अध्यायः 170

गौतमेन स्वस्यानर्हत्वं जानतापि विरूपाक्षेण वकराजगौरवात्प्रदत्तं धनभारमुदूह्य सायं पुनर्बकालयं प्रत्यागमनम् ॥ 1 ॥ तत्र परेद्युः स्वभवनं जिगमिपुणा गोतमेन पार्थयार्थं रात्रौ वकवधनिर्धारणम् ॥ 2 ॥

भीष्म उवाच ।
ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।
पूजितो राक्षसेन्द्रेण निपसादासनोत्तमे ॥
पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् ।
पृष्टो राज्ञा स नाज्ञासीद्गोत्रमात्रमथाब्रवीत् ॥
ब्रह्मवर्चमहीनस्य स्वाध्यायाद्विरतस्य च ।
गोत्रमात्रविदो राजा निवामं समपृच्छत ॥
राक्षम उवाच ।
क्व ते निवासः कल्याण किंगोत्रा ब्राह्मणी च ते ।
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ॥
गौतम उवाच ।
मध्यदेशप्रसूतोऽहं वासो मे शवरालये ।
शूद्री पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥
भीष्म उवाच ।
ततो राजा विममृशे कथं कार्यमिदं भवेत् ।
कथं वा सुकृतं मे स्यादिति वुद्ध्याऽन्वचिन्तयन् ॥
अयं वै जन्मना विप्रः सुहृत्तम्य महात्मनः ।
संप्रेपितश्च तेनायं काश्यपेन महात्मना ॥
तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा ।
भ्राता मे बान्धवश्चासौ सखा चैव प्रियो मम ॥
कार्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः ।
तत्रायमपि भोक्ता तु देयमस्मै च मे धनम् ॥
स चाद्य दिवसः पुण्यो ह्यतिथिश्चायमागतः ।
संकल्पितं चैव धनं किं विचार्यमतः परम् ॥
ततः सहस्रं विप्राणां विदुषां समलंकृतम् ।
स्नातानामनुलिप्तानामहतक्षौमवाससाम् ॥
तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशांपते ।
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥
बृस्यस्तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात् ।
भूमौ वरकुशाः स्तीर्णाः प्रेष्यैर्भरतसत्तम ॥
तासु ते पूजिता राज्ञा निपण्णा द्विजसत्तमाः ।
निलदर्भोदकेनाथ अर्चिता विधिवद्द्विजाः ॥
विश्वेदेवाः सपितरः साग्नयश्चोपकल्पिताः । विलिप्ताः पुष्पवन्तश्च सुप्रचाराः सुपूजिताः ।
व्यराजन्त महाराज नक्षत्रपतयो यथा ॥
ततो जाम्बूनदीः पात्रीर्वज्राङ्का विमलाः शुभाः ।
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः ॥
तस्य नित्यं मदापाढ्यां माध्यां च बहवो द्विजाः ।
ईप्सितं भोजनवरं लभन्ते सत्कृतं तथा ॥
विशेषतस्तु कार्तिक्यां द्विजेभ्यः संप्रयच्छति ।
शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥
सुवर्णं रजतं चैव मणीनथ च मौक्तिकान् ।
वज्रान्महाधनांश्चैव वैदूर्याजिनराङ्कवान् ॥
रत्नवन्ति च पात्राणि दक्षिणार्थं स भारत ।
दत्त्वा प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ॥
गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः । येषुयेषु च भाण्डेषु भुक्तवन्तो द्विजोत्तमाः ।
तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥
इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि ।
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणवर्षभाः ॥
ततो महार्हैस्तैस्तेन रत्नैरभ्यर्चिताः शुभैः ।
ब्राह्मणा मृष्टवसनाः सुप्रीताः समुदोऽभवन् ॥
ततस्तान्राक्षसेन्द्रस्तु द्विजानाह पुनर्वचः ।
नाना देशागतान्राजा ब्राह्मणाननुमन्य वै ॥
अद्यैकं दिवसं विप्रा न वोऽस्तीह भयं क्वचित् ।
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥
ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः ।
गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥
कृच्छ्रात्समुद्वहन्भारं न्यग्रोधं समुपागमत् ।
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च सः ॥
ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः ।
स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥
तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयद्बकः ।
पूजां चाप्यकरोद्धीमान्भोजनं च यथाविधि ॥
ततस्तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ ॥
गौतमश्चिन्तयामास रात्रौ तस्य समीपतः ।
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥
गृहीतो लोभमोहाभ्यां दूरं च गमनं मम । न चास्ति पथि भोक्तव्यं प्राणसंधारणं मम ।
किं कृत्वा सुकृतं हि स्यादिति चिन्तापरोऽभवत् ॥
ततः स पथि भोक्तव्यं प्रेक्षमाणो न किंचन ।
कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥
अयं बकपतिः पार्श्वे मांसराशिचितो महान् ।
इमं हत्वा गृहीत्वाऽस्य मांसं यास्य इति प्रभो ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥

12-170-2 ब्रह्मधारणमिति ध. पाठः ॥ 12-170-15 विलिप्ताश्चन्दनेन ॥ 12-170-25 इष्टतः इष्ट देशम् ॥ 12-170-30 ततस्तौ संविदमित्यर्धं झ. पाठे नास्ति । तत्र गौतमश्चिन्तयामासेत्यस्य स्थाने स भुक्तवान्सुविश्रान्तो गौतमोऽचिन्तयत्तदा इत्यर्धं वर्तते ॥