अध्यायः 165

स्वस्वाभिमतार्थकथनाय चोदितैर्विदुरार्जुनभीमसेनैः क्रमेण धर्मार्थकामेषु अभिष्टुतेषु युधिष्ठिरेण मोक्षप्रशंसनम् ॥ 1 ॥

वैशंपायन उवाच ।
इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः ।
पप्रच्छावसथं गत्वा भ्रातृन्विदुरपञ्चमान् ॥
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै ।
संपृष्टा नैष्ठिकं वाक्यं यथाबद्वक्तुमर्हथ ॥
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥
विदुर उवाच ।
बहुश्रुतं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।
भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः ॥
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।
धर्मेण देवा दिवि च धर्मे चार्थः समाहितः ॥
धर्मो राजन्गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते ।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ॥
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ।
तथा च सर्वभूतेषु वर्तितव्यं यतात्मना ॥
वैशंपायन उवाच ।
समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः ।
ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः ॥
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते ।
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च ॥
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।
निवृत्तेऽर्थे न वर्तेते धर्मकामाविति श्रुतिः ॥
विषहेतार्थवान्धर्ममाराधयितुमुत्तमम् ।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।
अर्थसिद्ध्या विनिर्वृत्तावृभावेतौ भविष्यतः ॥
तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः ।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥
काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः ।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥
`अर्थार्थिनः सन्ति नित्यं परितष्यन्ति कर्मभिः ।' अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः ।
कुलप्रत्यागमाश्चैके स्वंस्वं धर्ममनुष्ठिताः ॥
आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता ॥
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् । एतन्मतिमतांश्रेष्ठ मतं मम यथातथम् ।
अनयोस्तु विबोध त्वं वचनं शक्रकण्वयोः ॥
वैशंपायन उवाच ।
तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।
नकुलः सहदेवश्च वाक्यमूचतुरुत्तमम् ॥
आसीनश्च शयानश्च विचरन्नपि वा स्थितः ।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥
अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये ।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।
मध्विवामृतसंसृष्टं तस्मादेतौ मताविह ॥
अनर्थस्य न कामोस्ति तथाऽर्थोऽधर्मिणः कुतः ।
तस्मादुद्विजले लोको धर्मार्थाभ्यां बहिष्कृतात् ॥
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि ॥
धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम् ।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥
वैशंपायन उवाच ।
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।
भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे ॥
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥
कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।
पलाशाः शाकमूलाशा वायुभक्षाः सुसंयताः ॥
वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः ।
श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे ॥
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।
देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥
समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः ।
कामो हि विविधाकारः सर्वं कामेन संततम् ॥
नास्ति नासीन्न भविता भूतं काममृते परम् ।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं न पिण्याको घृतं श्रेय उदश्वितः ॥
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः । पुष्पतो मध्विव परं कामात्संजायते सुखम् ।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥
[नाकामतो ब्राह्मणाः स्वन्नमर्था न्नाकामतो ददति ब्राह्मणेभ्यः ।
नाकामतो विविधा लोकचेष्टा तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः ॥]
सुचारुवेषाभिरलंकृताभि र्मदोत्कटाभिः प्रियवादिनीभिः ।
रमस्व योषिद्भिरुपेत्य कामं कामो हि राजन्परमाभिरामः ॥
बुद्धिर्ममैषा परिखास्थितस्य माभूद्विचारस्तव धर्मपुत्र ।
स्वात्संहितं सद्भिरफल्गुसार मसस्तवाक्यं परमानृशंसम् ॥
वर्मार्थकामाः सममेव सेव्या यो ह्येकभक्तः स नरो जघन्यः ।
द्वयोस्तु सक्तं प्रवदन्ति मध्यमं स उत्तमो योऽभिरतस्त्रिवर्गे ॥
प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः ।
ततो वचः संग्रहविस्तरेण प्रोक्त्वाऽथ वीरान्विरराम भीमः ॥
ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् ।
उवाच वाचाऽवितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः ॥
निःसंशयं निश्चितसर्वशास्त्राः सर्वे भवन्तो विदितप्रमाणाः ।
विज्ञातुकामस्य ममेह वाक्य मुक्तं यद्वो नैष्ठिकं तच्छ्रुतं मे । इहानुवंशं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥
यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे ।
विमुक्तदोषः समफल्गुसारो विमुच्यते दुःखसुखात्स सिद्धः ॥
भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि ।
भूयश्च तैस्तैरुपसेवितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥
स्नेहेन बद्धस्य न सन्ति तानि चैवं स्वयंभूर्भगवानुवाच ।
बोधाय निर्वाणपरा भवन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥
एतच्च मुख्यं न तु कामकारो यथा नियुक्तोऽस्मि तथा करोमि ।
भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥
न कर्मणाऽप्नोत्यनवाप्यमर्थं यद्भावि तद्वै भवतीति विद्मः ।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्माददो लोकहिताय गुह्यम् ॥
वैशंपायन उवाच ।
तदग्र्यबुद्धेर्वचनं मनोनुगं समस्तमाज्ञाय तथाहि हेतुमत् ।
तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रिरेऽञ्जलिम् ॥
सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्गतवाक्यकण्टकाम् ।
निशम्य तां पार्थिवभाषितां गिरं पार्थस्य सर्वे प्रणता बभूवुः ॥
तथैव राजा प्रशशंस् वीर्यवान् पुनश्च पप्रच्छ सरिद्वरासुतम् ।
धर्मार्थकामेषु विनिश्चयज्ञं ततः परं धर्ममहीनचेतसम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

12-165-3 त्रिवर्गविजयाय कामक्रोधलोभानां जयाय ॥ 12-165-12 अव्यतिक्रमः मर्यादा ॥ 12-165-16 निस्तन्तवः नैष्ठिकब्रह्मचारिणः ॥ 12-165-17 श्मश्रुला हीनिषेविण इति झ. पाठः ॥ 12-165-20 वचनं शुककण्वयोरिति ड.द.पाठः ॥ 12-165-25 अनर्थस्य अर्थहीस्य । अधर्मिणः धर्महीनस्य ॥ 12-165-27 अत्र धर्मार्थयोः समत्वेऽपि धर्मस्य पूर्वत्वाद्विदुरमतमेवैतदीषद्भेदेन दर्शितम् ॥ 12-165-35 उदश्वितः तक्रात् ॥ 12-165-37 अकामतः कामं विना । केवलार्थात्स्वन्नं मृष्ठान्नं नास्ति ॥ 12-165-39 परिस्वास्थितस्य परितः खाता परिखा । सर्वतो मूलशोध इत्यर्थः । तत्र स्थितस्य अनृशंसमनिष्टुरम् ॥ 12-165-40 तयोस्तु दाक्ष्यं प्रवदन्तीति झ. पाठः ॥ 12-165-43 नैष्ठिकं सिद्धान्तरूपम् । एतेन पूर्वे सर्वे पूर्वपक्षा एवेत्युक्तम् ॥ 12-165-48 अर्थं मोक्षम् । लोकहितायं मोक्षाय । त्रिवर्गहीनोऽपि गुह्यमर्थं रहस्यं ज्ञानं विन्दते लभते पूर्वोक्तोऽधिकारी ॥