अध्यायः 149

युधिष्ठिरेण भीष्मंप्रति अबुद्धिपूर्वकब्रह्महत्याप्रायश्चित्तप्रश्नः ॥ 1 ॥ भीष्मेण जनमेजयस्याबुद्धिपूर्वकब्रह्महत्याप्राप्तिकथनपूर्वकं तत्कथाकथनारम्भः ॥ 2 ॥ शौनकेन स्वपादयोः प्रणमतो जनमेजयस्य गर्हणम् ॥ 3 ॥

युधिष्ठिर उवाच ।
अबुद्धिपूर्वं यत्पापं कुर्याद्भरतसत्तम ।
मुच्यते स कथं तस्मादेनसस्तद्ब्रवीहि मे ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम् ।
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ॥
आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः ।
अबुद्धिजा ब्रह्महत्या तमागच्छन्महीपतिम् ॥
ब्राह्मणाः सर्व एवैनं तत्यजुः सपुरोहिताः ।
स जगाम वनं राजा दह्यमानो दिवानिशम् ॥
प्रजाभिः स परित्यक्तश्चकार कुशलं महत् ।
अतिवेलं तपस्तेपे दह्यमानः स मन्युना ॥
ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान्बहून् ।
पर्यटन्पृथिवीं कृत्स्नां देशेदेशे नराधिपः ॥
तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपवृंहणम् ।
दह्यमानः पापकृत्या जगाम जनमेजयः ॥
चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् ।
समासाद्योपजग्राह पादयोः परिपीडयन् ॥
ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा ।
कर्ता पापस्य महतो भ्रूणहा किमिहागतः ॥
किं तवास्मासु कर्तव्यं मा मां द्राक्षीः कथंचन ।
गच्छगच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन् ॥
रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् ।
अशिवः शिवसंकाशो मृतो जीवन्निवाटसि ॥
अन्तर्भृत्युरशुद्धात्मा पापमेवानुचिन्तयन् ।
प्रबुध्यसे प्रस्वपिपि वर्तसे परमे सुखे ॥
मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि ।
पापायैव हि सृष्टोऽसि कर्मणेह यवीयसे ॥
बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान् ।
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया ॥
पितृवंशमिमं पश्य त्वत्कृते निधनं गतम् ।
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ॥
यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः ।
तेषु ते संततं द्वेषो ब्राह्मणेषु निरर्थकः ॥
इमं लोकं विमुच्य त्वमवाङ्भूर्धा पतिष्यसि ।
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ॥
स्वाद्यमानो जन्तुशतैस्तीक्ष्णदंष्ट्रैरयोमुखैः ।
ततश्च पुनरावृत्तः पापयोनिं गमिष्यसि ॥
यदिदं मन्यसे राजन्नायमस्ति कुतः परः ।
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥

12-149-3 पारिक्षित् पारिक्षितः ॥ 12-149-7 पापकृत्या पापक्रियया ॥ 12-149-10 मा मां स्प्राक्षीः कथंचनेति झ. पाठः ॥ 12-149-12 ब्रह्ममृत्युरशुद्धात्मेति झ. पाठः ॥ 12-149-13 यवीयसे हीनाय ॥ 12-149-15 त्वत्कृते नरकं गतमिति झ. पाठः ॥ 12-149-17 अशाश्वतीः सर्वस्यापि कर्मणोऽन्तवत्त्वात् । शाश्वतीः बहुत्वात् ॥