अध्यायः 132

भीष्मेण युधिष्ठिरंप्रति ब्राह्मणानामापदि राज्ञा असाधुजनधनापहारेणापि तद्रक्षणस्य करणीयत्वोक्तिः ॥ 1 ॥

युधिष्ठिर उवाच ।
हीने परमके धर्मे सर्वलोकातिलङ्घने ।
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ॥
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ।
असंत्यजन्पुत्रपौत्राननुक्रोशात्पितामह ॥
भीष्म उवाच ।
विज्ञानबलमास्थाय जीवितव्यं तथा गते ।
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किंचन ॥
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा कृच्छ्रधर्मकृदेव सः ॥
अरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् ।
अदत्तमप्याददीत् भ्रातुर्वित्तं ममेति वा ॥
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि ।
वृत्तिविज्ञानवान्धीरः कस्तं वक्तुमिहार्हति ॥
येषां बहुकृता बुद्धिस्तेषामन्या न रोचते ।
यजसा ते प्रवर्तन्ते बलवन्तो युधिष्ठिर ॥
यदैव प्रकृतं शास्त्रं जनस्तदनुवर्तते ।
यदैवमध्यासेवन्ते मेध्रावी वाऽप्यथोत्तरम् ॥
ऋत्विक्पुरोहिताचार्यान्सत्कृतानभिसत्कृतान् ।
न ब्राह्मणान्घातयीत दोषान्प्राप्नोति घातयन् ॥
एतत्प्रमाणं लोकस्य चक्षुरेतत्सातनम् ।
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ॥
हवो ग्रामवास्तव्या दोषान्ब्रूयुः परस्परम् ।
न तेषां वचनाद्राजा सत्कुर्याद्धातयीत वा ॥
न वाच्यः परिवादो वै न श्रोतव्यः कथंचन ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥
न सतां शीलमेतद्वै परिवादो न पैशुनम् ।
गुणानामेव वक्तारः सन्तो नित्यं युधिष्ठिर ॥
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ ।
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ॥
यथायथाऽस्य बहवः सहायाः स्युस्तथा चरेत् ।
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् ॥
अपरे नैवमिच्छन्ति ये शङ्खलिखिंतप्रियाः ।
अर्थे क्षीणेऽथवा लुब्धास्ते ब्रूयुर्वाक्यमीदृशम् ॥
आर्षमष्यत्र पश्यन्ति विकर्मस्थस्य पातनम् ।
न चार्षात्सदृशं किंचित्प्रमाणं दृश्यते क्वचित् ॥
देवा ह्यपि विकर्मस्थं घातयन्ति नराधमम् ।
व्याजेन विन्दन्वित्तं हि धर्मतः परिहीयते ॥
सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥
यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित् ।
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् ।
लक्षेद्रुधिरपातेन तथा धर्मपदं नयेत् ॥
यथा सम्यग्वितेन पथा गन्तव्यमप्युत ।
राजर्षीणां वृत्तमेतदेवं गच्छ युधिष्ठिर ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥

12-132-1 हीने धर्मे राज्ञामिति शेषः । परमके सर्वोपायेन ब्राह्मणा रक्ष्या इत्यस्मि् ॥ 12-132-2 जघन्ये आपद्बहूले ब्राह्मणः केन जीदत्यस्य ब्राह्मणं कथं रक्षेदित्यर्थः ॥ 12-132-3 साध्वर्थं सतानम् ॥ 12-132-4 संक्रममागमनमार्गम् ॥ 12-132-5 स्थितिं पालनधर्मम् । स्यष्टस्य राज्ञो ब्राह्मणपालनार्थं सर्वस्वहरणेऽपि दोषो नास्तीत्यर्थः ॥ 12-132-6 वक्तुं निन्दितुम् ॥ 12-132-9 अन्त्यापद्यपि ऋत्विधनवतोऽपि न घातयीत धनहरणेन हिंस्यादित्यर्थः । पुरोहिताचार्यै- सत्कृतैरपि सत्कृतः । नाऽब्राह्मणान्यादोषान्प्राप्नोति याजयन्निति ट. थ. द. पाठः ॥ 12-132-11 स्तव्या ग्रामवासिनः ॥ 12-132-16 एवं त्विगादीनामदड- लिखितस्य भ्रातुरपि हस्तच्छेदः कृतस्तादृशधर्मपरा ॥ 12-132-19 सद्भिर्मन्वादिभिः सत्कृतः । भूतिप्रवरकारणैः भूतिप्रवरा ईश्वराः कारणानि पारम्पर्यागतानि कुलदेशग्रामादिपरिगृहीतानि तैरपि निमित्तैः सत्कृतः । मन्वादिभिरनुक्तोऽपि शिष्टैरादृत इत्यर्थः । हृदयेनाभ्यनुज्ञातः हेतुद्वयाभावेऽपि स्वयं च यो धर्मत्वेन निश्चितः ॥ 12-132-20 चत्वारो गुणाः आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति । य एषामविरुद्धश्चतुर्गुणसंपन्नः ॥ 12-132-21 पदं स्थानं लक्षेल्लक्षयेत् । नयेत् अन्यान्प्रापयेत् । युक्त्येति शेषः ॥