अध्यायः 169

ककसत्कृतेन गौतमेन तच्चोदनया तत्सुहृदो विरूपाक्षनाम्नो राक्षसस्य नगरं प्रति गमनम् ॥ 1 ॥

भीष्म उवाच ।
गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा ।
कौतूहलान्वितो राजन्राजधर्माणमैक्षत ॥
राजधर्मोवाच ।
भोः काश्यपस्य पुत्रोऽहं माता दाक्षायणी मम ।
सती त्वं च गुणोपेतः स्वागतं ते द्विजोत्तम ॥
भीष्म उवाच ।
तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा ।
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् ॥
भगीरथरथाक्रान्तदेशान्गङ्गानिषेवितान् ।
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ॥
वह्निं चापि सुसंदीप्तं मीनांश्चापि सुपीवरान् ।
स गौतमायातिथये न्यवेदयत काश्यपिः ॥
भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः ।
श्रमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् ॥
तनो विश्रान्तमासीनं गोत्रवृत्तमपृच्छत ।
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्मणोस्मीत्युदाहरत् ॥
तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् ।
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ॥
अपोपविष्टं शयने गौतमं वाक्यवित्तमः ।
पप्रच्छ काश्यपिर्वाग्मी किमागमनमित्युत ॥
ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते ।
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत ॥
तं काश्यपोऽब्रवीत्प्रीत्या नोत्कण्ठां कर्तुमर्हसि ।
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् ॥
चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा ।
मित्रं विद्या हिरण्यं च बुद्धिश्चेति बुधेप्सिता ॥
प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च महत्तरम् ।
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् ॥
ततः प्रभातसमये सुखं पृष्ट्वाऽब्रवीदिदम् ।
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि ॥
इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् ।
विरूपाक्ष इति ख्यातः सखा मम महाबलः ॥
तं गच्छ द्विजमुख्य त्वं स मद्वाक्यप्रचोदितः ।
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः ॥
इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः ।
फलान्यमृतकल्पानि भक्षयानो यथेष्टतः ॥
चन्दनागुरुमुख्यानि पत्रत्वचवनानि च ।
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ ॥
ततो मनुव्रजं नाम नगरं शैलतोरणम् ।
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा ॥
विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः ।
प्रहितः सुहृदा राजन्प्रीयमाणः प्रियातिथिः ॥
ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर ।
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति ॥
तस्मात्पुरवरात्तूर्णं पुरुषाः श्वेतवेष्टनाः ।
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् ॥
ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम् ।
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति ॥
राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः ।
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् ॥
ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः ।
गौतमः परमर्द्धि तां पश्यन्परमविस्मितः ॥
तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् ।
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥

12-169-2 अतिथिस्त्वं गुणोपेत इति झ. पाठः ॥ 12-169-12 चतुर्विधाह्यर्थसिद्धिर्बृहस्पतिमतं यथा । पारंपर्थं तथा दैवं काम्यं मैत्रमिति प्रभो । इति झ. पाठः ॥ 12-169-19 मरुव्रजं नामेति थ. पाठः । मरुद्रजं नामेति द. पाठः । मेरुव्रजं नामेति झ. पाठः ॥ 12-169-24 राक्षसाधिपतिः श्रीमाव्राजधर्मेण प्रेषितः । यदर्थमिह मां द्रष्टुं इति ट. ड. थ. पाठः ॥