अध्यायः 007

युधिष्ठिरस्य परिशोचनम् ॥ 1 ॥

वैशंपायन उवाच ।
युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः ।
शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम् ॥
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः ।
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ॥
युधिष्ठिर उवाच ।
यद्भैक्ष्यमाचरिष्याम वृष्ण्यन्धकपुरे वयम् ।
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ॥
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल ।
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ॥
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ।
धिगस्तु चार्थं येनेमामापदं गमिता वयम् ॥
साधु क्षमा दमः शौचमविरोधो विमत्सरः ।
अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ॥
वयं तु लोभान्मोहाच्च दम्भं मानं च संश्रिताः ।
इमामवस्थां संप्राप्ता राज्यक्लेशबुभुक्षया ॥
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् ।
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ॥
ते वयं पृथिवीहेतोरवध्यान्पृथिवीतले ।
संपरित्यज्य जीवामो हीनार्था हतबान्धवाः ॥
आमिषे गृध्यमानानामशुभं वै शुनामिव ।
आमिषं चैव नो नष्टमामिषस्य च भोजिनाम् ॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।
न गजाश्वेन सर्वेण ते त्याज्या य इमे हताः ॥
काममन्युपरीतास्ते क्रोधामर्षसमन्विताः ।
मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ॥
बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान् ।
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ॥
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः ।
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ॥
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि । संभाघिता जातबला विदध्युर्यदि नः सुखम् ।
इह चामुत्र चैवेति कृपणाः फलहेतवः ॥
तासामयं समुद्योगो निर्वृत्तः केवलोऽफलः ।
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ॥
अभुक्त्वा पार्थिवान्भोगानृणान्यनपहाय च ।
पितृभ्यो देवताभ्यश्च गता वैयस्वतक्षयम् ॥
यदैषामम्ब पितरौ जातकर्मकराविह ।
संजातबालरूपेषु तदैव निहता नृषाः ॥
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः ।
न ते जयफलं किंचिद्भोक्तारो जातु कर्हिचित् ॥
पाञ्चालानां कुरूणां च हता एव हि ये हताः ।
न सकामा वयं ते च न चास्माभिर्न तैर्जितम् ॥
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् । नामात्यसुहृदां वाक्यं न च श्रुतवतां श्रुतम् ।
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ॥
न च धर्म्यानिमाँल्लोकान्प्रपद्याम स्वकर्मभिः । वयमेवास्य लोकस्य विनाशे कारणं स्मृताः ।
धृतराष्ट्रस्य पुत्रेण निकृतिप्रीतिसंयुताः ॥
सदैव निकृतिप्रज्ञो द्वेष्टा विद्वेषजीवनः ।
मिथ्यावृत्तश्च सततमस्मास्वनपराधिषु ॥
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः ।
धृतराष्ट्रश्च नृपतिः सौबलेन निवेदितः ॥
तं पिता पुत्रगृध्नुत्वादनुमेनेऽनये स्थितम् ।
अनपेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ॥
असंशयं त्वयं राजा यथैवाहं तथा गतः ।
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् ॥
यशसः पतितो दीप्ताद्धातयित्वा सहोदरान् । इमौ हि वृद्धौ शोकाग्नौ प्रक्षिप्य स सुयोधनः ।
अस्मत्प्रद्वेषसंतप्तः पापबुद्धिः सदैव ह ॥
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने ।
यथाऽसाववदद्वाक्यं युयुत्सुः कृष्णसन्निधौ ॥
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः ।
प्रदहन्तो दिशः सर्वा भास्वरा इव तेजसा ॥
सोऽस्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः ।
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ॥
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यतां ॥
कुलस्यास्यान्तकरणं दुर्मतिं पापपूरुषम् ।
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ॥
हताः शूराः कृतं पापं विषयोऽसौ विनाशितः ।
हत्वा नो विगतो मन्युः शोको मां दारयत्ययम् ॥
धनञ्जय कृतं पापं कल्याणेनोपहन्यते । [ख्यापनेनानुतापेन दानेन तपसाऽपि वा ।
निवृत्त्या तीर्थगमनाच्छुतिस्मृतिजपेन वा ॥]
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः । त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यतः ।
प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा ॥
स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः ।
वनमामन्त्र्य वः सर्वान्गमिष्यामि परंतप ॥
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः ।
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ॥
मया निसृष्टं पापं हि परिग्रहमभीप्सता ।
जन्मक्षयनिमित्तं च प्राप्तुं शक्यमिति श्रुतिः ॥
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं सुखानि च । गमिष्यामि विनिर्मुक्तो विशोको निर्ममः क्वचित् ।
प्रशासध्वमिमामुर्वी क्षेमां निहतकण्टकाम् । न ममार्थोऽस्ति राज्येन भोगैर्वा कुरुनन्दन ॥
एतावदुक्त्वा वचनं कुरुराजो युधिष्ठिरः ।
उपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

12-7-2 दुःखं देहेन्द्रियादीनां तापः । शोकस्तत्कृतं वैकल्यम् ॥ 12-7-3 यद्यदि भैक्ष्यमाचीर्णं स्यात्तर्हि ज्ञातिवधाज्जाता दुर्गतिर्न प्राप्ता स्यादित्यर्थः । लिङ््निमित्ते लृङ््क्रियातिपत्तौ ॥ 12-7-8 पृथिव्यां विजयैषिण इति झ. पाठः ॥ 12-7-10 अमिषे गृध्यमानानामशुभं वै शुनामिव । आमिषं चैव नोहीष्टमामिषस्य विवर्जनमिति झ. पाठः । तत्र आमिषे राज्यनिमित्ते । अशुभं ज्ञातिद्रोहाख्यम् । शुनामिवेतरेषां भवति नो ह्यस्माकं त्वामिषं चाऽऽमिषस्य विवर्जनं चेति द्वयमपीष्टमित्यर्थः ॥ 12-7-11 बन्धूनामर्थे सर्वं त्याज्यमित्यर्थः ॥ 12-7-14 व्रतानि गौरीव्रतादीनि । कौतुकानि दुर्गोत्सवादीनि । मङ्गलानि लक्ष्मीनारायणशिलादीनि तैः ॥ 12-7-16 यदा संनिहिताः पुत्रा इति थ. द. पाठः ॥ 12-7-17 अनपहाय अपरिहृत्य । अनवदायेति पाठे अपरिशोध्य । पितृभ्य इति षष्ठ्यर्थे चतुर्थी ॥ 12-7-18 अर्जुनेन सह वदन्नपि सन्निहितां मातरं सम्बोधयति हे अम्बेति । पितरौ मातापितरौ गान्धारीधृतराष्ट्रौ यदैव जातकर्मकरौ तदैव ते नृपा दुर्योधनप्रभृतयो हताः ॥ 12-7-19 न ते जन्मफलं किंचिदिति द. पाठः ॥ 12-7-21 श्रुतवतां पण्डितानाम् । रत्नानीत्यादौ भुक्तानीत्यादिर्यथालिङ्गं शेषः । नामात्यसमितौ कथ्यं इति ट. ड. थ. पाठः ॥ 12-7-24 हरिणः पाण्डुरः । धृतराष्ट्रस्य नृपतेरिति ड.थ. द. पाठः ॥ 12-7-27 पापबुद्धिः सुहृज्जनैरिति ट. ड. थ. पाठः ॥ 12-7-29 भास्करस्येव तेजसेति ट. ड. थ. पाठः ॥ 12-7-30 प्रग्रहं दृढबन्धनम् । गतः प्राप्तः । नोऽत्माभिः ॥ 12-7-33 विषयः आपिषम् । नोऽस्माकम् । तान्हत्वा विगतः ॥ 12-7-34 कल्याणेनोपकारेण । निवृत्त्या त्यागेन ॥ 12-7-35 श्रुतिस्त्यागेनैके अमृतत्वमानशुरिति । प्राप्तवर्त्मा लब्धयोगमार्गः । त्यागे यदा कृतमतिरिति ट. ड. द. पाठः ॥ 12-7-37 नहि कश्चिद्गृहे धर्म इति ड. द. पाठः । परिग्रहवता गृहस्थेन नहि प्राप्तुं शक्यः ॥