अध्यायः 143

भीष्मेण युधिष्ठिरंप्रति शरणागतरक्षणे मुचुकुन्दंप्रति भार्गवोक्तव्याधकपोतोपाख्यानानुवादारम्भः ॥ 1 ॥ वनमध्ये महावृष्टिनिपीडितेन वेदनचिद्व्याधेन वर्थपीडयाऽधः पतितां काञ्चन कपोर्ती पञ्जरे निरुद्ध्य वृष्ट्युपरमे कस्यचिन्महावृक्षस्याधोदेशे शयनम् ॥ 2 ॥

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे ॥
भीष्म उवाच ।
महान्धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम ॥
शिबिप्रभृतयो राजन्राजानः शरणं गतान् ।
परिपाल्य महात्मानः संसिद्धिं परमां गताः ॥
श्रूयते च कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥
युधिष्ठिर उवाच ।
कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसं भोजितः कां च गतिं लेभे स भारत ॥
भीष्म उवाच ।
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै ॥
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः ।
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ ॥
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् ।
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥
उशनोवाच ।
धर्मिश्चयसंयुक्तां कामार्थसहितां कथाम् ।
शृणुष्वावहितो राजन्गदतो मे महाभुजः ॥
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमितः ।
चचार पृथिवीपाल घोरः शकुनिलुब्धकः ॥
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः ।
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥
नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवाः ।
बान्धवैः संपरित्यक्तस्तेन रौद्रेण कर्मणा ॥
नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः ।
आत्मानं यो न संधत्ते सोन्यस्य स्यात्कथं हितः ॥
ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥
स वै क्षारकमादाय वने हत्वा च पक्षिणः ।
चकार विक्रयं तेषां पतङ्गानां जनाधिपः ॥
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥
ततः कदाचित्तस्याथ वनस्थस्य समन्ततः ।
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः ॥
मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम् ।
संछन्नस्तु मुहूर्तेन नौसार्थैरिव सागरः ॥
वारिधारासमूहेन संप्रहृष्टः शतक्रतुः ।
क्षणेन पूरयामास सलिलेन वसुंधराम् ॥
ततो धाराकुले लोके संभ्रमन्नष्टचेतनः ।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥
नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहंगहा ।
पूरितो हि जलौघेनन तस्य मार्गो वनस्य तु ॥
पक्षिणं वर्षवेगेन हता लीनास्तु पादपात् ।
मृगसिहवराहाश्च ये चान्ये तत्र पक्षिणः ॥
महता वातवर्षेण त्रासितास्ते वनौकसः ।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् ।
ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम् ॥
दृष्टवाऽऽर्तोपि हि पापात्मा स तां पञ्जरकेऽक्षिपत् ।
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे ॥
पापात्मा पापकारित्वत्पापमेव चकार सः ।
सोऽपश्यत्तरुषण्डेषु मेघनीलं वनस्पतिम् ॥
सेव्यमानं विहंगौघैश्छायावासफलार्थिभिः ।
धात्रा परोपकाराय स साधुरिव निर्मितः ॥
अथाभवत्क्षणेनैव वियद्विमलतारकम् । महत्सर इवोत्फुल्लं कुमुदच्छुरितोदकम् ।
कुसुमाकारताराढ्यमाकाशं निर्मलं बहु ॥
घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ।
दिशो विलोकयामास वेलां च सुदुरात्मवान् ॥
दूरे ग्रामनिवेशश्च तस्मात्स्थानादिति प्रभो ।
कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः ॥
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम् ।
शरणं यामि यान्यस्मिन्दैवतानीति भारत ॥
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।
दुःखेन महताऽऽविष्टस्ततः सुष्वाप पक्षिहा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

12-143-11 काकोलः काकविशेषः ॥ 12-143-15 क्षारकं जालम् ॥ 12-143-23 येचान्ये तत्र वर्तिन इति ट. द. पाठः ॥