अध्यायः 128

कृशेन मुनिना वीरद्युम्ननृपंप्रति दुर्लभवस्तुनः कृशतराशायाश्च प्रतिपादनम् ॥ 1 ॥

राजोवचा ।
वीरद्युम्न इति ख्यातो राजाऽहं दिक्षु विश्रुतः ।
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥
एकः पुत्रः स विप्राग्र्य बाल एव च सोऽनघः ।
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥
ऋषभ उवाच ।
इत्युक्ते तेन वचने राज्ञा मुनिरधोमुखः ।
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः ।
आशाकृतश्च राजेन्द्र तपो दीर्घं समाश्रितः ॥
प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन ।
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥
आशा हि पुरुषं बालमालापयति तस्थूषी । तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ।
[वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम् ॥]
राजोवाच ।
आशायाः किंच वृत्तं वै किंचेह भुवि दुर्लभम् ।
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥
ऋषभ उवाच ।
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् ।
राजानं भगवान्विप्रस्ततः कृशतनुस्तदा ॥
ऋषिरुवाच ।
कृशत्वेन समं राजन्नाशाया विद्यते नृप ।
तस्या वै दुर्लभत्वाच्च प्रार्थितः पार्थिवो मया ॥
राजोवाच ।
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव ।
दुर्लभत्वं च तस्यैव वेदवाक्यमिवाद्विजे ॥
संशयस्तु महाप्राज्ञ संजातो हृदये मम ।
तन्मुने मम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥
त्वत्तः कृशतरं किंनु ब्रवीतु भगवानिदम् ।
यदि गुह्यं न ते विप्र लोके किंचेह दुर्लभम् ॥
कृश उवाच ।
दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात् ।
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥
सत्कृत्य नोपक्रियते परं शक्त्या यथार्थतः ।
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया ॥
कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च ।
अपकारिषु चासक्ता साऽऽशा कृशतरी मया ॥
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा ।
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मता ॥
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता ।
तथा नरेन्द्र धनिनां साऽशा कृशतरी मता ॥
प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते ।
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मता ॥
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः ।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥
राजोवाच ।
प्रसादये त्वां भगवन्पुत्रेणेच्छामि संगमम् । यदेतदुक्तं भवता संप्रति द्विजसत्तम ।
वृणीष्व च वरान्विप्र यानिच्छसि यथाविधि । अब्रवीच्चैव तद्वाक्यं राजा राजीवलोचनः ॥
सत्यमेतत्त्वया विप्र यथोक्तं नान्यथा मृषा ॥
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः ।
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥
स समानीय तत्पुत्रं तमुपालभ्य पार्थिवम् ।
आत्मानं दर्शयामास धर्मं धर्मभृतांवरः ॥
स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् ।
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥
एतदॄष्टं मया राजंस्त्वत्तश्च वचनं श्रुतम् ।
आशामपनय त्वाशु ततः कृषतरीमिमाम् ॥
भीष्म उवाच ।
स तथोक्तस्तदा राजन्नृषभेण महात्मना ।
सुमित्रोऽपानयत्क्षिप्रमाशां कृशतरीं ततः ॥
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम ।
स्थिरो भव महाराज हिमवानिव निश्चलः ॥
त्वं हि श्रुत्वा च पृष्ट्वा च कृच्छ्रेष्वर्थेषु तेष्विह ।
श्रुत्वा मम महाराज न संतप्तुमिहार्हसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥

12-128-4 आशया कृतः हतः । कृ हिंसायामित्यस्य रूपम् ॥ 12-128-9 आशायाः आशावतः समं अन्यत् कृशत्वेन समं किमपि नास्ति तस्याः तद्गृहीतार्थस्य ॥ 12-128-10 कृशाकृशे य आशाजितः स कृशः । येनाशा जिता स पुष्ट इत्यर्थः । तस्यैव आशाविषयस्यैव ॥ 12-128-14 आदरेणाशां प्रदर्श्य योऽर्थिनं नोपकुरुते तत्र या आशा सा अतिकृशा । मया मत्तः । दीनत्वसंपादकत्व ॥ 12-128-18 तथायुक्ताः प्रदानं स्थितमिति शब्दयुक्ताः ॥ 12-128-23 उपालभ्य तत्रापराधं स्थापयित्वा ॥ 12-128-28 मम मत्तः ॥