अध्यायः 159

भीष्मेण तपोनिरूपणम् ॥ 1 ॥

भीष्म उवाच ।
सर्वमेतत्तपोमूलं कवयः परिचक्षते ।
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते ॥
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः ।
तथैव वेदानृपयस्तपसा प्रतिपेदिरे ॥
तपसैव ससर्जान्नं फलमूलानि यानि च ।
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ॥
औषधान्यगदादीनि तिस्त्रो विद्याश्च संस्कृताः ।
तषसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम् ॥
यद्दुरापं दुराराध्यं दुराधर्षं दुरुत्सहम् । तत्सर्वं तपसा शक्यं तपो हि दुरतिक्रमम् ।
ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः ॥
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः ।
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते ॥
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः ।
निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ॥
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः ।
एतेभ्यो हि महाराज तपो नानशनात्परम् ॥
न दुष्करतरं दानान्नाति मातरमाश्रमः ।
त्रैविद्येभ्यः परं नास्ति संन्यासान्नापरं तपः ॥
इन्द्रियाणीह रक्षन्ति विप्रर्षिपितृदेवताः ।
तस्मादर्थे च धर्मे च तपो नानशनात्परम् ॥
ऋषयः पितरो देवा मनुष्या मृगपक्षिणः ।
यानि चान्यानि भूतानि स्यावराणि चराणि च ॥
तपः परायणाः सर्वे सिध्यन्ति तपसा च ते ।
इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे ॥
इमानीष्टविभागानि फलानि तपसः सदा ।
तपसा शक्यते प्राप्नुं देवत्वमपि निश्चयः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥

12-159-3 तपसो ह्यानुपूर्व्येण फलमूलानिलाशिनः । इति द. ध. पाठः ॥ 12-159-9 मातरमतिक्रम्याश्रमो न । सर्वेष्वप्याश्रमेषु माता पालनीयैव । तत्त्यागस्य संन्यासिनोऽप्ययोगात् ॥ 12-159-13 इमानिं नक्षत्रादीनि । सुकृतां वा एतानि ज्योतीषि यन्नक्षत्राणीश्रुतेः ॥