स्वाद्वन्नं वा गुणोत्तरम् ।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृत्तिः ॥
अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः ।
अपजातैर्यथा भृत्या दूषिताः निधनं गताः ॥
यदि वा तन्ममा कार्यं मृगेन्द्र यदि मन्यसे ।
समयं कृतमिच्छामि वर्तितव्यं यथाविधि ॥
मदीया माननीयास्ते श्रोतव्यं च हितं वचः ।
कल्पिता या च मे वृत्तिः सा भवेत्त्वयि सुस्थिरा ॥
न ------- सचिवैः सह कर्हिचित् ।
तीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥
एक एकेन संगम्य रहो ब्रूयां हितं वचः ।
नच ते शातिकार्येषु प्रष्टत्र्योऽस्मि हिताहिते ॥
--- --- पश्चाच्च न हिंस्याः सचिवास्त्वया ।
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ॥
भीष्म उवाच ।
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः ।
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रचोदितः ॥
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मसु ।
प्राद्विषन्कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः ॥
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च ।
दोषेषु समयान्नेतुमिच्छन्त्यशुभबुद्धयः ॥
अन्यथा ह्युषिताः पूर्वं परद्रव्यापहारिणः ।
अशक्ताः किंचिदाहर्तुं द्रव्यं गोमायुयन्त्रिताः ॥
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रतिलोभ्यते ।
धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥
न चापि स महाप्राज्ञस्तस्माद्वैर्याच्चचाल ह ।
अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥
ईप्सितं तु मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् ।
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥
यदर्थं चाप्यपहृतं येन तच्चैव मन्त्रितम् ।
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता । नोपघातस्त्वया कार्यो राजन्मैत्रीमिहेच्छता
`इति तस्य च मन्त्रस्य स्थित्यर्थं तदुपेक्षितम् ॥
[क्षुधितस्य मृगेन्द्रस्य भोक्तुमभ्युत्थितस्य च] भोजने चोपहर्तव्ये तन्मांसं नह्यदृश्यत ।
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥
कृतकैश्चापि तन्मांसं मृगेन्द्राय निवेदितम् ।
सचिवेनापनीतं ते विदुषा प्राज्ञमानिना ॥
सरोषस्त्वध शार्दूलः श्रुत्वा गोमायुचापलम् ।
बभूवामर्षितो राजा वधं चास्य व्यरोचयत् ॥
छिद्रं तु तस्य तदृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः । सर्वेषामेव सोऽस्माकं वृत्तिभङ्गे प्रवर्तते ।
निश्चित्यैवं पुनस्तस्य ते तत्कर्मण्यवर्तयन् ॥
इदं तस्येदृशं कर्म किं तेन न कृतं भवेत् ।
श्रुतश्च स्वामिना पूर्वं यादृशो नैव तादृशः ॥
वाङ्भात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः ।
धर्मच्छझा ह्ययं पापो वृथाचारपरिग्रहः ॥
कार्यार्थं भोजनाद्येषु व्रतेषु कृतवाञ्श्रमम् ।
यदि विप्रत्ययो ह्येष तदिदं दर्शयाम् ते ॥
तन्मांसं तैश्च गोमायोस्तत्क्षणादाशु ढौकितम् ॥
मांसापनयनं श्रुत्वा व्याघ्रस्तेषां च तद्वचः ।
आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥
गोमायोर्व्यसनं श्रुत्वा शार्दूलजननी ततः ।
मृगराजं हितैर्वाक्यैः संबोधयितुमागमत् ॥
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंयुतम् ।
कर्म संघर्षजैर्दोषैर्दुष्येताशुचिभिः सुचिः ॥
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका ।
शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥
[मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः उत्पाद्यन्ते त्रयः पक्षा मित्रोदासीनशत्रवः ॥]
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः । मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ।
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः ॥
बह पण्डिता मूर्खा लुब्धा मायोपजीविनः ।
आहुंर्दोषमदोषस्य बृहस्पतिमतेरपि ॥
सुन्य्रस्तं ते गृहे मांसं यदद्यापहृतं तव ।
नेचते दीयमानं च साधु तावद्विधीयताम् ॥
असयाः सत्यसंकाशाः सत्याश्चासत्यदर्शनाः ।
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः ॥
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तो ह्यर्थः परीक्षितुम् ।
परीक्ष्य ज्ञापयन्नर्थान्न पश्चात्परितप्यते ॥
न दुष्करमिदं पुत्रं यत्प्रभुर्घातयेत्परम् ।
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा ॥
स्थापितोऽयं त्वया पुत्र सामन्तेष्वपि विश्रुतः ।
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ॥
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् ।
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ॥
एतस्मादरिसंघाताद्गोमायोः कश्चिदागतः ।
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥
ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः ।
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥
अनुज्ञाय मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् ।
तेनामर्षेण संतप्तः प्रायमासितुमैच्छत ॥
गोमायुं तु स शार्दूलः स्नेहात्प्रसृतलोचनः ।
न्यवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥
तं स गोमायुरालोक्य स्नेहादागतसंभ्रमः ।
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः ।
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥
असंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः ।
स्वयं चोपद्रुता भृत्या ये चाप्युपहिताः परैः ॥
परिक्षीणाश्च लुब्धाश्च क्रुद्धा भीताः प्रतारिताः ।
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ॥
संलालिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः ।
अन्तर्हिताः सोहपृतास्ते सर्वेऽपरसाधनाः ॥
अवमानेन युक्तस्य स्थापितस्य च मे पुनः ।
कथं यास्यसि विश्वासमहमेष्वामि वा कथम् ॥
समर्थ इति संगृह्य स्थापयित्वा परीक्षितः ।
कृतं च समयं भित्त्वा त्वयाऽहमवमानितः ॥
प्रथमं यः समाख्यातः शीलवानिति संसदि ।
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥
एवं चावमतस्येह विश्वासं मे न यास्यसि ।
त्वयि चापेतविश्वासे ममोद्वेगो भविष्यति ॥
शङ्कितस्त्वमहं भीतः परे च्छिद्रानुसारिणः ।
अस्त्रिग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते ।
भिन्नश्लिष्टे तु या प्रीतिर्न सा स्नेहेन वर्धते ॥
कश्चित्तव हिते भर्तुर्दृश्यते न परात्मनः ।
कार्यापेक्षा हि वर्न्तते भावस्त्रिग्धाः सुदुर्लभाः ॥
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् ।
समर्थो वाप्यशङ्को वा शतेष्वेकोऽधिगम्यते ॥
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् ।
शुभाशुभे महत्त्वं च प्रहर्तुं बुद्धिलाघवम् ॥
भीष्म उवाच ।
एवंविधं सान्त्वमुक्त्वा धर्मकामार्थहेतुमत् ।
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥
अगृह्यानुनयं तस्य मृगेन्द्रस्य च बुद्धिमान् ।
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकादशाधिकशततमोऽध्यायः ॥ 111 ॥

12-111-10 विप्रतिपत्तिर्विपरीता बुद्धिः ॥ 12-111-16 अनुबन्धेषु परिणामेषु ॥ 12-111-17 अप्रत्ययोऽसंतोषस्तेन कृताम् । अर्थापनयो धर्महानिः ॥ 12-111-19 यात्रां राजकार्यं गच्छ प्राप्नुहि । परिहार्याश्चानीप्सिताः ॥ 12-111-20 ज्ञापयामहे सूचयामहे ॥ 12-111-22 मदन्तरे मन्निमित्तम् ॥ 12-111-23 न शक्यम् । राज्ञेति शेषः ॥ 12-111-26 -- ----- -- सन्तोशदिति ट. ड. थ. द. पाठः ॥ 12-111-27 योक्ष्यति योगं प्राप्स्यति । दुःखशीला भविष्यन्ति ॥ 12-111-29 स्थूललक्षो बहुप्रदः ॥ 12-111-31 उपक्रोधो निन्दा तज्जा दोषा उपक्रोशदोषाः सन्ति ॥ 12-111-33 यत्र निर्वृतिः सुखं तत्खलु सुखं स्वर्गं पश्यामि । निर्वृतिः सुस्थितिरिति वा ॥ 12-111-34 शिष्टाः कृतदण्डः ॥ 12-111-46 तस्य गोमायोर्वेश्मनि ॥ 12-111-47 तस्य गोमायोः । कारणार्थं स्वस्य बन्धविच्छेदो भवत्विति हेतोरित्यर्थः ॥ 12-111-51 परोक्षस्त्वथ इति ट. द. पाठः ॥ 12-111-55 विप्रत्ययोऽविश्वासः ॥ 12-111-56 गोमायोर्गृहे ढौकीतं प्रवेशितं मांसं प्रदर्शयामासुरित्यर्थः । तत्क्षणादेव दर्शितं इति द. पाठः ॥ 12-111-58 शार्दूलस्य वचः श्रुत्वा इति झ. पाठः ॥ 12-111-59 संघर्षजैः स्पर्धोत्थैः ॥ 12-111-60 प्रक्रिया प्रकृष्टं कर्म ॥ 12-111-66 तलवत् अवाङ्भुस्वकटाहगर्भवत् ॥ 12-111-68 प्रभवतां प्रभूणाम् ॥ 12-111-71 गोमायोश्चारः ॥ 12-111-73 प्रायं मरणार्थमुपवेशनं आसितुं आचरितुम् ॥ 12-111-76 वक्तुं नार्होस्म्यहं त्वया इति ट. ड. द. पाठः ॥ 12-111-79 अपरसाश्च अधनाश्चेति अपरसाधनाः । प्रीतिशून्या निर्घनाश्चेत्यर्थः ॥ 12-111-84 छिद्रानुदर्शिनः इति झ. पाठः ॥ 12-111-87 पुरुषज्ञानं सुदुःखं दुर्लभं यत एषां नृपाणां चित्तं चलाचलमस्थिरं गम्यते ज्ञायते सुपुरुषज्ञानं दुर्धटमित्यर्थः ॥ 12-111-88 प्रक्रिया महीकरणं बुद्धेर्लाघवं तुच्छत्वमेव हेतुः ॥ 12-111-89 प्रसादयित्वा प्रसाद्य ॥ 12-111-90 अगृह्य अगृहीत्वा ॥