अध्यायः 174
भीष्मेण युधिष्ठिरंप्रति कालस्य द्रुततरपातितय सद्यः साधनस्य
संपादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः ॥ 1 ॥
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे ।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै ।
बभूव पुत्रो मेधावी मेधावीनाम नामतः ॥
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः ॥
पुत्र उवाच ।
धीरः किंस्वित्तात कुर्यात्प्रजानन्
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् ।
पितस्तदाचक्ष्व यथार्थयोगं
ममानुपूर्व्या येन धर्मं चरेयम् ॥
पितोवाच ।
वेदानधीत्य ब्रह्मचर्येण पुत्र
पुत्रानिच्छेत्पावनार्थं पितृणाम् ।
अग्नीनाधाय विधिवच्चेष्टयज्ञो
वनं प्रविश्याथ मुनिर्बुभूषेत् ॥
पुत्र उवाच ।
एवमभ्याहते लोके समन्तात्परिवारिते ।
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥
पितोवाच ।
कथमभ्याहतो लोकः केन वा परिवारितः ।
अमोघाः काः पतन्तीह किंनु भीषयसीव माम् ॥
पुत्र उवाच ।
मृत्युनाभ्याहतो लोको जरया परिवारितः ।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ।
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च ॥
पितोवाच ।
यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह ।
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् ॥
पुत्र उवाच ।
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा ।
तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः ॥
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ।
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् ॥
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् ।
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥
को हि जानाति कस्याद्य मृत्युकालो भविष्यति ।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् ।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः ।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥
तं पुत्रपशुसंपन्नं व्यासक्तमनसं नरम् ।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥
संचिन्वानकमेवैनं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥
कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम् ।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥
दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् ।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥
नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥
जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् ।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥
अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः ।
वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥
तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि ।
छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥
हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः ।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥
तस्मात्सत्यव्रताचारः सत्ययोगपरायणः ।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥
सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः ।
समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत् ॥
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने ॥
पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति ।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा ।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमंदुःखं नास्ति त्यागसमं सुखम् ॥
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा ।
आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं
ततस्ततश्चोपरभः क्रियाभ्यः ॥
किं ते धनैर्बान्धवैर्वापि किं ते
किं ते दारैर्ब्राह्मण यो मरिष्यसि ।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताः पिता च ॥
भीष्म उवाच ।
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप ।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥
12-174-4 मोक्षधर्माणामर्थेषु कुशलः ॥ 12-174-5 यथार्थयोगं
फलसंबन्धमनतिक्रम्य तात कुर्याच्छुभार्थी इति ड.थ.पाठः । तात कुर्यात्प्रजासु
इति ट. पाठः ॥ 12-174-7 अमोधास्वायुर्हरणेन सफलासु रात्रिषु ॥ 12-174-11
वन्ध्यं निष्फलम् ॥ 12-174-12 यदा मृत्युरभ्येति तदा कः सुखं विन्देतेति
संबन्धः ॥ 12-174-13 पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा । आर्तवं विना
पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात् । विचिन्वन्तं शास्त्रदृष्ट्या आघ्राणेन
च । उरणं मेषम् ॥ 12-174-17 एषां पुत्रादीनाम् ॥ 12-174-19 संचिन्वानकं कुत्सितं
संचिन्वानं संग्रहीतारम् ॥ 12-174-20 कार्यं कर्तुमिष्टम् । कृताकृतमर्धकृतम् ॥
ईहा तृष्णा ॥ 12-174-21 कर्मसंज्ञितं वणिगित्यादि कर्मानुरूपसंज्ञावन्तम् ॥ 12-174-24 द्वयेनान्तकजराख्येन ॥ 12-174-25 ग्रामे ख्यादिसङ्घे रतिरासक्तिरेव
मृत्योर्मुखं न तु वासमात्रम् । गोष्ठमिव गोष्ठं वासस्थानाम् । अरण्यं
विविक्तदेशः । गृहं त्यक्त्वैकान्ते ध्यानपरो भवेदित्यर्थः ॥ 12-174-26 यान्ति
मुक्तिमिति शेषः ॥ 12-174-27 न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः ।
हेतुः श्राद्धादिनिमित्तं तैः जीवितमर्थांश्चापनयन्ति तैर्हिस्नस्तेनादिभिः ॥ 12-174-28 मृत्युसेनां जराव्याधिरूपां सत्ये ब्रह्मज्ञाने अमृतं कैवल्यम् ॥ 12-174-29 सत्यव्रताचारः सत्यं ब्रह्मज्ञाने तदर्थं व्रतं वेदान्तश्रवणादि
तदाचारस्तदनुष्ठाता । सत्ययोगपरायणः ब्रह्मध्यानपरायणः । सत्यः प्रमाणभूत आगमो
गुरुवे दवाक्यं यस्य स सत्यागमः श्रद्धावान् ॥ 12-174-32 शान्तियज्ञ
इन्द्रियनिग्रहः । ब्रह्मयज्ञो नित्यमुपनिषदर्थचिन्तनम् । वाग्यज्ञः जपः ।
मनोयज्ञः ध्यानं । कर्मयज्ञः स्रानशौचगुरुशुश्रूषाद्यावश्यक धर्मानुष्ठानम् ।
उदगायने देवयानपथनिमित्तम् । दैर्घ्यमार्षम् ॥ 12-174-33 अन्तवद्भिरनित्यफलैः ।
क्षेत्रयज्ञैः शरीरनाशनैः ॥ 12-174-36 आत्मनि परमात्मनि प्रलये स्थित इति शेषः ।
आत्मना सृष्टिकाले जातः ॥ 12-174-37 एकता एकप्रकारता शीलं श्लाघनीयं वृत्तम् ।
दण्डनिधानं वाङ्भनः कायौर्हिसात्यागः ॥