अध्यायः 139

भीष्मेण युधिष्ठिरंप्रति पूजनीब्रह्मदत्तसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु ।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥
विश्वासाद्धि परं राजन्राज्ञामुत्पद्यते भयम् ।
कथं हि नाश्वसन्राजा शत्रूञ्जयति पार्थिवः ॥
एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति ।
अविश्वासे कथामेतामुपाश्रित्य पितामह ॥
भीष्म उवाच ।
शृणुष्व राजन्यो वृत्तो ब्रह्मदत्तनिवेशने ।
पूजन्या सह संवादो ब्रह्मदत्तस्य भूपतेः ॥
काम्पिल्ये ब्रह्मदत्तस्य त्वन्तः पुरनिवासिनी । पूजी नाम शकुनिर्दीर्घकालं सहोपिता ।
रुदज्ञा सर्वभूतानां यथा वै जीवजीवकः ।
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गताऽपि स ॥
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् ।
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत ॥
तयोरर्थे कृतज्ञा तु खेचरी पूजनी सदा ।
समद्रतीरं सा गत्वा आजहार फलद्वयम् ॥
अष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ।
लमेकं सुतायादाद्राजपुत्राय चापरम् ॥
---मृतास्यादसदृशं बलतेजोभिवर्धनम् । [आदायादाय सैवाशु तयोः प्रादात्पुनः पुनः ॥]
ततोऽगच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ।
ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः ॥
ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः ।
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा ॥
शून्ये च तमुपादाय पक्षिणं समजातकम् ।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः ॥
अथ सा पूजनी राजन्नागमत्फलहारिणी ।
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥
बाष्पपूर्णमुखी दीना दृष्ट्वा तं पतितं सुतम् ।
पूजनी दुःखसंतप्ता रुदन्ती वाक्यमब्रवीत् ॥
क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम् ।
कारणे सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च ॥
क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु ।
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥
इयमस्य करोम्यद्य सदृशीं वैरयातनाम् ।
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥
सहसंजातवृद्धस्य तथैव सहभोजिनः ।
शरण्यस्य वधश्चैव त्रिविधं तस्य किल्विषम् ॥
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा ।
हृत्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥
इच्छयेह कृतं पापं सद्य एवोपसर्पति ।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम् ॥
पापं कर्म कृतं किंचिद्यदि तस्मिन्न दृश्यते ।
निपात्यतेऽस्य पुत्रेषु पौत्रेष्वपि च नप्नृषु ॥
ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम् ।
कृतप्रतिकृतं मत्वा पूजनीमिदमब्रवीत् ॥
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया ।
उभयं तत्समीभूतं वस पूजनि मा गमः ॥
पूजन्युवाच ।
सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥
सान्त्वे प्रयुक्ते विवृते वैरे चैव न विश्वसेत् ।
क्षिप्रं स हन्यते मूढो न हि वैरं प्रशाम्यति ॥
अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति ।
पुत्रपौत्रविनाशे च परलोकं नियच्छति ॥
सर्वेषां कृतवैराणामविश्वासः सुखावहः ।
एकान्ततो न विश्वासः कार्यो विश्वासघातके ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति ।
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत् ॥
माता पिता बान्धवानां वरिष्ठौ भार्या क्षेत्रं बीजमात्रं तु पुत्रः ।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य भोक्ता ॥
अन्योन्यकृतवैराणां न संधिरुपपद्यते ।
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥
पूजितस्यार्थमानाभ्यां सान्त्वं पूर्वापकारिणः ।
हृदयं भवत्यविश्वस्तं कर्म त्रासयते बलात् ॥
पूर्वं संमानना यत्र पश्चाच्चैव विमानना ।
जह्यात्स सत्ववान्वासं संमानितविमानितः ॥
उषिताऽस्मि तवागारे दीर्घकालमहिंसिता ।
तदिदं वैरमुत्पन्नं सुखमास्ख व्रजाम्यहम् ॥
ब्रह्मदत्त उवाच ।
यः कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् ।
अनृणस्तेन भवति वस पूजनि मागमः ॥
पूजन्युवाच ।
न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः ।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥
ब्रह्मदत्त उवाच ।
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः ।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥
पूजन्युवाच ।
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।
विश्वासाद्बध्यते लोकस्तस्माच्छ्रेयोप्यदर्शनम् ॥
तरसा ये न शक्यन्ते शस्त्रैः सुनिसितैरपि ।
साम्ना तेऽपि निगृह्यते गजा इव करेणुभिः ॥
ब्रह्मदत्त उवाच ।
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।
अन्योन्यस्य हि विश्वासः श्वानश्वपचयोरिव ॥
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् ।
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥
पूजन्युवाच ।
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।
स्त्रीकृतं वास्तुजं वाग्जं स्वसपत्नापराधजम् ॥
तत्र दाता न हन्तव्यः क्षत्रियेण विशेषतः ।
प्रकाशं वाऽप्रकाशं वा बुद्ध्वा दोषबलाबलम् ॥
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
प्रच्छन्नं तिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥
न वित्तेन न पारुष्यैर्न च सान्त्वेन च श्रुतैः ।
वैराग्निः शाम्यते राजन्निमग्नोऽग्निरिवार्णवे ॥
न हि वैराग्निरुद्धूतः कर्म चाप्यपराधजम् ।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥
सत्कृतस्यार्थामनाभ्यां तत्र पूर्वापकारिणः ।
नैव शान्तिर्न विश्वासः कर्मणा जायते बलात् ॥
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् ।
उषितावाऽपि चक्रितं नेदानीं विश्वसाम्यहम् ॥
ब्रह्मदत्त उवाच ।
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः कालेनैव प्रवर्तन्ते कः कस्येत्यपराध्यति ॥
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव हि ।
कार्यते चैव कालेन तन्निमित्तं न जीवति ॥
बध्यन्ते युगपत्केचिदेकैकं चापरे तथा ।
कालो दहति भूतानि संप्राप्तोऽग्निरिवेन्धनम् ॥
नाहं प्रमाणं नैव त्वभन्योन्यं कारणं शुभे ।
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम् ॥
एवं वसेह सन्नेहा यथाकाममहिंसिता ।
यत्कृतं तत्तु मे क्षान्तं त्वं च वै क्षम पूजनि ॥
पूजन्युवाच ।
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् ।
कस्मादपचितिं यान्ति बान्धवा बान्धवे हते ॥
कस्माद्देवासुराः सर्वे अन्योन्यमभिजघ्निरे ।
यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥
प्रलापः सुमहान्कस्मात्क्रियते शोकमूर्च्छितैः ।
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥
तव पुत्रो ममापत्यं हतवान्हिंसितो मया ।
अनन्तरं त्वयाहं च बाधितव्या महीपते ॥
अहं हि पुत्रशोकेन कृतपापा तवात्मजे ।
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ॥
भक्षार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः ।
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥
वधबन्धभयादेके मोक्षतन्त्रमुपाश्रिताः ।
जनीमरणजं दुःखं प्राहुर्वेदविदो जनाः ॥
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।
दुःखादुद्विजते सर्वं सर्वस्य सुखमीप्सितम् ॥
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः ।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम् ॥
वैरबन्धकृतं दुःखं स्त्रीकृतं सह तथा ।
दुःखं दुःखेन सततं विवर्धति---- धिप ॥
न दुःखं परदुःखे वै केचिदाहुर----यः ।
यो दुःखं नाभिजानाति स जल्पति माहाजने ॥
यस्तु शोचति दुःखार्ताः स कथं वक्तमुत्सहेत ।
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे ॥
`भिन्ना श्लिष्टा न सज्यन्ते शस्त्रैः सुनिशितैरपि ।' साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् ।
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम् ॥
आवयोः कृतमन्योन्यं तस्य संधिर्न विद्यते ।
स्मृत्वास्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥
वैरमन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति ।
मृण्मयस्येव भग्नस्य तस्य संधिर्न विद्यते ॥
निश्चयः स्वार्थशास्त्रेषु न विश्वासः सुखोदयः ।
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा ॥
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा ।
वध्यन्ते श्रद्दधाना हि मधु शुष्कतृणैरिव ॥
न हि वैराणि शाम्यन्ति कुलेष्वादशमाद्युगात् ।
आख्यातारश्च विद्यन्ते कुले चेज्जायते पुमान् ॥
उपगृह्य तु वैराणि सान्त्वयन्ति नराधिपाः ।
अथैनं प्रतिहिंसन्ति पूर्णं घटमिवाश्मनि ॥
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् ।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥
ब्रह्मदत्त उवाच ।
नाविश्वासाच्चिनोत्यर्थमीहते चापि किंचन ।
भयात्त्वेकतरं मित्रं कृतकृत्या भवत्विह ॥
पूजन्युवाच ।
यस्येह व्रणिनौ पादौ पभ्द्यां च परिधावतः ।
क्षिण्येते तस्य तौ पादौ सुगुप्तमपि धावतः ॥
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते ।
तस्य वायुरुजाऽत्यर्थं नेत्रयोर्भवति ध्रुवम् ॥
दुष्टं पन्थानमासाद्य यो मोहादभिपद्यते ।
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥
यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः ।
हीनः पुरुषकारेण तस्य वै नाप्नुते फलम् ॥
यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम् ।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥
पथ्यं मुक्त्वा तु यो मोहाद्दुष्टमश्नाति भोजनम् ।
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।
उदात्तं कर्म वै तत्र दैवं क्लीबा उपासते ॥
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
ग्रस्यतेऽकर्मशीलस्तु सदाऽनर्थैरकिंचनः ॥
तस्मात्संशयितव्येऽर्थे कार्य एव पराक्रमः ।
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः ॥
विद्या शौचं च दाक्ष्यं च बलं शौर्यं च पञ्चमम् ।
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥
निवेशनं च कुप्यं च क्षेत्रं भार्यां सुहृज्जनम् ।
एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते ।
न विभीषयते किंचिद्भीषितो न बिभेति च ॥
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते ।
दाक्ष्येण कुर्वतां कर्मं संयमात्प्रतितिष्ठति ॥
गृहस्नेहावबद्धानां नराणामल्पमेधसाम् ।
कुस्त्री खादति मांसानि माघमां सेगवा इव ॥
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे ।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥
उत्पथाच्च विमानाच्च देशाद्दुर्भिक्षपीडितात् ।
अन्यत्र वसतिं गच्छेद्वसेद्वा नित्यमानितः ॥
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे ।
कृतमेतदनाहार्यं तव पुत्रे च पार्थिव ॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् ॥
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका ॥
कुपुत्रे सौहृदं नास्ति नित्यमस्थिरसौहृदम् ।
अवमानः कुंसबन्धे भवत्यर्थविपर्यये ॥
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीवति ॥
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः ।
स च यौनाभिसंबन्धो यः सतोऽपि बुभूषति ॥
भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः ।
एते सर्वे गुणवति धर्मनेत्रे महीपतौ ॥
अधर्मज्ञस्य विषये प्रजा नश्यन्ति निग्रहात् ।
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥
बलिषङ्भागमुद्धृत्य फलं समुपयोजयेत् ।
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥
दत्वाऽभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात् ।
स सर्वलोकादुपलभ्य पाप मधर्मबुद्धिर्निरयं प्रयाति ॥
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि ।
स सर्वं सुखमाप्नोति प्रजा धर्मेण पालयन् ॥
पिता भ्राता गुरुः शास्ता वह्निर्वैश्रवणो यमः ।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥
पिता हि राजा लोकस्य प्रजानां योऽनुकम्पिता ।
तस्मिन्मिथ्यापनीते हि तिर्यग्भवति मानवः ॥
संभावयति मातेव दीनमप्युपपद्यते ।
दहत्यग्निरिवानिष्टान्यमयत्यहितांस्तदा ॥
इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः ।
गुरुर्धर्मोपदे--- गोप्ता च परिपालनात् ॥
यस्तु रञ्जयते ---- पौरजानपदान्गुणैः ।
न तस्य भ्रश्यते---ज्यं गुणधर्मानुपालनात् ॥
यः सम्यक्प्रति---ह्णाति पौरजानपदार्चनम् ।
स सुखं प्रेक्षते राजा इह लोके परत्र च ॥
नित्योद्विग्नाः प्रजा यस्य करुभारप्रपीडिताः ।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् ।
स राजा सर्वसुखदः स्वर्गलोके महीयते ॥
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते ।
बलिना विग्रही तस्य कुतो राज्यं कुतः सुखम् ॥
भीष्म उवाच ।
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् ।
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम् ॥
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् ।
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

12-139-6 जीवजीवकः शाकुनिकः । जीवजीवक इति पक्षिविशेष इत्यन्ये ॥ 12-139-7 अभिप्रजाता प्रसूतवती । देव्यां राजभार्यायाम् ॥ 12-139-13 समजातकं समानवयसम् ॥ 12-139-21 इच्छया बुद्धिपूर्वकम् । उपसर्पति फलरूपेण कर्तारम् ॥ 12-139-22 पापमपराधकृतमेनः ॥ 12-139-24 मागमः मास्मगमः ॥ 12-139-25 परिलम्बतः विश्वासं कुर्वतः ॥ 12-139-27 नियच्छति मृत्युर्नाशयति । ततो नष्टसंततित्वात्परलोकं च नियच्छति ॥ 12-139-30 भार्या जरेति झ. पाठः । जरा वीर्यहरत्वात् । बीजमात्रं प्रसवरूपत्वात् । शत्रुः रिक्यहरत्वात् । क्लिन्नपाणिः उपक्रियमाणः । धनादिना पूज्यमानमेव मित्रं नान्यदित्यर्थः ॥ 12-139-31 हेतुः पुत्ररक्षा स्नेहो वा ॥ 12-139-32 कर्म स्वकृतम् ॥ 12-139-36 अन्योन्यस्यापकारमुभावपि नित्यं स्मरत इत्यर्थः ॥ 12-139-39 न शक्यन्ते जेतुमिति शेषः ॥ 12-139-40 श्वपचश्चण्डालः । श्वमांसाहारोऽपि शुना सह सख्यमेति ॥ 12-139-42 वैरं स्त्रीकृतं कृष्णशिशुपालयोः वास्तु गृंहादिकं स्थानं तज्जं कौरवपाण्डवानाम् । वाग्जं द्रोणद्रुपदयोः । सापन्नं जातिवैरं मूषकमार्जारयोः । अपराधजं आवयोः ॥ 12-139-43 कृतवैरोऽपि दाताऽर्थादिना मानयिता अर्थाशावत राज्ञा न हन्तव्यः ॥ 12-139-46 वैराग्निः अदग्ध्वा न शाम्यत्यपराधजं कर्म एकतरक्षयाद्विना न शाम्यतीति योजना ॥ 12-139-50 कार्यते जायते । तन्निमित्तं कालनिमित्तम् । न जीवति म्रियते ॥ 12-139-53 क्षम क्षमस्व ॥ 12-139-57 कस्माद्धर्मोऽस्ति कर्तृषु । तदा विधिनिषेधकथा व्यर्था स्यादिति भावः ॥ 12-139-67 भिन्नकमा न सज्यन्त इति ध. पाठः ॥ 12-139-72 वैरिणो वाक्ये इति शेषः । शत्रुणा दर्शितं पुरःस्थितं मधु श्रद्दधानाः शुष्कतृणैश्छन्ने प्रपाते यथा पतन्ति तद्वदेते इत्यर्थः ॥ 12-139-76 सर्वथाऽनाश्वासे नृणां जीवनमेव न स्यादित्याह नेति ॥ 12-139-82 परिमाणमविज्ञाय इति ड. थ. पाटः ॥ 12-139-85 तस्मात्सर्वं व्यपोह्यार्थमिति झ. पाठः ॥ 12-139-87 कुप्यं ताम्रादि । चादकुप्यं स्वर्णरत्नादि । उपहितान्याहुरिति झ. पाठः । तत्र उपहितानि उपधिमित्राणीत्यर्थः ॥ 12-139-88 किंचित्तमिति शेषः ॥ 12-139-90 खादति । स्वापराधैस्तं संतापयति शुष्कं करोति । माघमां कर्कटीम् । सेगवास्तदपत्यानि । कर्कट्या नाशहेतुर्गर्भ एवेति प्रसिद्धम् ॥ 12-139-92 उत्पतेत्सहजाद्देशाद्व्याधिदुर्भिक्षपीडितादिति झ. पाठः ॥ 12-139-93 मे मया । अनाहार्यं अपरिहार्यमित्यर्थः ॥ 12-139-98 भीरेव नास्ति संबन्धो दरिद्रं यो बुभूषति इति झ. पाठः तत्र यत्र देशे बलात्कारो नास्ति तत्र भीरे वनास्ति । यो राजा दरिद्रं जनं बुभूषति पालयितुमिच्छति स एव तेन सह पाल्यपालकभावलक्षणः संबन्ध इति योज्यम् । यं जनोऽपि बुभूषति इति ड. थ. पाठः ॥ 12-139-99 धर्मनेत्रो धर्मनेता ॥ 12-139-101 समुपयोजयेत् भक्षयेत् ॥ 12-139-102 अभयमिति च्छेदः ॥ 12-139-106 संभावयति इष्टं चिन्तयति । उपपद्यते पालयति ॥