अध्यायः 175

भीष्मेण युधिष्ठिरंप्रति दारिद्र्यधनिकत्वयोः क्रमेणार्थानर्थसाधनत्वे प्रमाणतया शम्याकगीताया अनुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
धनिनश्चाधना ये च वर्तयन्ति स्वतन्त्रिणः ।
सुखदुःखागमस्तेषां कः कथं वा पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शम्याकेन विमुक्तेन गीतं शान्तिगतेन च ॥
अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमाश्रितः ।
क्लिश्यमानः कुदारेण कुचेलेन बुभुक्षया ॥
उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् ।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥
तयोरेकतरो मार्गो यदेनमुपसन्नयेत् ।
न सुखं प्राप्य संहृष्येन्नासुखं प्राप्य संज्वरेत् ॥
न वै चरसि यच्छ्रेय आत्मनो वा न रंस्यसे ।
अकामात्माऽपि हि सदा धुरमुद्यम्य चैव ह ॥
अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि ।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ॥
आकिञ्चन्यं सुखं लोके पथ्यं शिवमनामयम् ।
अनमित्रपथो ह्येष दुर्लभः सुलभः सताम् ॥
अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वतः ।
अवेक्षमाणस्त्रील्लोँकान्न तुल्यमिह लक्षये ॥
आकिञ्चन्यं च राज्यं च तुलया समतोलयम् ।
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम् ॥
आकिञ्चन्ये च राज्ये च विशेषः सुमहानयम् ।
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ॥
नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः ।
प्रभवन्ति धनं हर्तुमितरे स्युः कुतः पुनः ॥
तं वै सदा कामचरमनुपस्तीर्णशायिनम् ।
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः ॥
धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः ।
तिर्यग्दृष्टिः शुष्कमुखः पापको भ्रुकुटीमुखः ॥
निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता ।
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥
श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम् ।
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः ॥
अथैनं रूपमानश्च धनपानश्च विन्दति । अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः ।
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रमाद्यति ॥
संप्रसक्तमना भोगान्विसृज्य पितृसंचितान् ।
परिक्षीणः परस्वानामादानं साधु मन्यते ॥
तमतिक्रान्तमर्यादमाददानं ततस्ततः ।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः ॥
एवमेतानि दुःखानि तानि तानीह मानवम् ।
विविधान्युपवर्तन्ते गात्रसंस्पर्शजान्यपि ॥
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत् ।
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह ॥
नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् ।
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भवेत् ॥
इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् ।
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥

12-175-1 स्वतन्त्रिणः स्वशास्त्रानुसारिणः ॥ 12-175-2 तेन शम्याकेन यद्गीतं तन्मां प्रति कश्चिदब्रवीदिति द्वयोः संबन्धः । शंपाकेनेह मुक्तेन इति झ. पाठः ॥ 12-175-3 कुचेलेन कुवस्त्रेण । निर्धनत्वादन्नाच्छादनहीन इत्यर्थः ॥ 12-175-5 उपसंनयेत् संप्राप्नुयात् । तयोरेकतरे मार्गे यदेनमभिसंनयेदिति झ. पाठः । तत्र अभिसंनयेद्दैवं यदि प्रापयेत्तर्हि न संहृष्येदित्यादिना संबन्धः ॥ 12-175-7 अकिञ्चनः दरिद्रः । परितः पतन् गच्छन् । अनिकेतश्चरन्नित्यर्थः ॥ 12-175-8 पथ्यं मोक्षमार्गादनपेतम् । अनमित्रपथः शत्रुवर्जितः पन्थाः । दुर्लभः कामिनाम् ॥ 12-175-9 उपपन्नस्य वैराग्यसंपन्नस्य ॥ 12-175-12 नैवास्याग्निर्न चारिष्ट इति प्रभवन्ति धनत्यागाद्विमुक्तस्य निराशिषः इति च झ. पाठः ॥ 12-175-13 अनुपस्तीर्णे शय्याहीने भूतले शेते तम् । उपधानं शीर्षोपधानम् ॥ 12-175-17 अभिजात उत्तमवंश्यः त्रिभिर्धनरूपकुलैः ॥ 12-175-18 भोगान् भोग्यधनादीन विसृज्य व्ययीकृत्य ॥ 12-175-19 प्रतिषेधन्ति दण्डयन्ति । लुब्धा व्याधाः ॥ 12-175-20 संस्पर्शजानि दाहच्छेदादीनि ॥ 12-175-21 भैषज्यं प्रतीकारमाचरेत् ॥ 12-175-23 शम्याकेन पुरा गीतमित्यध्याहारेण योजना ॥