अध्यायः 119

भीष्मेण युधिष्ठिरंप्रति भृत्यानां स्वस्वयोग्यतानुसारेणाधिकारे स्थापनादेर्भृत्यलक्षणादीनां च कथनम् ॥ 1 ॥

भीष्म उवाच ।
एवं गुणयुतान्भृत्यान्स्वेस्वे स्थाने नराधिपः ।
नियोजयति कृत्येषु स राज्यफलमश्नुते ॥
न वा स्वस्थानमुत्क्रम्य प्रमाणमपि सत्कृतम् ।
आरोप्य चापि स्वस्थानमुत्क्रम्यान्यत्प्रपद्यते ॥
स्वजातिगुणसंपन्नाः स्वेषु धर्मेष्ववस्थिताः ।
प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा ॥
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति ।
स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते ॥
शरभः शरभस्थाने सिंहः सिंह इवोत्थितः ।
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ॥
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि ।
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ॥
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः ।
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ॥
न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः ।
नाकुलीना जनाः पार्श्वे स्थाप्या राज्ञा गुणैषिणा ॥
साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः ।
अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः ॥
उद्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजाः शुभाः ।
स्वेस्वे स्थानेऽनुपाकृष्टास्ते स्यू राज्ञो बहिश्चराः ॥
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् ।
असिंहः सिंहसहितः सिंहवल्लभते फलम् ॥
यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः ।
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ॥
एव मेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः ।
कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुंधरा ॥
नावैद्यो नानृजुः पार्श्वे नाप्राज्ञो ना महायशाः ।
संग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर ॥
वाणवद्विसृता यान्ति स्वामिकार्यपरा नराः ।
ये भृत्याः पार्थिवहितास्तेषु सान्त्वं सदा चरेत् ॥
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः ।
कोशमूला हि राजानः कोशवृद्धिकरो भवेत् ॥
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितैः । सदा त्वं सत्सु संन्यस्तधनधान्यपको भव ।
नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः ।
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ॥
ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसत्कृतः ।
पौरकार्यहितान्वेक्षई भव कौरवनन्दन ॥
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मषा ।
श्वाते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

12-119-1 एवं नीचाननीचे नैव योजयेत् ॥ 12-119-7 अबुद्धिरिति च्छेदः ॥ 12-119-10 बहिश्चराः प्राणा इवेति शेषः ॥ 12-119-15 विसृताः अपरावर्तिनः ॥