अध्यायः 162

भीष्मेण युधिष्ठिरंप्रति नृशंसलक्षणादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
आनृशंस्यं विजानामि दर्शनेन सतां सदा ।
नृशंसान्न विजानामि तेषां कर्म च भारत ॥
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥
नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत ।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम् ॥
भीष्म उवाच ।
स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम् आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च ॥
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः ।
असंभोगी च मानी च तथा सङ्गी विकत्थनः ॥
सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा ।
वर्गप्रशंसीं सततमाश्रमद्वेपसंकरी ॥
हिंसाविकारी सततमविशेषगुणागुणः ।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति ।
आत्मशीलोपमानेन न विश्वसिति कस्यचित् ॥
परेषां यत्र दोपः स्यात्तद्गुह्यं संप्रकाशयेत् ।
समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत् ॥
तथोपकारिणं चैव मन्यते वञ्चितं परम् ।
दत्त्वाऽपि च धनं काले संतपत्युपकारिणे ॥
भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम् ।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत् ॥
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते ।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः ।
सदा विवर्जनीयो हि पुरुषेण बुभूषता ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥

12-162-5 दत्तमनुकीर्तयतीति दत्तानुकीर्तिः स्वस्य वदान्यत्वप्रकाशकः । विषमः विद्वेषकर्ता । क्षुद्रो नीचकर्मकारी । नैकृतिकः स्नेहं प्रदर्श्य वञ्चकः । शठः सत्यपि सामर्थ्ये दारिद्र्यव्यञ्जकः ॥ 12-162-6 बलीशः काकइव वञ्चकदृष्टिः । आश्रमद्वेषः संकरश्चास्यास्तीति आश्रमद्वेषसंकरी ॥ 12-162-8 आत्मशीलानुमानेनेति थ. पाठः ॥