अध्यायः 177

भीष्मेण युधिष्ठिरंप्रति प्रपञ्चस्यानित्यत्वादिज्ञानपूर्वकविरक्तेः सुखहेतुतायां प्रमाणतया प्रह्लादाजगरमुनिसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किंच कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥
चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम् ।
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥
प्रह्लाद उवाच ।
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः ।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।
नित्यतृप्त इव ब्रह्मन्न किंचिदिव मन्यसे ॥
स्रोतसा ह्रियमाणासु प्रजासु विमना इव ।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥
भीष्म उवाच ।
अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः ।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥
स्वभावादेव संदृश्या वर्तमानाः प्रवृत्तयः ।
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥
पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् ।
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः । उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये ।
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥
जङ्गमस्थावराणां च भूतानामसुराधिप ।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥
अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम् ।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥
दिवि संचरमाणानि ह्रस्वानि च महान्ति च ।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥
इति भूतानि संपश्यन्ननुषक्तानि मृत्युना ।
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥
आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु ।
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे ।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥
शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥
धारयामि च चीराणि शाणक्षौमाजिनानि च ।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया ।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥
अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते प्रविष्टम् ।
अनभिमतमसेवितं विमूढै र्व्रतमिदमाजगरं शुचिश्चरामि ॥
अचलितमतिरच्युतः स्वधर्मा त्परिमितसंसरणः परावरज्ञः ।
विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥
अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् ।
हृदयसुखमसेवितं कदर्यै र्व्रतमिदमाजगरं सुचिश्चरामि ॥
इदमिदमिति तृष्णयाऽभिभूतं जनमनवाप्तधनं विषीदमानम् ।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥
बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयं तम् ।
उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥
सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च ।
विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥
अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।
उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥
अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः ।
अपगतफलसंचयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥
अपगतमसुखार्थमीहनार्थै रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् ।
तृपितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥
न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च ।
तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥
बहु कथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम् ।
इदमिदमिति तत्रतत्र हन्त स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥
तदिदमनुनिशाम्य विप्रपातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।
अनवसितमनन्तदोषपारं नृपु विहरामि विनीतदोषतृष्णः ॥
भीष्म उवाच ।
अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः ।
अपगतभयलोभमोहमन्युः स खलु सुखी विचरेदिमं विहारम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥

12-177-2 आजगरस्याऽजगरवृत्त्या जीवतः ॥ 12-177-4 निर्विधित्सो निरारम्भः ॥ 12-177-6 स्रोतसा कामादिवेगेन । कूटस्थो निर्व्यापारः ॥ 12-177-7 इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि तन्निर्वाहमात्रार्थी अश्नासि ॥ 12-177-8 प्रज्ञा तत्त्वदर्शनम् । श्रुतं तन्मूलभूतं शास्त्रम् । वृत्तिस्तदर्थानुष्ठानम् । श्रेयो ममेति शेषः ॥ 12-177-9 अनुयुक्तः पृष्टः । लोकस्य धर्मो जन्मजरादिस्तस्य विधानं कारणं तदभिज्ञः लोकधर्मविधानवित् ॥ 12-177-10 अनिमित्ततः कारणहीनाद्ब्रह्मणः । पश्य आलोचय ॥ 12-177-12 तस्मादहं मनो न क्वचिद्विषये विदधे धारयामि तद्विनाशे शोकोत्पत्तिं जानन् ॥ 12-177-15 पार्थिवानां पृथिवीस्थानाम् ॥ 12-177-19 आजगरीं वृत्तिं प्रपञ्चयति सुमहान्तमित्यादिना ॥ 12-177-20 आशयन्ति भोजयन्ति ॥ 12-177-26 कषायः रागद्वेषादिः ॥ 12-177-28 धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया निशाम्यालोच्य ॥ 12-177-29 अर्थहेतोरनार्यं नीचम् । अर्यं स्वामिनगाश्रयति यः कृपणो दीनजनस्तमनुदृश्योपशमरुचिः । आत्मवान् जितचित्तः ॥ 12-177-30 विधिनियतं दैवाधीनम् ॥ 12-177-31 मतिरालोचनम् । बुद्धिर्निश्चयः । उपगतं समीपागतं फलं प्रियं येषां तान् भोगिनः सर्पान् अजगरान् निशाम्य दृष्ट्वा । फलभोगिन इति मध्यमपदलोपः ॥ 12-177-32 प्रकृत्या दमादियुक्तः अपगतफलसंचयस्त्यक्तयोगफलसमूहः ॥ 12-177-33 एषणाविषयैः पुत्रवित्तादिर्भिर्हेतुभिः । असुखार्थं परिणामे दुःखार्थम् । अपगतमात्मनः पराङ्भुखं तृषितमनियतं च मनोऽवेक्ष्य । उपगतबुद्धिर्लव्धालोकः । आत्मसंस्थमात्मनि संस्था समाप्तिर्यस्य तत्तथा तुं व्रतं चरामि ॥