अध्यायः 123

भीष्मेण युधिष्ठिरंप्रति धर्मादिनिरूपणपूर्वकं कामन्दारिष्टसंवादानुवादेन धर्मत्यागिनः प्रायश्चित्तप्रकारादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् ।
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ॥
धर्मार्थकामाः किंमूलाः प्रभवः प्रलयश्च कः ।
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ॥
भीष्म उवाच ।
य एते स्युः सुमनसो लोकसंस्थार्थनिश्चये ।
कामप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा ॥
धर्ममूलोऽर्थ इत्युक्तः कामोऽर्थफलमुच्यते ।
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः ॥
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये ।
मूलमेतन्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ॥
धर्मः शरीरसंगुप्तिर्धर्मार्थश्चार्थ इष्यते ।
कामो रतिफलश्चात्र सर्वे रतिफलाः स्मृताः ॥
सन्निकृष्टांश्चरेदेतान्न चैतान्मनसा त्यजेत् ।
विमुक्तस्तपसा सर्वान्धर्मादीन्कामनैष्ठिकान् ॥
श्रेष्ठबुद्धिस्त्रिवर्गस्य उदयं प्राप्नुयात्क्षणात् । [कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः ॥]
अर्थार्थमन्यद्भवति विपरीतमथापरम् । अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम् ।]
बुद्ध्या बुद्ध इहार्थेन तदह्ना तु निकृष्टया ॥
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् ।
संप्रमोहमलः कामो भूयस्तद्गुणवर्धितः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अरिष्टस्य च संवादं कामन्दस्य च भारत ॥
कामन्दमृषिमासीनमभिवाद्य नराधिपः ।
आङ्गोरिष्ठोऽथ पप्रच्छ कृत्वा समयमव्ययम् ॥
यः पापं कुरुते राजा काममोहबलात्कृतः ।
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ॥
अधर्मं धर्म इति च यो मोहादाचरेन्नरः ।
तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ॥
कामन्द उवाच ।
यो धर्मार्थौ परित्यज्य काममेवानुवर्तते ।
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्च्छति ॥
प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः ।
तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥
तं प्रजा नानुरज्यन्ते न विप्रा न च साधवः ।
ततः संक्षयमाप्नोति तथा वध्यत्वमेव च ॥
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् ।
जीवते यदपध्वस्तः शुद्धं मरणमेव तत् ॥
अत्रैतदाहुराचार्याः पापस्य परिवर्तनम् ।
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ॥
महामना भवेद्धर्मे विवहेच्च महाकुले ।
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ॥
जपेदुदकशीलः स्यात्सुमुखो न च नास्तिकः ।
धर्मान्वितान्संप्रविशेद्बहिः प्लुत्यैव दुष्कृतम् ॥
प्रसादयेन्मधुरया वाचा वाऽप्यथ कर्मणा ।
इत्यस्तीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ॥
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् ।
पापान्यपि हि कृच्छ्राणि शमयेन्नात्र संशयः ॥
गुरवो हि परं धर्मं यं ब्रूयुस्तं तथा कुरु ।
गुरूणां हि प्रसादाद्वै श्रेयः परमवाप्स्यसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

12-123-2 किंमूलाः किमुद्दिश्य क्रियन्त इत्यर्थः । प्रभवत्यस्मादिति प्रभवः । किमेषामुत्पत्तिस्थानम् । तेषां साहित्यं कथं पृथक््पृथकवच कथमिति चत्वारः प्रश्नाः ॥ 12-123-3 सूचीकटाहन्यायेन धर्मार्थकामानां साहित्यमाह य इति । ते धर्मार्थकामास्त्रयोऽपि सज्जन्ते युगपदुत्पद्यन्ते ॥ 12-123-7 स्वर्गादिकं बाह्यं फलं विप्रकृष्टं तदर्था एते विप्रकृष्टाः । आत्मज्ञानरूपं फलं तु सन्निकृष्टं तदर्था एते सन्निकृष्टास्तांश्चरेत् सेवेत । धर्मश्चित्तशुद्ध्यर्थोऽर्थो निष्कामकर्मार्थः कामो देहधारणमात्रार्थः इत्येवमेते सेव्या इत्यर्थः । धर्मादीन्कामनैष्ठिकान्कामान्तान्धर्मार्थकामान्सर्वानपि मनसापि न त्यजेत्किमुत स्वरूपेण न त्यजेदित्यर्थः । कथं तर्ह्येतांस्त्यजेदित्याह तपसा विमुक्त इति । विचारेणैव तेभ्यो विमुक्तो भवेत् । सङ्गफलत्यागपूर्वकं धर्मादीननुतिष्ठेदिति भावः ॥ 12-123-8 अस्मात्कर्मण इदं फलं प्राप्स्ये इति बुद्धिपूर्वं कृतेनापि कर्मणार्थः कदाचिद्भवति कदाचिन्नेति व्यभिचारः ॥ 12-123-9 अर्थार्थं धर्मादपि अन्यत् सेवाकृष्यादिकं भवतीति न धर्मैकलभ्योऽर्थं इत्यर्थार्थं धर्मो न कार्यः । प्रत्युत विपरीतमपि अपरं मतमस्ति केचिद्धठेनैवार्थो भवति स्वभावेन वा दैवेन वेति मन्यत इति तदर्थमलं धर्मेणेत्यर्थः । एवं धर्मस्यार्थहेतुत्वं दूरीकृत्यार्थस्यापि धर्महेतुत्वं दूषयति । अर्थमवाप्याऽपि जगदनर्थार्थमपायार्थं भवति । तथाहि धनमत्तः सर्वं पापं करोतीति नार्थेन धर्मोत्पत्तिर्नित्यास्ति । अर्थं विनापि धर्मोत्पत्तिरस्तीत्याहान्यत्राद्योपकारकम् । स्वार्थे त्रल् । अन्यत्रान्यदेवोपवासव्रतादिकं आद्यस्य धर्मस्योपकारकं वर्धकं भवति ॥ 12-123-10 अपध्यानं फलाभिसन्धिः । निगूहनं दानभोगयोरप्रतिपादनम् ॥ 12-123-13 प्रत्यासन्नस्य पश्चात्तप्तस्य ॥ 12-123-20 एवं निन्दितस्य कर्तव्यमाह अत्रेति ॥ 12-123-23 तवास्मीति वदेन्नित्यं इति झ. पाठः ॥