अध्यायः 140

भीष्मेण युधिष्ठिरंप्रति शत्रुंतपाय भारद्वाजोक्तापद्धर्मानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
युगक्षयात्परिक्षीणे धर्मे लोके च भारत ।
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥
भीष्म उवाच ।
हन्त ते वर्तयिष्यामि नीतिमापत्सु भारत ।
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भारद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च ॥
राजात्शत्रुंतपो नाम सौवीरेषु महारथः ।
भारद्वाजमुपागम्य पप्रच्छार्थविनिश्चयम् ॥
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते ।
वधितं पाल्यते केन पालितं प्रणयेत्कथम् ॥
तस्मै विनिश्चितार्थाय परिपृष्टोऽर्थिश्चयम् ।
उवाच मतिमान्वाक्यमिदं हेतुमदुत्तमम् ॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥
नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥
एवमेव प्रशंसन्ति बुधा ये तत्त्वदर्शिनः ।
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥
छिन्नमूले त्वधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥
मूलमेवादितश्छिन्द्यादरिपक्षस्य पण्डितः ।
ततः सहायान्पक्षं च सर्वमेवानुशातयेत् ॥
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
आपदागमकाले तु कुर्वीत न विचारयेत् ॥
वाङ्भात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥
सपत्नसहितो राज्ये कृत्वा सन्धिं न विश्वसेत् ।
उपक्रामेत्ततः शीघ्रं कृतकार्यो विचक्षणः ॥
शत्रुं च मित्रं पूर्वेण सान्त्वेनैवानुसान्त्वयेत् ।
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥
अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् ।
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥
वहेदमित्रं स्कन्धेन यावदर्थस्य लम्भनम् ।
अथैनमागते काले भिन्द्याद्धटमिवाश्मनि ॥
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।
मा तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः ॥
नानार्थिकोऽर्थसंबन्धं कृतघ्ने न समाचरेत् । अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥
कोकिलस्य वराहस्य मेरोः शून्यस्य वेस्मनः ।
व्यालस्य भक्तचित्तस्य यच्छ्रेयस्तत्समाचरेत् ॥
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहम् ।
कुशलं चास्य पृच्छेत यद्यप्यकुशलं भवेत् ॥
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा नातिमानिनः ।
न च लोकरवाद्भीता न वै शश्वत्प्रतीक्षिणः ॥
नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥
पानमक्षास्तथा नार्यो मृगया गीतवादितम् ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥
देशकालं समासाद्य विक्रमेत विचक्षणः ।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥
कालाकालौ संप्रधार्य बलाबलमथात्मनः ।
परस्य च बलं ज्ञात्वा तथाऽऽत्मानं नियोजयेत् ॥
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।
स मृत्युमुपगूहेत् गर्भमश्वतरी यथा ॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् ॥
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुमत् ॥
भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥
न साहसमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥
अनागतं विजानीयात्त्यजेद्भयमुपस्थितम् ।
पुनर्बुद्धिक्षयात्किंचिदनिवृत्तिं निशामयेत् ॥
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥
योऽरिणा सह संधाय विश्वस्तः स्वपते सुखम् ।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुध्यते ॥
कर्मणा येन केनेह मृदुना दारुणेन वा ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥
ये सपत्नाः सपत्नानां सर्वांस्ताननुवर्तयेत् ।
आत्मनश्चापि बोद्धव्याश्चाराः सुमहिताः परैः ॥
चारः सुविहितः कार्य आत्मनोऽथ परस्य च ।
पाषण़्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥
उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।
पानागारे प्रवेशेषु तीर्थेषु च सभासु च ॥
धर्माभिचारिणः पापाश्चौरा लोकस्य कण्टकाः ।
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयीत च ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमभ्येति नापरीक्ष्य च विश्वसेत् ॥
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ॥
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितान ।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥
अवधानेन मौनेन काषायेण जटाजिनैः ।
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृद ।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥
प्रत्युत्थानाभिवादाभ्यां संप्रदानेन केनचित् । प्रपूजयन्निघाती स्यात्तीक्ष्णतुण्ड इव द्विजः ।
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ॥
नास्ति जात्या रिपुर्नाम मित्रं वाऽपि न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥
न प्रमुञ्चेत दायादं वदन्तं करुणं बहु ।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥
संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता ।
निग्रहश्चापि यत्नेन कर्तव्यो हितमिच्छता ॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् ।
असिनाऽपि शिरश्छित्त्वा शोचेत च रुदेत च ॥
निमन्त्रयीत सान्त्वेन संमानेन तितिक्षया ।
आशाकरणमित्येतत्कर्तव्यं भूतिमिच्छता ॥
न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत् । अनर्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
दन्ताश्च परिमृद्यन्ते रसश्चापि न लभ्यते ॥
त्रिवर्गे त्रिविधा पीडा अनुबन्धस्तथैव च ।
अनुबन्धं तथा ज्ञात्वा पीडां च परिवर्जयेत् ॥
ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥
ऋणशेषां विवर्धन्ते परिभूताश्च शत्रवः ।
आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥
नाम---क्कृत्यकारी स्यादप्रमत्तः सदा भवेत् ।
कष्यकोपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥
वधेम च मनुष्याणां मार्गाणां दूषणेन च ।
आकाराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।
अनुद्विग्रः काकशङ्की भुजङ्गचरितं चरेत् ॥
शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत् ।
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः ॥
श्रेणीमुख्योपजापेषु वल्लभानुनयेषु च ।
अमात्यान्परिरक्षेत भेदसंघातयोरपि ॥
मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥
मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम् ।
नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
स साधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥
पण्डितेन विरुद्धस्तु दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥
न तत्तरेद्यस्य न पारमुत्तरे न्न तद्धरेद्यत्पुनराहरेत्परः ।
न तत्खनेद्यस्य न मूलमुद्धरे न्न तं हन्याद्यस्य शिरो न पातयेत् ॥
इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् ।
परप्रयुक्तस्तु कथं विभावये दतो मयोक्तं भवतो हितार्थिना ॥
भीष्म उवाच ।
यथावदुक्तं वचनं हितार्थिना निशम्य विप्रेण सुवीरराष्ट्रपः ।
तथाऽकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

12-140-2 घृणां दयाम् । तथा वर्तेत भूमिपः इति ट. ड. थ. द. पाठः ॥ 12-140-3 शत्रुंजयस्य च इति झ. पाठः ॥ 12-140-20 नानार्थिकः बहुप्रयोजनवान् । कृतघ्ने पुरुषे अर्थसंबन्धं न समाचरेत् ॥ 12-140-21 वराहस्य श्रेयोमूलोत्खननम् । तच्च राजा शूत्रूणां कुर्यात् । मेरोरचञ्चलत्वमनुल्लङ्घनीयत्वं च शून्यस्य वेश्मनः संपदागम इष्टस्तमिच्छेत् । व्यालस्य सर्पवदन्ध्यकोपत्वमिष्टं तमङ्गीकुर्यात् । नटस्य भक्तिमित्रस्य इति झ. पाठः । तत्र नटस्य जानारूपत्वमिष्टम् । एवं राजा स्त्रिग्धप्रसन्नादीन् गुणान् बिभृयात् । भक्तिमित्रस्य स्वाराध्योदय इष्ट एवं स्वप्रतिपाल्यानां प्रजानामुदयो राज्ञा नित्यमेष्टव्य इत्यर्थः ॥ 12-140-25 बकातीनामेकाग्रत्वं निर्भयत्वं शीघ्रकारित्वमपरावृत्तित्वं च गुणास्तान् परार्थादाने राजाश्रयेदित्यर्थः ॥ 12-140-30 अश्वतरी गर्दभजाऽश्व उदरभेदेनैव प्रसूत इति प्रसिद्धम् ॥ 12-140-34 न संशयमनारुह्य इति झ. पाठः ॥ 12-140-40 पाषण्डाद्यैरविज्ञातैर्विदित्वारिंवशं नयेत् । इति ट. ड. थ. पाठः ॥ 12-140-47 कर्तव्या भृतिमिच्छता इति ट. पाठः । त्यक्तव्या भूतिमिच्छता इति ध. पाठः ॥ 12-140-56 शुष्क्रं लाभशून्यम् ॥ 12-140-57 त्रिवर्गः धर्मार्थकामाः तत्र त्रिविधा पीडा । धर्मेणार्थस्य पीडा अर्थेन धर्मस्य कामेन तयोरिति । अनुबन्धाः फलानि । धर्मस्यार्थः अर्थस्य कामः कामस्येन्द्रियप्रीतिरिति क्षुद्राः । धर्मस्य चित्तशुद्धिरर्थस्य यज्ञः कामस्य जीवनमात्रमिति प्राज्ञाः । तत्र बलाबलं ज्ञात्वाऽनुबन्धाँल्लिप्सेत पीडां तु पारवर्जयेदेवेत्यर्थः । पीडां विद्वान्वशं नयेदिति ड. थ. पाठः ॥ 12-140-62 गृध्रदृष्टिगृध्रवत् दूरदर्शी । बकवदालीनो निश्चलः । श्वचेष्टः शुनकवज्जागरूकश्चोरसूचकश्च । काकवत् शङ्की परेङ्गितज्ञः । भुजङ्गचरितं अकस्मात्परकृते दुर्गादौ प्रवेशनम् ॥ 12-140-64 श्रेणीमुख्यः नानाजातियाः सन्त एककार्ये निविष्टाः श्रेणयस्तासां मुख्यस्य उपजापो भेदः वल्लभानां मित्राणामनुनयेषु अन्यैः कियमाणेषु अमात्यान्परिरक्षेत । भेदात्संघातात्संभूयकार्यकारित्वाच्च । संहता ह्यामात्याः सद्यो राजानमराजानं कुर्युर्विपरीतं वा कुर्युरित्यर्थ-॥ 12-140-70 वृजिनाभिसंहितं आपत्कालाभिप्रायेणैवैतदुक्तं नत्वेतदेवं पुरुषः समाचरेत् । परेणाभियोगे कृते सति । इदं मदुक्तं कथं न भावयेत् अपितु भावयेदेव । आपदि एतदनुष्ठानादधर्मो नास्तीति भावः ॥