अध्यायः 164

भीष्मेण नकुलप्रश्नात्स्वङ्गोत्पत्तिकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
कथान्तरमथासाद्य स्वङ्गयुद्धविशारदः ।
नकुलः शरतल्पस्थमिदमाह पितामहाम् ॥
नकुल उवाच ।
धनुः प्रहरणं श्रेष्ठमितिवादः पितामह ।
मतस्तु मम धर्मज्ञः खङ्ग एव सुसंशितः ॥
छिन्ने च कार्मुके राजन्प्रक्षीणेषु शरेषु च ।
खङ्गेन शक्यते योद्धुमात्मानं परिरक्षितुम् ॥
शरासनधरांश्चैव गदाशक्तिधरांस्तदा ।
एकः खङ्गधरो वीरः समर्थः प्रतिबाधितुम् ॥
अत्र मे संशयश्चैव कौतूहलमतीव च ।
किंस्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥
कथं चोत्पादितः खङ्गः कस्मै चार्थाय केन वा ।
पूर्वाचार्यं च खङ्गस्य प्रव्रवीहि पितामह ॥
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।
स्वरकौशलसंयुक्तं सूक्ष्मचित्रार्थवत्सुखम् ॥
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् ।
शिक्षया चोपपन्नाय द्रोणशिष्याय पृच्छते ॥
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः ।
शरतल्पगतो भीष्मो नकुलाय महात्मने ॥
भीष्म उवाच ।
तत्त्वं शृणुष्व माद्रेय यथैतत्परिपृच्छसि ।
प्रबोधितोऽस्मि भवता सानुमानिव पर्वतः ॥
सलिलैकार्णवं तात पुरा सर्वमभूदिदम् ।
अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम् ॥
तमस्संवृतमस्पर्शमतिगम्भीरदर्शनम् ।
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् ।
आकाशममृजच्चोर्ध्वमध्नो भूमिं च नैर्ऋतिम् ॥
ततः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा । संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ।
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः । जनयामास भगवान्पुत्रानुत्तमतेजसः ।
मरीचिं भृगुमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठाङ्गिरसौ चोभौ भरद्वाजं तथैव च ॥
प्रजापतिस्तथा दक्षः कन्याः षष्टिमजीजनात् ।
ताश्च ब्रह्मर्पीन्सर्वान्प्रजार्थं प्रतिपेदिरे ॥
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा ।
गन्धर्वाप्सरसश्चैव रक्षासि विविधानि च ॥
पतत्रिमृगमीनाश्च गावश्चैव महोरगाः ।
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥
उद्भिज्जाः स्वेदजाश्चैव साण्डजाश्च जरायुजाः ।
अज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम् ॥
अतः सर्गमिमं कृत्वा सर्वलोकपितामहः ।
अश्वतं वेदपठितं धर्मं च जुजुपे पुनः ॥
स्मन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः । ---त्या वसवो रुद्राः ससाध्या मरुदश्विनः ।
भृ---त्र्यङ्गिरसः सिद्धाः कश्यपश्च तपोधनाः ।
वष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥
क्रयो बालखिल्याश्च प्रभासाः सिकतास्तथा ।
घृगाच्या सोमवायव्या वैश्वानरमरीचिपाः ॥
करूपाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः ।
---पप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् ।
धर्मस्यापनयं चक्रुः क्रोधलोभसमन्विताः ॥
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः ।
शम्बरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः ॥
एते चान्ये च बहवः सगणा दैत्यदानवाः ।
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥
सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् ।
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत ।
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ॥
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ।
अथ वै भगवान्ब्रह्मा सर्वलोकनमस्कृतः ॥
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ।
शतयोजनविस्तारे मणिमुक्ताचयाचिते ॥
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः ।
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।
मरुद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः ॥
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम् ।
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् ।
अत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥
चन्द्रमा विमलं व्योम यथाऽभ्युदिततारकम् ।
विदार्याग्निं तथा भूतमुत्थितं श्रूयते तदा ॥
लोनीत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ।
प्रांशुमुद्धर्षणं चापि तथैव ह्यमितौजसम् ॥
अस्मिन्नुत्पद्यमाने च प्रचचास वसुंधरा ।
महोर्मिकलिलावर्तश्रुक्षुभे स महोदधिः ॥
पेतुश्चोत्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः । अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥
ततः स तुमुलं दृष्ट्वा तद्भूतं समुपस्थितम् ।
महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥
मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान् ।
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥
ततस्तद्रुपमुत्सृज्य बभौ निस्त्रिंश एव सः ।
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥
ततस्तं नीलकण्ठाय रुद्रायर्षभकेतवे ।
ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम् ॥
ततः स भगवान्रुद्रो ब्रह्मर्षिगणपूजितः ।
प्रगृह्मासिममेयात्मा रूपमन्यच्चकार ह ॥
चतुर्बाहुः स्पृशन्मूर्ध्ना भूमिष्ठोऽपि दिशो दश ।
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ।
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् ॥
नेत्रं चैकं ललाटस्थं भास्करप्रतिमं महत् ।
शुशुभाते सुविमले द्वे नेत्रे कृष्णपिङ्गले ॥
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा ।
संप्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम् ॥
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् । चचार विविधान्मार्गान्दानवान्तचिकीर्षया ।
विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया ॥
तस्य नादं विनदतो महाहासं च मुञ्चतः ।
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया ।
निशाम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥
अश्मभिश्चाम्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ।
घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयस्मयैः ॥
ततस्तु दानवानीकं संप्रणेतृकमप्युत ।
खङ्गं दृष्ट्वा बलाधूतं प्रमुमोह चचाल च ॥
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम् ।
तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रथमन्नपि ।
अचरद्वैरिसङ्घेषु दावाग्निरिव कक्षगः ॥
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः ।
उत्तमाङ्गप्रकृत्ताश्च पेतुरुर्व्यां महाबलाः ॥
अपरे दानवा भग्नाः खङ्गधारावपीडिताः ।
अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे ॥
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ।
अपरे जग्मुराकासमपरेऽम्भः समाविशन् ॥
तस्मिन्महति संवृत्ते समरे भृशदारुणे ।
बभूव भूः प्रतिभया मांसशोणितकर्दमा ॥
दानवानां शरीरैश्च पतितैः शोणितोक्षितैः ।
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥
`रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा । रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥'
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् ।
रौद्रं रुपमथाक्षिप्य चक्रे रूपं शिवं शिवः ॥
ततो महर्षयः सर्वे सर्वे देवगणास्तथा ।
जयेनाद्भुतकल्पेन देवदेवमथास्तुवन् ॥
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् ।
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥
विष्णुर्मरीचये प्रादान्मरीचिर्भार्गवाय तम् ।
महर्षिभ्यो ददौ खङ्गमृषयो वासवाय च ॥
महेन्द्रो लोकपालेभ्यो लोकपाला तु पुत्रक ।
मनवे सूर्यपुत्राय ददुः खङ्गं सुविस्तरम् ॥
ऊचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः ।
असिना धर्मगर्भेण पालयस्व प्रजा इति ॥
धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मार्थकारणात् ।
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ।
व्यङ्गता च शरीरस्य वधो नाल्पस्य करणात् ॥
असेरेतानि रूपाणि दुर्वारादीनि नि दशेत् ।
असेरेवं प्रमाणानि परमाण्यभ्यतिक्रमात् ॥
अभिषिच्याथ पुत्रं स्वं प्रजानामधिपं ततः ।
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ।
आयुश्च तस्माल्लोभे तं नहुषश्च ततो भुवि ॥
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ।
आधूर्तश्च गयस्तस्मात्ततो भूमिशयो नृपः ॥
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम् ।
तस्माल्लोभे च धर्मज्ञो राजन्नैलबिलस्तथा ॥
ततस्त्वैलबिलाल्लेभे धुन्धुमारो नरेश्वरः ।
धुन्धुमाराच्च काम्भोजो मुचुकुन्दस्ततोऽभजत् ॥
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ।
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ।
हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः ।
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि । रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥
कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम् ।
रोहिण्यो गोत्रमस्याथ रुद्राश्च गुरुसत्तमाः ॥
असेरष्टौ हि नामानि रहस्यानि निबोध मे ।
पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ॥
असिर्विशसनः खङ्गस्तीक्ष्णचर्मा दुरासदः ।
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥
अग्र्यः प्रहरणानां च खङ्गो भुवि परिश्रुतः । महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ।
`एतानि चैव नामानि पुराणे निश्चितानि वै ॥'
पृथुस्तूत्पादयामास धनुराद्यमरिंदमः । तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि ।
धर्मेण च यथापूर्वं वैन्येन परिरक्षिता ॥
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि ।
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥
इत्येष प्रथमः कल्पो मया ते कथितः पुनः ।
एवमेवासिसर्गोऽयं यथावद्भरतर्षभ ॥
सर्वथा तमिह श्रुत्वा स्वङ्गस्यागममुत्तमम् ।
लभते पुरुषः कीर्ति प्रेत्य चानन्त्यमश्नुते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥

12-164-1 कथान्तरं आपद्धर्माणं साङ्गानां समाप्तत्वात् कथाया अवसानं असाद्य प्राप्य ॥ 12-164-10 धातुमानिव पर्वत इति झ. पाठः । तत्र धातुमान् गैरिकवान् रुधिरोक्षितत्वादित्यर्थः ॥ 12-164-19 प्लवङ्ग श्च महोरगा इति झ. पाठः ॥ 12-164-21 धर्मं प्रयुयुजे तत इति झ. पाठः ॥ 12-164-25 वानप्रस्था इति झ. पाठः ॥ 12-164-32 पद्मानीव तारका यत्र लग्नास्तस्मिन् पद्मतारके । अत्यन्तमुच्छ्रित इत्यर्थः ॥ 12-164-35 समिद्भिः परिकीर्णमिति झ. पाठः ॥ 12-164-38 विकीर्याग्निमिति झ. पाठः ॥ 12-164-51 त्रिकूटं त्रीणि कृटानि कपटानि पार्श्वयोरग्ने च तीक्ष्णधाररूपाणि परविदारकाणि यस्मिंन् ॥ 12-164-72 दुर्वागादीनि निर्दिशेदिति ट. ड. पाठः ॥