अध्यायः 163

भीष्मेण युधिष्ठिरंप्रति यज्ञाद्यर्थं संपादीयद्रव्यविवेकथनम् ॥ 1 ॥ तथा पापविशेषाणां प्रायश्चित्तविशेषकथनम् ॥ 2 ॥

भीष्म उवाच ।
कृतार्थी यक्ष्यमाणश्च सर्ववेदान्तगश्च यः ।
आचार्यपितृकायार्थं स्वाध्यायार्थमथापि च ॥
एते वै साधवो दृष्टा ब्राह्मणाः धर्मभिक्षवः ।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत ॥
अन्यत्र दक्षिणादानं देयं भरतसत्तम ।
अन्येभ्योऽपि वहिर्वेदि न कृतान्नं विधीयते ॥
सर्वरत्नानि राजा हि यथार्हं प्रतिपादयेत् ।
ब्राह्मणायैव यज्ञाश्च सहान्नाः सहदक्षिणाः ॥
अन्येभ्यो विमलाचारा यजन्ते गुणतः सदा । यस्य त्रैवार्पिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥
यज्ञश्चेत्प्रतिरुद्धः स्यादंशेनैकेन यज्वनः ।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।
कुटुम्बात्तस्य तद्वित्तं यज्ञार्थं पार्थिवो हरेत् ॥
आहरेद्द्रुह्यतः किंचित्कामं शूद्रस्य वेश्मनि ।
न हि वेश्मनि शूद्रस्य किंचिदस्ति परिग्रहः ॥
योऽनाहिताग्निः शतगुरयज्वा त्त सहस्रगुः ।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥
अदातृभ्यो हरेद्वित्तं विख्याप्य नृपतिः सदा ।
तथैवाचरतो धर्मो नृपतेः स्यादथाखिलः ॥
तथैव सप्तमे भक्ते भक्तानि पडनश्नतः ।
अश्वस्तनविभागेन हर्तव्यं हीनकर्मणः ॥
खलात्क्षेत्रात्तथागाराद्यतो वाऽप्युपपद्यते । आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोपि वा ।
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ॥
क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा ।
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ॥
अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ।
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
अविकल्पः पुरा धर्मो धर्मवादैस्तु केवलः ॥
विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
आपत्सु गरणाद्भीतैर्लिङ्गः प्रतिनिधीकृतः ॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाप्नोति फलं तस्य प्रेत्य चेह च दुर्मतिः ॥
न ब्राह्मणो वेदयीत किंचिद्राजनि धर्मवित् । अविद्यावेदनाद्विद्यात्स्ववीर्यं वीर्यवत्तरम् ।
तस्माद्राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम् ॥
मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ।
तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद्गिरम् ॥
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।
धनैर्वैश्यश्च शुद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥
नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः ।
परिवेष्टाऽग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ॥
नरके निपतन्त्येते जुह्वानाः सवनस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥
प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निरिति सं प्रोच्यते धर्मदर्शिभिः ॥
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन ॥
प्रजाः पंशूश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः ।
इन्द्रियाणि यशः कीर्तिभायुश्चाप्यवकृन्तति ॥
उदक्यामासते ये च द्विजाः केचिदनग्नयः ।
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रकर्मिणः ॥
उदपानोदके ग्रामे ब्राह्मणो वृपलीयतिः ।
अपित्वा द्वादश समाः शूद्रकर्मैव गच्छति ॥
अभार्यी शयने विभ्रच्छूद्रं वृद्धं च वै द्विजः । अब्राह्मणं भन्यमानस्तृणेष्वासीत पृष्ठतः ।
तथा संशुध्यते राजञ्शृणु चात्र वचो मम ॥
यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः ।
स्थानासनाभ्यां विहरन्वती स त्रिभिर्वर्षैः शमयेदात्मपापम् ॥
न नर्मयुक्तमतृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥
श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् ।
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥
स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥
गोब्राह्मणहितार्थं च वर्णानां संकरेषु च ।
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः ॥
सुरापो ब्रह्महा चैव गुरुतल्पगतस्तथा ।
अचिरेण महाराज पतितो वै भवत्युत ॥
सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम् ।
विहारो मद्यपानं च अगम्यागमनं तथा ॥
पतितैः संप्रयोगश्च ब्राह्मणीयोनितस्तथा ।
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ॥
संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्दानान्न तु यानासनाशनात् ॥
एतानि हित्वातोऽन्यानि निर्देश्यानीति धारणा ।
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ॥
अनुत्तीर्य न होतव्यं प्रेतकर्मण्युपाश्रिते ।
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणम् ॥
अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः ।
प्रायश्चित्तान्यकुर्वाणा नैते कुर्वन्ति संविदम् ॥
अधर्मकारी धर्मेण तपसा हन्ति किल्विषम् ।
ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत् ॥
अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् । त्रिभागं ब्रह्महत्यायाः कन्यां प्राप्नोति दुष्यति ।
यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः ॥
ब्राह्मणानवगर्ह्येह स्पृष्ट्वा गुरुतरं भवेत् ।
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ॥
सहस्रं चैव वर्षाणां निपत्य नरकं वसेत् ।
तस्मान्नैवावगुर्याद्धि नैव जातु निपातयेत् ॥
शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात् ।
तावतीः स समा राजन्नरके प्रतिपद्यते ॥
भ्रूणहाऽऽहवमध्ये तु शुध्यते शस्त्रपाततः ।
आत्मानं जुहुयादग्नौ समिद्धे तेन शुध्यते ॥
सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ॥
तया स काये निर्दग्धे मृत्युं वा प्राप्य शुध्यति ।
लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥
गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः ।
शिलां ज्वलन्तीमासाद्य मृत्युना सोभिशुध्यति ॥
अधवा शिश्नवृषणावादायाञ्जलिना स्वयम् ।
नैर्ऋतीं दिशमास्थाय निपतेत्सत्वजिह्मगः ॥
ब्राह्मणार्थेऽपि वा प्राणान्संत्यजंस्तेन शुध्यति ॥
अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा ।
मरुत्सोमेन वा सम्यगिह प्रेत्य च पूज्यते ॥
तथैव द्वादशसमाः कापोतं धर्ममाचरेत् ।
एककालं चरेद्भैक्षं स्वकर्मोदाहरञ्जने ॥
एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् ।
एवं गर्भमविज्ञातमात्रेयीं वा निपातयेत् ॥
द्विगुणा ब्रह्महत्या वै आत्रेयीहिंसने भवेत् ।
सुरापी नियताहारो ब्रह्मचारी क्षपाचरः ॥
ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम् ।
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात् ॥
वैश्यं दत्त्वा तु वर्षे द्वे ऋषभैकशतं च गाः ।
शूद्रं हत्वाऽब्दमेवैकमृषभं च शतं च गाः ॥
श्ववराहखरान्हत्वा शौद्रमेव व्रतं चरेत् ।
मार्जारचाषमण्डूकान्काकं व्यालं च मूषिकम् ॥
उक्तः पशुवधे दोषो राजन्प्राणिनिपातनात् । `अनस्थिकेषु गोमूत्रं पानमेकं प्रचक्षते ।'
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥
तल्पे वाऽन्यस्य चौर्ये च पृथक् संवत्सरं चरेत् ।
त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते ॥
काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् ।
स्थानासनाभ्यां विहरेत्रिरह्नाऽभ्युपयन्नपः ॥
`ऐवमेव चरन्राजंस्तस्मात्पापात्प्रमुच्यते ।' एवमेव निराकर्ता यश्चाग्नीनपविध्यति ॥
त्यजत्यकारणे यश्च पितरं मातरं गुरुम् ।
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः ॥
ग्रासाच्छादनयानं च शयनं ह्यासनं तथा । `ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात्प्रमुच्यते ॥'
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः । यत्पुंसः परदारेषु तदेनां चारयेद्व्रतम् ।
श्रेयांसं शयने हित्वा पापीयांसं समृच्छति ।
श्वभिस्तमर्दयेद्राजा संस्थाने बहुविस्तरे ॥
पुमांसं बन्धयेत्पाशैः शयने तप्त आयसे ।
अप्यादधीत दारूणि तत्र दह्येत पापकृत ॥
एव दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे ।
संवत्सारोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥
द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः ।
कुमारः पञ्चवर्षाणि चरेद्भैक्षं मुनिव्रतः ॥
परिवित्तिः परिवेत्ता या चैव परिविद्यते ।
पाणिग्राहस्त्वधर्मेण सर्वे ते पतिताः स्मृताः ॥
चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् ।
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥
परिवेत्ता प्रयच्छेता तां स्नुषां परिवित्तये । ज्येष्ठेन त्वभ्यनुज्ञातो यवीयाप्यनन्तरम् ।
एनसो मोक्षमाप्नोति तौ च सा चैव धर्मतः ॥
अमानुषीषु गोवर्जमनादिष्टं न दुष्यति ।
अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ॥
परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् ।
चरेत्सप्तगृहान्भैक्षं स्वकर्म परिकीर्तयन् ॥
तथैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति ।
चरेत्संवत्सरं चापि तद्व्रतं येन कृन्तति ॥
भवेत्तु मानुषेष्वेवं प्रायश्चिमनुत्तमम् ।
दानं वा दानशक्तेषु सवेर्मतत्प्रकल्पयेत् ॥
अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते ।
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ॥
मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति ।
ब्राह्मणस्तु सुरापस्य गन्धमादाय सोमपाः ॥
अपख्यहं पिबेदुष्णाः संयतात्मा जितेन्द्रियः ।
अपः पीत्वा तु स पुनर्वायुभक्षो भवेन्त्र्यहम् ॥
एवमेतत्समुद्दिष्टं प्रायश्चित्तिषेवणम् ।
ब्राह्मणस्य विशेषेण यदज्ञानेन जायते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिषष्ट्यधिकशततमोऽधअयायः ॥ 163 ॥

12-163-2 निःश्वो निर्धनः ॥ 12-163-3 अन्यत्र उक्तेभ्योऽन्यत्रापि ब्राह्मणेषु अन्येभ्योऽब्राह्मणेभ्यः कृतान्न पक्वान्नं न विधीयते । तेभ्योऽप्यकृतान्नं देयमिति भावः ॥ 12-163-6 ब्राह्मणस्य यज्ञः एकेनांशेन स्त्र्याद्यङ्गनासेन प्रतिरुद्धः स्यात्तर्हितस्य वैश्यस्य तद्धनं एवर्थिवो यज्ञार्थं हरेदिति द्वितीयेन संबन्धः । दोषेणैकेन यज्वन इति ध. पाठः ॥ 12-163-11 भक्तानि षडनश्नतः ध्यहमुपोषितस्य ॥ 12-163-13 बालिश्यादित्यनेन क्षत्रियस्यैव स दोष इत्युक्तम् ॥ 12-163-21 परिवेष्टा आहुतिप्रक्षेप्ता । कन्यायुवत्योः स्मार्ताग्निहोमे स्वयं पल्यणि क पुत्रः कुमार्थन्तवासी वेत्याश्वलायनवचनादधिकृतयोरप्रति प्रसक्तेर्निषेध उक्तः ॥ 12-163-26 आसते मिथुनीभवन्ति ॥ 12-163-27 उदपानः कूपस्तदेकोदके एककूपोपजीव्येत्यर्थः ॥ 12-163-28 अभार्यामपरिणीतां शयने बिभ्रद्ब्राह्मणस्तथा शूद्रं वृद्धं महामिति गन्यमानस्तश्राऽब्राह्मणं क्षत्रियं वैश्यं वा वृद्धं मन्यमानस्तृणेषु यद्यासीतोपविष्ठः स यथा संशुध्येत तथा तथा शृण्विशि सार्धार्थः ॥ 12-163-29 विहरन् करोतीति संबन्धः ॥ 12-163-36 अनिर्देश्यानि बुद्धिपूर्वकानि चेदत्र प्रायश्चित्तं नास्तीत्यर्थः । किं तर्हि मरणान्तमेव प्रायश्चित्तमिति धारणानिश्चयः । ब्राह्मणीयोनितः । अब्राह्मणस्य ब्राह्मणीगमनादित्यर्थः ॥ 12-163-37 याजनादित्रयेण सद्यः पतति नतु यानादिना । तेन तु वर्षेण पततीत्यर्थः ॥ 12-163-38 एतानि पञ्चमहापापानि । अन्यानि तु निर्देश्यानि सप्रायश्चित्तानि । अव्यसनी पुनः पापरुचिर्न स्यात् ॥ 12-163-39 पूर्वेषु त्रिषु सुरापब्रह्मघ्नगुरुतल्पगेषु तेषु मृतेषु सपिण्डानामाशौचाभावात्तेषां प्रेतकर्मनिषेधाच्चेति भावः ॥ 12-163-43 अवगर्ह्य विनिन्द्य । स्पृष्ट्वाऽर्थचन्द्रादिनापनोद्य । गुरुतरं शेषादयधिकं पातकं तस्य पलम् ॥ 12-163-46 आहवमध्ये गोब्राह्मणरक्षार्थं संग्रामे शस्त्रेण हतश्चेद्ब्राह्महा शुध्यते ॥ 12-163-54 सवनीत्रिषवणस्रायी । आत्रेयीं प्राप्तगर्भां स्रियम् ॥ 12-163-60 पृथक् एकैकस्योपपातकस्य प्रायश्चित्तं संवत्सरं चरेत् ॥ 12-163-68 अभिशस्तस्य प्रायश्चित्तं सद्योऽकुर्वतः ॥ 12-163-69 तस्य पतितस्य सहसेविनः संसर्गिणिः ॥ 12-163-72 परिवेत्ता कनिष्ठः परिवित्तये ज्येष्ठाय भार्यां स्रुषात्वेन प्रयच्छेत् । एतां स्वेनाभुक्तां तवैवेयं स्नुषेति मानपूर्वकं समर्पयेत् । तदा ज्येष्ठानुज्ञातो यवीयानन्तरं तां स्वीकुर्यात् । पाणिग्राहेण स्वदोषे क्षमापिते त्रयोऽपि पापान्मुच्यन्त इति सार्धश्लोयार्थः ॥ 12-163-73 अमानुषीषु पशुजातिषु ॥ 12-163-74 ऊर्ध्ववालं चमरीपुच्छं परिधाय रङ्गेऽव्रतरन् ब्राह्मण एवैतत्प्रायश्चित्तं कुर्यात् ॥ 12-163-75 येन परिधानेन हेतुभूतेन ऊर्ध्वंवालं यः कृन्तति छिनत्ति स उक्तं व्रतं संवत्सरं चरेत् ॥ 12-163-77 अनास्तिकेषु आस्तिकेषु ॥