अध्यायः 126

तापसैः स्वाश्रममुपागतस्य सुमित्रस्य पूजनम् ॥ 1 ॥ ततः सुमित्रेण तापसान्प्रति आशान्तरिक्षयोर्ज्यायस्तरं किमिति प्रश्नः ॥ 2 ॥

भीष्म उवाच ।
प्रविश्य च महारण्यं तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्तदा ॥
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।
समेत्य ऋषयस्तस्मै पूजां चक्रुर्यथाविधि ॥
स पूजामृषिभिर्दत्तां प्रतिगृह्य नराधिपः ।
अपृच्छत्तापसान्सर्वांस्तपोवृद्धिमनुत्तमाम् ॥
ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः ।
ऋषयो राजशार्दूलमपृच्छंस्तत्प्रयोजनम् ॥
केन भद्रमुखार्थेन तपोवनमुपागतः ।
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ॥
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः ॥
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।
आचख्यौ तद्यथावृत्तं परिचर्यां च भारत ॥
हैहयानां कुले जातः सुमित्रोऽमित्रकर्शनः ।
चरामि मृगयूथानि निघ्रन्बाणैः सहस्रशः ॥
बलेन महता ब्रह्मन्सामात्यः सावरोधकः ।
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ॥
तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥
किंनु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः ॥
न राजलक्षणत्यागः पुनरस्य तपोधनाः ।
दुःखं करोति मे तीव्रं यथाऽऽशा विहता मम ॥
हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ॥
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ।
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥
भवन्तः सुमहाभागास्तस्मात्पृच्छामि संशयम् ।
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ॥
किंनु ज्यायस्तरं लोके महत्त्वे प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम् ।
न हि गुह्यतमं श्रोतुमिच्छामि द्विजपुङ्गवाः ॥
भवत्तपोविघातो वा येन स्याद्विरमे ततः ।
यदि वाऽस्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥
एतत्कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः ।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षङ्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

12-126-5 हे भद्रमुख ॥ 12-126-12 आशा मृगाशा ॥ 12-126-13 हिमवानुच्चत्वेन महोदधिर्विततत्वेन च गगनान्तं नान्वपद्येताम् । तस्य ततोऽप्युच्चत्वाद्विततत्वाच्च ॥ 12-126-15 आशावान् आशाया महत्त्वेन तद्वतोऽपि महत्त्वमन्तरिक्षवत् ॥ 12-126-17 यद्यगुह्यं तपोनित्यं मम ब्रूतेह माचिरमिति थ.द.पाठः ॥