अध्यायः 144

महावृक्षनिवासिना कपोतेनाहारार्थं गतायां निजपत्न्यां रात्रावनागतायां तद्गुणानुवर्णनपूर्वकं तांप्रति शोचनम् ॥ 1 ॥ भर्तृविलापं श्रुतवत्या व्याधपञ्जरस्थया कपोत्या धर्मोपन्यासपूर्वकं पतिंप्रति व्याधसत्कारचोदना ॥ 2 ॥

भीष्म उवाच ।
अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः ।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥
तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत ।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया ।
किंनु तत्कारणं येन साऽद्यापि न निवर्तते ॥
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ॥ तया विरहितं हीदं शून्यमद्य गृहं मम ।
पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः ।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत् ॥
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥
यदि सा रक्तेत्रान्ता चित्राङ्गी मधुरस्वरा ।
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥
न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता ।
नातिष्ठत्युपतिष्ठेन शेते च शयिते मयि ॥
हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता ।
प्रोपिते दीनवदना क्रुद्धे च प्रियवादिनी ॥
पतिधर्मव्रता साध्वी प्राणेभ्योऽपि गरीयसी ।
यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि ॥
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी ॥
वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम् ।
प्रासादोपि तया हीनः कान्तार इति निश्चितम् ॥
धर्मार्थकामकालेषु भार्या पुंसः सहायिनी ।
विदेशगमने चास्य सैव विश्वासकारिका ॥
भार्या हि परमो ह्यर्थः पुरुषस्येह पट्यते ।
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः ।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे ॥
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥
भीष्म उवाच ।
एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा ।
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम् ॥
कपोत्युवाच ।
अहोऽतीव सुभाग्याऽहं यस्या मे दयितः पतिः ।
असतो वा सतो वाऽपि गुणानेवं प्रभाषते ॥
सा हि स्त्रीत्यवगन्तव्या यस्य भर्ता तु तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं परम् ॥
दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता ।
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति ॥
इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत् ॥
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा ।
शरणागतसंत्राता भव कान्त विशेषतः ॥
एष शाकुनिकः शेते तव वासं समाश्रितः ।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् ।
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥
अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः ।
सा न्याय्याऽऽत्मवता नित्यं त्वद्विधेनानुवर्तितुं ॥
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम् ॥
स त्वं संतानवानद्य पुत्रवानपि च द्विज । त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य य ।
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥
शरीरे मा च संतापं कुर्वीथास्त्वं विहगंम ।
शरीरयात्रावृत्त्यर्थमन्यान्दारानुपैष्यसि ॥
इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी ।
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुश्चत्वारिंशदधिशततमोऽध्यायः ॥ 144 ॥

12-144-10 पतिव्रता पतिगतिः पतिप्रियहिते रता हि झ. पाठः ॥ 12-144-14 भार्या हि परमो नाथ इति ड. थ. पाठः ॥ 12-144-21 न सा स्त्रीत्यवगन्तव्या यस्यां भर्ता न तुष्यतीति झ. पाठः ॥