अध्यायः 012

युधिष्ठिरंप्रति नकुलवाक्यम् ॥ 1 ॥

वैशंपायन उवाच ।
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् ।
राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम् ॥
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदम ।
व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ॥
नकुल उवाच ।
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः ।
तस्माद्विद्वि महाराज देवाः कर्मफले स्थिताः ॥
अनास्तिकानां भूतानां प्राणदाः पितरश्च ये ।
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ॥
वेदवादापविद्धास्तु तान्विद्धि भृशनास्तिकान् ।
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु ॥
देवयानेन नाकस्य पृष्ठमाप्नोति भारत ।
अत्याश्रमानयं सर्वानित्याहुर्वेदमिश्चयाः ॥
ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध नराधिप ।
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् ॥
कृतात्मा स महाराज स वै त्यागी स्मृतो नरः ॥
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः ।
आत्मत्यागी महाराज स त्यागी तापसो मतः ॥
अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः ।
अयाचकः सदायोगी स त्यागी पार्थ भिक्षुकः ॥
क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः ।
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ॥
आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः । एकतश्च त्रयो राजन्गृहस्थाश्रम एकतः ॥ 12-12-13aसमीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत । अयं पन्था महर्षीणाप्रियं लोकविदां गतिः ॥
इति यः कुरुते भावं स त्यागी भरतर्षभ ।
नरः परित्यज्य गृहान्वनमेति विमूढवत् ॥
यदा कामान्समीक्षेत धर्मवैतंसिको नरः ।
अथैनं मृत्युपाशेन कण्ठे बध्नाति सृत्युराट् ॥
अभिमानकृतं कर्म नैतत्फलवदुच्यते ।
त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥
शमो दमस्तथा धैर्यं सत्यं शौचमथार्जवम् ।
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते ।
अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः ।
मां यक्ष्यन्तीति धर्मात्मा यज्ञैर्विविधदक्षिणैः ॥
वीरुधश्चैव वृक्षांश्च यज्ञार्थं वै तथौषधीः ।
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ॥
गृहस्थाश्रमिणस्तच्च यज्ञकर्माविरोधितम् ।
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥
तत्संप्राप्य गृहस्था ये पशुधान्यधनान्विताः ।
न यजन्ते महाराज शाश्वतं तेषु किल्विषम् ॥
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथा परे ।
अथापरे महायज्ञान्मनस्येव वितन्वते ॥
`इदमन्यन्महाराज विद्वद्भिः कथितं मम ।
भूमिरग्निश्च वायुश्च न चापो न दिवाकरः ॥
नक्षत्राणि न चन्द्रश्च न दिशः काल एव च ।
शब्दः स्पर्शश्च रूपं च न गन्धो न रसः क्वचित् ॥
न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते ।
प्रत्यक्षमनुमानं न नोपमानमथागमः ॥
नार्थापत्तिर्न चैतिह्यं न दृष्टान्तो न संशयः ।
न क्वचिन्निर्णयो राजन्न धर्माधर्म एव च ॥
तिर्यक्व स्थावरं चैव न देवा न च मानुषाः । वर्णाश्रमविभागाश्च न च कर्ता न कामकृत् ।
न चार्थश्च विभूतिश्च न चार्थस्य विचेष्टितम् ॥
तमोभूतमिदं सर्वमनालोकं जगन्नृप ।
न चात्मा विद्यमानोपि मनसा योगमिच्छति ॥
अचेतनं मनस्त्वासीदात्मा एव सचेतनः । ईश्वरश्चेतनस्त्वेकस्तेनेदं गहनीकृतम् ।
मन्त्राश्च चेतना राजन्न च देहेन योजिताः ॥
तेन विश्वसृजो नाम ऋषयो मन्त्रदेवताः ।
चैतन्यमीश्वरात्प्राप्य ब्रह्माण्डं तैर्विनिर्मितम् ॥
इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः ।
सृष्टिस्तेन समारब्धा प्रसादादीश्वरस्य च ॥
चैतन्यमीश्वरस्येदं सचेतनमिदं जगत् ।
योगेन च समाविष्टं जगत्कृत्स्नं च शंभुना ॥
धर्मश्चार्थश्च कामश्च उक्तो मोक्षश्च संक्षये ।
ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया ॥
अज्ञो जन्तुरनीशश्च भाजनं सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥
प्रधानं पुरुषः चैव आत्मानं सर्वदेहिनाम् । मनसा विषयैश्चैव चेतनेन प्रचोदिताः ।
सुखदुःखेन युज्यन्ते कर्मभिश्च प्रचोदिताः ॥
वर्णाश्रमविभागाश्च ईश्वरेण प्रवर्तिताः ।
सदेवासुरगन्धर्वं येनेदं निर्मितं जगत् ॥
त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः ।
जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथंचन ॥
हित्वाहित्वा च भूतानि हत्वा सर्वमिदं जगत् ।
यजन्ते कर्मणा देवा न स पापेन लिप्यते ॥
हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम् ।
देवतानामृषीणां च ते च यान्ति परां गतिम् ॥
पातिताः शत्रवः पूर्व सर्वत्र वसुधाधिपैः । प्रजानां हितकामैश्च आत्मनश्च हितैषिभिः ।
यदि तत्र भवेत्पापं कथं ते स्वर्गमास्थिताः । न प्राप्ता नरकं राजन्वेष्टिताः पापकर्मभिः ॥'
एवं मनःसमाधानं मार्गमातिष्ठतो नृप ।
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥
स रत्नानि विचित्राणि संहृतानि ततस्ततः ।
मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ॥
कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ।
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः ॥
ये चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः । तैर्यजस्व महीपाल शक्रो देवपतिर्यथा ।
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् ।
अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः ।
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ॥
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः ।
वयं ते राजकलयो भविष्याम विशांपते ॥
अदातारोऽशरण्याश्च राजकिल्विषभागिनः ।
दुःखानामेव भोक्तारो न सुखानां कदाचन ॥
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् ।
तीर्थेष्वनभिसंप्लुत्य प्रव्रजिष्यसि चेत्प्रभो ॥
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् ।
लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ॥
अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम् ।
परित्यज्य भवेत्त्यागी न हित्वा प्रतितिष्ठति ॥
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ॥
निहत्य शत्रूंस्तरसा समृद्धाञ्शक्रो यथा दैत्यबलानि सङ्ख्ये ।
कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिवशिष्टजुष्टे ॥
क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय ।
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताऽद्य पार्थ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

12-12-2 तम्रास्यो दुःखेन विवर्णमुस्रः ॥ 12-12-3 विशाखयूपे क्षेत्रविशेषे । देवानां देवैः । अग्नयोऽग्निस्थापनार्थानि स्थण्डिलानि । चिता इष्टकाभी रचिता अद्यापि दृश्यन्ते । तेन देवत्वमपि कर्मफलमेवेत्यर्थः । विशालयूप इति थ. पाठः ॥ 12-12-4 अनास्तिकानामास्तिक्यशून्यानामपि प्राणदा वृष्टिद्वारा अन्नप्रदाः । विधिं अग्निं वा अकामयतेत्यादि अग्न्यादिभावस्य कर्मसाध्यत्वज्ञापकम् । अनास्तिकनास्तिकानां प्राणदा इति थ. ड. पाठः ॥ 12-12-5 वेदवादः अपविद्धस्त्यक्तो यैस्तान् ॥ 12-12-6 देवयानेन मार्गण । पृष्ठमुपरिभागं ब्रह्मलोकमित्यर्थः । अयं गृहाश्रमः सर्वानाश्रमान् अति अतिक्रान्तः । तेभ्यः श्रेष्ठ इत्यर्थः ॥ 12-12-7 तान्ब्राह्मणान् गत्वा निबोध बुध्यस्व । अवासृजन् समार्पयन् ॥ 12-12-8 कृतात्मा जितचित्तः ॥ 12-12-9 सुखादानं गार्हथ्यसुखभोगम् । ऊर्ध्वं वनादौ प्रतिष्ठितो निष्ठावान् सन्यः आत्मत्यागी देहत्यागी ॥ 12-12-10 परिपतन् भिक्षार्थं पर्यटन् ॥ 12-12-13 आश्रमान्तरे स्वर्गएवास्ति न कामः । गार्हस्थ्ये तूभयमस्तीति अयमेव मार्गो गतिश्चेत्यर्थः ॥ 12-12-15 धर्मवैतंसिको धर्मध्वजी ॥ 12-12-16 त्यागयुक्तं अभिमानत्यागोपेतम् ॥ 12-12-17 आर्षः ऋषीणां हितः ॥ 12-12-18 अत्र गार्हस्थ्ये ॥ 12-12-19 इह विधौ । प्रसृतस्य निष्ठावतः ॥ 12-12-48 प्रमादो राज्याकरणम् । परिमुष्यतां लुप्यमानानाम् ॥ 12-12-53 अन्तराले पिशाचयोनौ ॥