अध्यायः 161

भीष्मेण युधिष्ठिरंप्रति लोभादिनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
यतः प्रभवति क्रोधः कामो वा भरतर्षभ ।
शोकमोहौ विधित्सा च परासुत्वं तथा मदः ॥
लोभो मात्सर्यमीर्ष्या च कुत्साऽसूया कृपा भयम् ।
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥
भीष्म उवाच ।
त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः ।
उपासते महाराज समन्तात्पुरुषानिह ॥
एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च ।
वृका इव विलुम्पन्ति दृष्ट्वेव पुरुषेतरान् ॥
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते ।
इति मर्त्यो विजानीयात्सततं पुरुषर्षभ ॥
एतेषामुदयं स्थानं क्षयं च पृथिवीपते । हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः ।
यथातत्त्वं क्षितिपते तन्मे निगदतः शृणु ॥
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते ।
क्षमया तिष्ठते राजन्क्षमया विनिवर्तते ॥
संकल्पाज्जायते कामः सेव्यमानो विवर्धते ।
यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति ॥
[परामूया क्रोधलोभावन्तरा प्रतिमुच्यते । दयया सर्वभूतानां निर्वेदाद्विनिवर्तते ।]
अवद्यदर्शनादेति तत्त्वज्ञानाच्च नश्यति ॥
अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते ।
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति ॥
विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह ।
विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते ॥
प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः ।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते ।
दयया सर्वभूतानां निर्वेदात्सा निवर्तते ॥
सत्यत्यागात्तु मात्सर्यमहितानां च सेवया ।
एतत्तु क्षीयते तात साधूनामुपसेवनात् ॥
कुलाञ्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् ।
एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति ॥
ईर्ष्या कामात्प्रभवति संहर्षाच्चैव जायते ।
इतरेषां तु सत्वानां प्रज्ञया सा प्रणश्यति ॥
विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंमतैः ।
कुत्सा संजायते राजँल्लोकान्प्रेक्ष्याभिशाम्यति ॥
प्रतिकर्तुं न शक्ता ये बलस्थायापकारिणे ।
असूया जायते तीव्रा कारुण्याद्विनिवर्तते ॥
कृपणान्सततं दृष्ट्वा ततः संजायते कृपा ।
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥
अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा ।
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते ॥
एतान्येव जितान्याहुः प्रशान्तेन त्रयोदश । एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश ।
त्वया सत्यार्थिना नित्यं विजिता जेष्यता चते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥

12-161-4 दृष्ट्वेव पुरुषं बलादिति झ. पाठः ॥ 12-161-7 लोभात् केनचिन्निमित्तेनोपहतात् क्रोधो भवति । स च परदोषैर्दृष्टैरुदीयते उद्दीप्तो भवति । स क्षमया तिष्ठते निरुध्यते विनिवर्तते चेति । एवं सर्वत्र द्रष्टव्यम् ॥